अमरैराचितं दृष्ट्वा रुरुधुर्दैत्यसैनिकाः । ततः समभवद्युद्धं गणानां दानवैः सह
शरवर्षमथात्युग्रं दानवानां दिवौकसाम् । ततः समस्तान्मातंगाञ्जघ्नुः शिखिमुखा रणे
रथान्हयान्पदातींश्च काकतुंडा महाबलाः । हतानां दैत्यसंघांनां संगरे भृशमायिनाम्
शिरोभिर्गगनं व्याप्तं प्रहसद्भिर्भयावहैः । मुक्तकेशारुणमुखैर्भीमदंष्ट्राविलोचनैः
सिंहैः कबंधजंघोरुकटिपृष्ठनिकृंतनैः । चिता सर्वत्र वसुधा कबंधैरुधिरारुणैः
ततो विरावः सुमहान्बभूव दैत्येश्वराणां ध्वजिनीषु धावताम् । शंभोर्गणैः पातितसैनिकानां यथार्णवानां नदतां युगक्षये
नारद उवाच- दैत्यसैन्यं हतं दृष्ट्वा गणैर्नंदिपुरोगमैः । क्रुद्धाः शुंभादयो दैत्याः समाजग्मुर्गणान्प्रति
ततः शुंभो महादैत्यो नंदिनं प्रत्ययुध्यत । महाकालं निशुंभोऽथ कालो लोकेश्वरं रणे
पुष्पदंतं शैलरोमा माल्यवंतं महाबलः । कोलाहलो रणे राजन्प्राप्तो मायाबलेन च
चंडं भयानको नाम राहुः स्कंदमधावत । कूष्मांडं सर्परोमा च घर्घरो मदनं तथा
शुभं केतुमुखो हंतुं ययौ जंभो विनायकम् । हासं पातालकेतुश्च भृंगीशं रोमकंटकः
युयुधुः कोटिशो रुद्रगणा दैत्याः परस्परम् । पश्यतोरुभयोस्तत्र स्वामिनोरिति ते युधि
दृढप्रहारिणो जघ्नुर्गणा दैत्याः शरैरथ । नंदी मुमोच तान्बाणान्महासारो यथा नगे
ततः संपूरयामास मुखं शुंभस्य पत्रिभिः । यथा पर्णचयैर्वातो मंदरस्येव कंदरम्
शुंभोऽथ कार्मुकं त्यक्त्वा रथात्तं प्रत्यधावत । उत्पाट्य च गिरिं तेन जघान हृदि नंदिनः
नंदिनो हृदयं भित्त्वा चूर्णयित्वा रथं रणे । पपात भूमौ स गिरिर्वज्रं प्राप्य गिरिं यथा
मूर्च्छां प्राप्य क्षणात्संज्ञां वेगवान्स पलायितः । महाकालो निशुंभेन मुद्गरेण हतो हृदि
आगत्य दैत्यं गदया जघान मुकुटोपरि । तत्प्रहारमचिंत्याथ निशुंभोऽपि महाबलः
तं गृहीत्वा चरणयोर्महाकालं महाबलः । भ्रामयित्वा करतलाच्चिक्षेप च ननाद च
स तद्वक्त्रानिलं पीत्वा ननाद रुधिरारुणः । पुष्पदंतः शैलरोम्णा चाहतो मुष्टिना मुखे
गदया शैलरोमाणं हत्वा भूमौ न्यपातयत् । तं दृष्ट्वा पतितं भूमौ गिरिकेतुर्महाबलः
पुष्पदंतं महाभीमं मुद्गरेण व्यपोथयत् । पुष्पंदंतोऽथ खड्गेन गिरिकेतोः शिरोऽछिनत्
गृहीत्वा चर्म खड्गं च गिरिकेतोरधावत । शिरस्तं प्राह किं यासि मां त्यक्त्वा समरार्थिनम्
शिरोहीने च कायेऽस्मिन्किं तु धावन्न लज्जसे । इत्युक्ते शिरसा तेन कबंधेन तु पादयोः
विधृतः पुष्पदंतश्च कुक्षौ तीक्ष्णासिनाच्छिनत् । निश्चक्रामासुरः कुक्षेः शतशीर्षो महाबलः
द्विशताक्षिसमायुक्तः शतद्वयभुजाकुलः । भ्रमत्तस्य शिरो राजन्कबंधोपांतमागमत्
तच्छिरः प्राप्तमालोक्य पुष्पदंतोऽसिनाच्छिनत् । ततो भूकंपनो नाम ज्वरो दैत्यो भयावहः
पुष्पंदंतस्तदा तत्र द्वाभ्यां राजन्विमर्दितः । ज्वरेण तेन च क्लिष्टो दुःसहेनातिवेगिना
त्यक्त्वा शिवगणः संख्यं कंपमानो गिरिं ययौ । कोलाहलो महाधन्वी माल्यवंतं शरैस्त्रिभिः
विव्याध स्कंधयोर्भाले माल्यवांश्च ततोऽसुरम् । बाणाहतो माल्यवता शस्त्रैर्नानाविधैः शितैः