तादृशी यस्य सा भार्या गृहमीदृङ्मनोहरम् । तत्रादृष्ट्वावदच्छंभुं हरः कुत्र गतः कवे
कथं मम भयाच्चेति पृष्टः प्रोवाच भार्गवः । देवशंभुर्महाशैलमगम्यं मानसोत्तरम्
ययौ तत्र महादेवो गंतुं चान्यैर्न शक्यते । इति काव्यवचः श्रुत्वा प्राह दैत्यो महाबलः
जालंधर उवाच-। अहं यास्यामि देवेशं त्वं पुरा गच्छ भार्गव । इत्युक्त्वा प्रययौ तत्र यत्रास्ते शंकरः स्वयम्
अपश्यत्तं गिरिवरं सिंधुजो मानसोत्तरम् । तस्य षष्टिसहस्राणि योजनानां समुच्छ्रयः
स शैलो मानसो राजन्दैत्यसैन्यैः समावृतः । बहवो दैत्यराजानः शैलमारुरुहुर्द्रुतम्
छत्रांधकारं पर्यासीत्वाद्यनादेन वेपथुः । सैन्यकोलाहलस्तेषां पूरयामास रोदसी
नारद उवाच-। अथैवमागतं दृष्ट्वा दैत्यसैन्यं महत्तदा । अत्युच्चे स गिरेः शृंगे स्थाप्य गौरीं सखीवृताम् 6.11.
भगवांश्च गणैः सर्वैः सन्नद्धैर्युद्धदुर्मदैः । त्रिंशन्महाब्जसाहस्रैः प्रमथानां वृतः शिवः
उवाच नंदिनं शंभुर्गणानामधिपं त्वया । प्रहर्तव्यो महादैत्यो वीरो जालंधरो रणे
महाकालादिभिः शूरैर्याहि त्वं परिवारितः । तावदाजौ त्वया तस्माद्योद्धव्यमतिपौरुषात्
यावद्युद्धे नारिजयो मम वीर भविष्यति । इति शंभोर्वचः श्रुत्वा स च सारथिमब्रवीत्
काकतुंडरथं मेऽद्य समानय महामते । नंदिनो वचनं श्रुत्वा सोपि स्यंदनमाहरत्
द्वात्रिंशदश्वसंयुक्तं चक्रषोडशसंयुतम् । षष्टिध्वजसमोपेतं द्वात्रिंशद्योजनायुतम्
सर्वशस्त्रैश्च संपूर्णं प्राप्तं सांग्रामिकं रथम् । नंदिनश्चक्ररक्षार्थं पुत्रौ स्कंदविनायकौ
समादिष्टौ शंकरेण सन्नद्धौ तौ स्ववाहनौ । गणैः परिवृतो नंदी वाग्भिः संपूज्य चेश्वरम्
नंदी रथं समारुह्य निर्ययौ दानवान्प्रति । विराजते तस्य मूर्ध्नि छत्रं द्वादशयोजनम्
यावत्स निर्ययौ नंदी तावत्ते दानवाः पुरः । शैलोपरि समारूढा दानवा घोरदर्शनाः
गणानामायुधैस्तीक्ष्णैः निहताः पतिता भुवि । हन्यमाना गणैर्दैत्यास्तत्यजुर्दूरतो गिरिम्
ततो धूमसमं तस्मादवरुह्य शिलोच्चयात् । जघ्नुर्दैत्यान्शितैः शस्त्रैर्गणा राजन्महाबलान्
अमरैराचितं दृष्ट्वा रुरुधुर्दैत्यसैनिकाः । ततः समभवद्युद्धं गणानां दानवैः सह
शरवर्षमथात्युग्रं दानवानां दिवौकसाम् । ततः समस्तान्मातंगाञ्जघ्नुः शिखिमुखा रणे
रथान्हयान्पदातींश्च काकतुंडा महाबलाः । हतानां दैत्यसंघांनां संगरे भृशमायिनाम्
शिरोभिर्गगनं व्याप्तं प्रहसद्भिर्भयावहैः । मुक्तकेशारुणमुखैर्भीमदंष्ट्राविलोचनैः
सिंहैः कबंधजंघोरुकटिपृष्ठनिकृंतनैः । चिता सर्वत्र वसुधा कबंधैरुधिरारुणैः
ततो विरावः सुमहान्बभूव दैत्येश्वराणां ध्वजिनीषु धावताम् । शंभोर्गणैः पातितसैनिकानां यथार्णवानां नदतां युगक्षये
नारद उवाच- दैत्यसैन्यं हतं दृष्ट्वा गणैर्नंदिपुरोगमैः । क्रुद्धाः शुंभादयो दैत्याः समाजग्मुर्गणान्प्रति
ततः शुंभो महादैत्यो नंदिनं प्रत्ययुध्यत । महाकालं निशुंभोऽथ कालो लोकेश्वरं रणे
पुष्पदंतं शैलरोमा माल्यवंतं महाबलः । कोलाहलो रणे राजन्प्राप्तो मायाबलेन च
चंडं भयानको नाम राहुः स्कंदमधावत । कूष्मांडं सर्परोमा च घर्घरो मदनं तथा