तैलपात्रं च नमितं सुप्रकाशोऽभवत्तदा । ब्राह्मणोऽपि जजागार त्यक्त्वा निद्रां विमोहिनीम्
मार्जारोऽपि च तां रात्रीमजाग्रच्चाखुभक्षकः । ततः प्रभाते विमले कृत्वा नित्यक्रियां द्विजः
ततश्च पारणं चक्रे विप्रो बंधुजनैः सह । एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः
बभूवुः पुत्रपौत्राश्च धनधान्यमनुत्तमम् । आरोग्यं परमामृद्धिमवाप महतीं श्रियम्
दीपव्रतप्रभावेन कपिलो मोक्षमागतः । संभेद्य मंडलं पुण्यं सवितुः शशिनस्तथा
दीपज्योतिःस्वरूपेण परमात्मा नियुक्तवान् । मूषिकापि च कालेन ममार बिलमध्यतः
विमानवरमारुह्य देवगंधर्वसेवितम् । अप्सरोभिः परिवृतो विद्याधरगणैर्युतः
स्तूयमानो महातेजा जयशब्दादि मंगलैः । स्तूयमानः स वै नागैर्विष्णुलोकं जगाम सः
कल्पकोटिसहस्राणि कल्पकोटिशतानि च । भुक्त्वा च विपुलान्भोगान्ततो राजाभवद्भुवि
सुधर्मा नाम धर्मात्मा देवब्राह्मणपूजकः । रूपवान्सुभगश्चैव महाबलपराक्रमः
तस्य प्रियतमा भार्या सर्वलक्षणसंयुता । भर्तृभक्ता तथा शीला नाम्ना सा रूपसुंदरी
सर्वासां चैव नारीणां मध्ये सा सुभगाभवत् । पुत्राश्च बहवो जातास्तथा दुहितरो घनाः
एवं विहरतोस्तद्वद्दंपत्योः प्रीतिपूर्वकम् । आगतः कार्त्तिको मासो हरिनेत्रावबोधकृत्
तस्मिन्दीपाः प्रबोध्यंते नारायणपरायणैः । कृच्छ्रचांद्रायणादीनि व्रतानि नियमास्तथा
क्रियंते विष्णुभक्तैश्च संसारभयभीरुभिः । अथ प्रबोधिनीं प्राप्य राजा राज्ञीमथाब्रवीत्
भद्रे प्रबोधिनी पुण्या विष्णोर्नाभिसरोरुहे । करिष्याम्यद्य पूजां च सोपवासो जितेंद्रियः
स्नात्वा च पुष्करे तीर्थे पुंडरीकाक्षमच्युतम् । पूजयिष्यामि देवेशं लक्ष्म्या सह जनार्दनम्
इति सा वांछितं श्रुत्वा भर्तुः प्रियहिते रता । उवाच वचनं गुह्यं भर्त्तारं चारुहासिनी
रूपसुंदर्युवाच- ममापि हृदये कामः समुत्पन्नो नराधिप । रूपसौंदर्यवांछा च हृदये मम वर्त्तते
पुष्करं प्रथमं तीर्थं गंतुमिच्छे त्वया सह । ततो राजा तया सार्द्धमागतः पुष्करं तदा
हस्त्यश्वरथवृंदैश्च समागत्य पुरोहितैः । ततः स्नात्वा तथा ध्यायन्तर्पयन्पितृदेवताः
पूजयामास देवेशं पुंडरीकाक्षमच्युतम् । दीपमालाकुले तत्र सर्वतः सुमनोहरे
ददर्श लिखितं तत्र मार्जारं देवतालये । तं दृष्ट्वा प्राकृतं कर्म जन्म स्मृत्वा नृपस्तदा
मुखपंकजमालोक्य प्रियायाः प्रजहास च । रूपसुंदर्युवाच- मम सन्मुखमालोक्य भर्तः किं स्मितकारणम् 6.30.
कथयामास हृष्टात्मा प्राक्तनं कर्मणः फलम् । राजोवाच- अहमासं पुरा देवि मार्जारो ब्राह्मणालये
भक्षिता मूषकास्तत्र मया शतसहस्रशः । ततो नारायणस्याग्रे दीपः संरक्षितो यतः
व्याजेनापि मया देविप्राप्तं तत्कर्मणः फलम् । विष्णुलोकमनुप्राप्य राज्यं प्राप्तं मयाधुना
रूपसुंदर्युवाच-। ममापि स्मरणं जातं प्राकृतस्य च जन्मनः । मूषिका चाहमप्यासं क्षुद्रा ब्राह्मणवेश्मनि
कार्तिके च प्रबोधिन्यां मंदीभूते च दीपके । वर्त्यग्राहरणार्थाय निर्गताहं तदा बिलात्
दृष्ट्वा नारायणं देवं पूजितं कुसुमैस्तथा । निद्राभिभूतं विप्रं च वर्त्तिः कृष्टा मया तदा