भोगार्थां किं प्रयच्छामि तुभ्यं भावुक कथ्यताम् । श्रुत्वा नारायणो वाक्यमब्धिजस्य मुदान्वितः
उवाच किं करोमीति प्रियं सिंधुसुतेप्सितम् । इत्युक्तः स प्रहृष्टोऽथ हरिं प्रोवाच सत्वरः
यामि योद्धुं रणेऽहं त्वं सुखी तिष्ठेह सागरे । लक्ष्म्या दत्ताक्षतस्तत्र केशवेनाथ पूजितः
स निर्गत्य हरेः स्थानात्समुद्रं प्रष्टुमागतः । सोऽर्णवं प्रणिपत्याह तात यास्यामि दूरतः
नीलकंठं रणे जेतुमनुज्ञां दातुमर्हसि । पुत्रस्य वचनं श्रुत्वा यियासोः शंकरं प्रति
सिंधुराजेन सोऽप्युक्तः पुत्र तं तापसं त्यज । भुंक्ष्व राज्यं मया दत्तं तापसं त्यज दूरतः
अत्यद्भुतः प्रतापस्ते त्वत्तुल्यो नास्ति भूमिपः । स्वर्गादाधिक्यतां नीतं त्वया वत्स धरातलम्
तव राज्येव सुमती वैकुंठ इव राजते । यो देवो दुर्जयो दैत्यैरानीतः सह सश्रिया
ममांतिकं वत्स वस शंकरं भिक्षुकं त्यज । एवमुक्तो ह्यर्णवेन गिरिजां प्रति रागवान्
पितृवाक्यमविज्ञाय आगत्य स्वभटान्स्वकान् । सज्जीभूतं तु युद्धाय वृंदा जालंधरं जगौ
वृंदोवाच। नाथ युद्धं न कर्तव्यं राजेंद्र कुत्सयोगिना । मनो निवर्त्यतां पश्य प्रवृत्तं पार्वतीं प्रति
गौरीं त्वं वांछसि कस्मात्पार्वती किं ममाधिका । तपस्विनी निरालंबा संसक्ता स्थाणवे सदा
सुतानुरागिणी वंध्या ततः कृत्रिमपुत्रिका । वृथास्तुता नारदेन तां त्यजस्व भजस्व माम्
इति वृंदावचः श्रुत्वा प्रत्युवाचार्णवात्मजः । अदृष्ट्वा पार्वतीरूपं मच्चेतो न निवर्तते
वृंदे त्वया जनपदो राजधानी प्रपाल्यताम् । स्मर्तव्योऽहं सदा चंडि यदि मां हंति शंकरः
इति भर्तृवचः श्रुत्वा वृंदा हाससमन्विता । जगाम शिबिकारूढा पीठं जालंधरं तदा
नारद उवाच-। अथ प्रतस्थे कैलासं सिंधुसूनुर्महाबलः । महापद्मसहस्राणां षष्ट्या सैन्येन संवृतः
अत्रांतरे परित्यज्य कैलांसं शंकरो गतः । गणपुत्रप्रियायुक्तः कैलासं मानसोत्तरम्
जालंधरस्ततः प्राप्तः कैलासं प्रथमेऽहनि । सेनाः संस्थाप्य कैलास आलोकनकुतूहली
दिव्यकेसरमंदाररजःपुंज परिश्रिताः । शीतांबुशीकरासारैः प्रभुग्ना वांति वायवः
यत्र सिद्धांगना पीनस्तनोत्तुंगतरंगिणः । मंदारमकरंदाढ्याः सुंदरा वांति वायवः
यत्राशोकरुचिस्निग्धपादन्यासं च योषिताम् । विलोक्य दानवेंद्रोभून्मनोरथसमाकुलः
प्राप्नुवंति सुराः प्रीतिं स्वबिंबालोकहर्षिताः । यत्र किन्नरकांतानां सुरतव्यंजितप्रभाः
विभांति सर्वतस्तत्र मंदाराः शीर्णपल्लवाः । यत्र शंभुगणाक्रांता नानावेलाकुलद्रुमाः
भांति मन्मथभूपाल यशसा सुधृता इव । यत्र चंदनकस्तूरी गंधोन्मत्तालिसंचयाः । विभांति दग्धकंदर्प्प निर्वाणांगारसन्निभाः
यत्रांगनानां सकलं विलोक्य सौरभ्यमत्युत्तमकांतिमित्रम् । मन्ये परिष्वक्तमनोविनोदा कस्तूरिका गाहति कालिमानम्
क्वचित्प्रवरगैरिकासमसमुल्लसत् पंकजं लवंगदलसन्निभासनचलच्चकोरं क्वचित् । क्वचिद्गिरिसरित्तटीतरणिवत्स्फुरत्कुंडलं चलन्निचुलमंजरीविनयनम्रभृंगं क्वचित्
क्वचिद्दलितकोकिलाकुलितनूत्नचूतांकुरं कुरंगकुलसेवितं प्रबलशालिमूलं क्वचित् । क्वचित्प्रवरसुंदरैः सुरवधूपदैः पावनं वनं नयति विक्रियामिह मनो मुनीनामपि
एवंगुणसमायुक्तं विलोक्य हरमंदिरम् । विचित्रं चापि कैलासं सर्वरत्नसमाश्रयम्
अत्यंतविस्मितो दैत्यः प्रोवाच भृगुनंदनम् । कस्मात्तं तापसं तात प्रवदंति भवादृशाः