धर्ममार्गं परित्यज्य कुरुषे पातकं सदा । मद्वंशकीर्तिहननं जातोऽसि ज्ञातिदुःखदः
अतिविस्मयदा सृष्टिर्विधातुर्मन्यते त्वयि । यस्मिन्सिंधौ शशी जातस्तत्र क्ष्वेडोद्भवोऽपि च
अहो शक्तिः कुपुत्राणां संख्यातुं न च शक्यते । अनेकैः पुरुषैः कीर्तिं संचितां हंति तत्क्षणात्
जाते पुत्रोत्तमे वंशः श्रेष्ठः स्यादधमोऽपि च । पुत्रेधमेतु श्रेष्ठोऽपि वंशो गच्छति हीनताम्
व्यास उवाच- इत्युक्त्वा ज्ञातयस्ते च तं सर्वे पापिनां वरम् । अपकीर्तिभयात्क्रुद्धास्तत्यजुः सहसा द्विज
ज्ञातिभिः स परित्यक्तो जनैः सर्वैश्च धिक्कृतः । प्रपेदे दस्युतां दुःखी विभ्रष्टाखिलवैभवः
तं दस्युकर्मकुर्वंतं निर्द्दयं परहिंसकम् । धृत्वा जनपदाः सर्वे भूपालाय न्यवेदयन्
तेन भूमिभुजा तस्य पितृस्नेहाद्दिवजोत्तम । न हतोऽसौ दुराचारो निजदेशाद्वहिष्कृतः
ततोऽसौ वनमाश्रित्य दस्युभिः सह निर्द्दयः । पांथस्वहरणार्थाय तस्थौ बहुभिरुद्धतैः
कदाचित्तटिनीतीरं दस्युभिः सह जैमिने । वनपर्यटने श्रांतो जगाम स्नानहेतवे
तस्यां तटिन्यां भगवत्परिचर्यापरायणान् । असौ ददर्श दुष्टात्मा ब्राह्मणाकृतिनो बहून्
अथ ते ब्राह्मणाः सर्वे समाराध्य जनार्दनम् । अन्योन्यं कथयामासुर्विहिता अति कौतुकात्
अद्य चंपकपुष्पाणि मया त्यक्तानि तानि वै । कश्चिद्वदति तांबूलं मया दत्तं मुरारये
न खादितव्यं तांबूलं कदाचिदपि जन्मनि । मयाद्य हरये दत्तं कदलीफलमुत्तमम्
जन्मजन्मानि च मया भक्ष्यं च कदलीफलम् । कोऽपि वक्ति मया दत्तं हरये दाडिमीफलम्
कोऽपि वक्ति मया दत्तं रसालफलमुत्तमम् । अन्योऽन्यमेतद्वदतां तेषां श्रुत्वा वचांसि च
उर्वीशुश्चिन्तयामास किं प्रदास्यामि विष्णवे । संसारे यानि वस्तूनि भक्ष्याणि संति तान्यहम्
न हि शक्नोमि संत्यक्तुं किं दास्यामि मुरारये । नित्यं वनांतरस्थोऽहं चौरो राजभयाकुलः
शकटारोहणे नास्ति ह्यधिकारः कदापि मे । व्यास उवाच- इत्युक्त्वा दस्युना तेन भूयोभूयो द्विजोत्तम
शकटं हरये दत्तं चतुर्वर्गप्रदायिने । अथ तेब्राह्मणाः सर्वे जग्मुर्विप्र यथागताः
सोऽपि दस्युर्दस्युभिश्च जगाम निजमाश्रयम् । एकदा गुडकंडोलं तेनैव खलु वर्त्मना
गृहीत्वा पथिकः कश्चित्काकीमंडलमागतः । ततोऽसौ सहसा दस्युर्निर्भयः परहिंसकः
जहार गुडकंडोलमध्वनीनस्य तस्य च । अथ ते दस्यवश्चक्रुर्गुडकंडोल भंजनम्
उर्वीशुश्चापतद्भागे शकटं गुडनिर्मितम् । उर्वीशुः शकटं गौडं समासाद्य द्विजोत्तम
मनसा चिंतयामास वचःस्मरणपूर्वकम् । अनो मया पुरा दत्तं स्वयमेव मुरारये
तस्मादनो न मे ग्राह्यं कदाचिदिह जन्मनि । विचिन्त्येति हृदा दातुं तदनो गुडनिर्मितम्
दत्तं विप्राय कस्मैचिन्माधवप्रीतिहेतवे । तां भक्तिं तस्य विज्ञाय महापातकिनो द्विज
जहार सकलं पापं सद्यः प्रीतो जनार्दनः । तस्मिन्नेव दिने विप्र प्रविश्य च महावनम्
हतः पौरजनैः सर्वैरथ क्रुद्धैः स उर्विशुः । भगवानथ तं नेतुं विमानं स्वर्णनिर्मितम्
दूतांश्च प्रेषयामास नानाभरणभूषितान् । अथ ते भगवद्दूतास्तमुर्वीशुं गतैनसम्