शोचंत्येतानि नो दत्तं नो भुक्तं न हुतं मया । लोभग्रस्तेन मनसा नो वित्तं ब्रह्मणेऽपि तम्
अथेश्वरजटाजूटादाविरासीद्गणो महान् । त्र्याननस्त्रिचरणस्त्रिपुच्छः सप्तहस्तवान्
स च कीर्तिमुखो नाम पिंगलो जटिलो महान् । तं दृष्ट्वा सा कपालाली भयात्तस्थौ मृतेव सा ३७*। पुरतः प्राह सगणस्ततः कीर्तिमुखः प्रभुम् । प्रणिपत्य शिवं देवमत्यर्थं क्षुधितः प्रभो
तदोक्तः शंकरेणाहो भक्षय त्वं रणे हतान् । क्षणं विचार्य स गणः क्वाप्यदृष्ट्वा रणं तदा
ब्रह्माणं भक्षितुं प्राप्तः शंकरेण निवारितः । ततः कीर्तिमुखेनाथ स्वांगं सर्वं च भक्षितम्
बुभुक्षितेन चात्यंतं निषिद्धेन च सर्वतः । तत्साहसं तदा दृष्ट्वा भक्तिं कीर्त्तिमुखस्य च
तमुवाचेश्वरः प्रीतः प्रासादे तिष्ठ मे सदा । त्वच्चित्तरहितो यश्च भविष्यति ममालये
स पतिष्यति शीघ्रं हीत्युक्तः सोंऽतर्हितोऽभवत् । शंभोर्मूध्नि तदा देवा ववृषुः पुष्पवृष्टिभिः
एवमत्यद्भुतं दृष्ट्वा सभायां तु त्रिशूलिनः । स्वर्भानुरपि देवेशं पुनः प्रोवाच विस्मितः
स्पृशंति त्वां कथं भावं स्वाधीनं योगिनं बलात् । इंद्रियैः पूज्यसे त्वं हि प्राप्योऽयं विषयैः कथम्
ब्राह्मादिलोकपालानां पूजां गृह्णासि सर्वतः । न त्वं पश्यसि कं देवं त्वं पूजयसि कंचन
ईश्वरोऽसि कथं लोके भिक्षाभोजी प्रतिष्ठितः । संगोपयसि योगीन्द्र गौरीं रम्यां प्रयच्छ मे
स्कंदलंबोदराभ्यां त्वं पुत्राभ्यां सहितोऽधुना । भिक्षापात्रं गृहीत्वा तु भ्रम नित्यं गृहेगृहे
एवं बहुविधं तत्र राहुराहेश्वरं प्रति । भगवानपि तच्छ्रुत्वा नोत्तरं किंचिदब्रवीत्
अथेशं मौनिनं त्यक्त्वा राहुर्नंदिनमब्रवीत् । त्व मंत्री ह्यसि सेनानीर्विकटानन बिंबधृक् 6.10.
एवमाचरित भ्रष्टं त्वं शिक्षयितुमर्हसि । नोचेद्रोषेणेंद्र इव पतिष्यति रणे हतः
इत्याकर्ण्य वचस्तस्य नंदी विज्ञाप्य चेश्वरम् । भ्रूसंज्ञयैव स तदा मतमाज्ञाय शूलिनः
संपूज्य प्रेषयामास राहुं नंदी गणाग्रणीः । अथ जालंधरं गत्वा कथयामास विस्तरात् । स्वर्भानुस्तस्य वृत्तांतं गौरीरूपं मनोहरम्
नारद उवाच- अथ जालंधरो दूतवचः श्रुत्वा प्रतापवान् । सर्वसैन्यं समाहूय प्रयाणमकरोत्तदा । ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः
सस्त्रीन्मन्दरकंदरेषु शयितानुत्थापयन्किन्नरान् । मेरोर्मंदरकंदरे प्रतिरवानुत्थापयन्वारणान् । सिहानां च ततीर्व्यमुंचत पुरःपंथानमेवंविधस्त्रै। लोक्यं बधिरीचकार महतः सैन्यस्य कोलाहलः
ततो दुंदुभिनादोऽभूत्पीठे जालंधरे नृप । तन्निनादेन शूराणां प्रियेण महता तदा
कंपंति गिरयस्तुंगाः प्रासादा विचलंति च । सप्तसागरगर्भेभ्यो निःसृता दैत्यदानवाः
सन्नद्धाश्चातिगर्जंति नानावाहनसंयुताः । हेषा ययौ महानादा वाजिनां बाह्यतः पुरः
रथांगेनाथ संहृष्टा धरां संचलतेऽथवा । चालितैर्गजयूथैश्च पृथ्वी रुद्धा सकानना
जालंधरेरितैर्भीमैरयुतैः स्यंदनस्थितैः । अश्वार्बुदसहस्रे द्वे अर्बुदं दंतिनामपि
रराज सैन्यलक्षैकं रथिनां सपताकिनाम् । परार्द्धनवतिः कोट्यः दृश्यंते मुख्यनायकाः । निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम्
आसीत्पिंजरपांडुपंकजवनं श्वेतातपत्रैः क्वचित् । मायूरातपवारणैः क्वचिदभूतदुन्नीलनीलोत्पलम् । उन्मेघं क्वचिदूर्ध्वधूलिपटलैर्यस्य प्रयाणेऽभवत् । सद्वीचि क्वचिदंबरं सर इवोत्सर्पत्पताकापटैः
गजवाजीमयी भूमिर्ध्वजच्छत्रमयं नभः । दिक्चक्रं चामरमयं दैत्यसैन्ये प्रसर्पति
ततो जालंधरो दैत्यः प्रयाणाय समुत्सुकः । स्कंधे चारोपयन्शक्तिं नानारत्नविभूषिताम्
आजगाम महाविष्णुं प्रष्टुं सागरवासिनम् । अभिवाद्य जगादाथ हरिं जालंधरस्त्विदम्