कथं सुरान्परित्यज्य क्षीराब्धिं शयितुं गतः
श्रीविष्णुरुवाच-। यदि तं हन्मि देवेश श्रीः कथं मम वल्लभा । तस्मात्त्वं पार्वतीकांत जहि जालंधरं रणे
तेजस्त्वं क्रोधजं मुंचेत्युक्तः शर्वेण केशवः । मुमोच वैष्णवं तेजः तत्सर्वं समवर्द्धत । तेजः प्रवृद्धं तद्दृष्ट्वा व्यापकं प्राह केशवम्
शंकर उवाच-। एतेन तेजसा शीघ्रं ममास्त्रं कर्तुमर्हथ । विश्वकर्मादयस्तच्च श्रुत्वा शंकरभाषितम्
निरीक्ष्य च तदाऽन्योऽन्यं किं कुर्म इति शंकिताः । दृष्ट्वा तूष्णीं स्थितांस्तांश्च ज्ञात्वा तन्मनसि स्थितम्
तदाह भगवान्ब्रह्मा अनालोक्यं हि दैवतैः । सोढुं न शक्तास्ते तेजो धर्तुं केन च शक्यते
ततः प्रहस्य भगवानुत्पत्योपरि तेजसः । वामांघ्रिपार्ष्णिना शंभुर्ननर्त भ्रमरीचयम्
ततो देवा महेंद्राद्यास्तेजसोपरि शंकरम् । नृत्यमानं तदा दृष्ट्वा मुदा वाद्यान्यवादयन्
तदाप्रभृति नृत्येषु भ्राम्यते भ्रमरीचयम् । अथ चक्रं समुत्पन्नं शंभोर्नर्तनमर्दनात्
आरलक्षत्रयोपेतं अस्थिकोटिसमाकुलम् । शर्वांघ्रिकषणात्तस्य तेजसो निसृताः कणाः
विश्वकर्मा च तेनास्त्रं विमानानि च निर्ममे । ततस्ते निर्ज्जरा भीत्या दृष्ट्वा चक्रं सुदर्शनम्
त्राहित्राहीति देवेशं प्रत्यूचुस्ते सुरान्नृप । पृथ्वीकाठिन्यमादाय लोहानामपि तेजसाम्
यद्विश्वकर्मणा कोशं कृतं भस्मीकृतं च तत् । सृष्टेन तेन चक्रेण दग्धः कालोऽपतत्क्षितौ
ततस्तद्ब्रह्मणो हस्ते ददौ चक्रं स धूर्जटिः । चक्रार्चिर्निचयैः कूर्चं दृष्ट्वा दग्धमुमापतिः
हसित्वा ब्रह्मणो हस्ताद्गृहीत्वा सत्वरं शिवः । दधौ कक्षापुटे चक्रं निधानं निर्धनो यथा
ततो न दृश्यते चक्रं शिवकक्षापुटेस्थितम् । महामूर्खस्य यद्दत्तं दानं तस्य फलं यथा
नारद उवाच- अत्रोत्तरे मया गत्वा कथितं सिंधुसूनवे । त्वां हंतु सर्ववीरेश प्रतिज्ञा शंभुना कृता । श्रुत्वेत्थं मद्वचो राजंस्ततः पप्रच्छ सोऽसुरः
जालंधर उवाच-। किमस्ति शूलिनो गेहे रत्नजातं महामुने । तन्ममाचक्ष्व सकलं नास्ति युद्धं निरामिषम्
नारद उवाच-। भूतिर्गात्रे वृषो जीर्णः फणिनोंऽगे गले विषम् । भिक्षापात्रं करे पुत्रौ गजानन षडाननौ
इत्यादि विभवस्तस्य यदन्यत्तन्निबोध मे । तनया गिरिराजस्य विशाला ह्युन्नतस्तनी
दग्धस्मरोऽपि भगवान्यस्यारूपेण मोहितः । महेशो यद्विनोदाय कुरुते नित्य कौतुकम्
नृत्यन्गायंश्च ताञ्छंभुः स्वयं भवति हासकः । सा पार्वतीति विख्याता सौंदर्यावधि दैवतम्
वृंदा वरांगना राजन्निमाश्चाप्सरसः शुभाः । न चाप्नुवंति पार्वत्याः षोडशीमपि तां कलाम्
इत्युक्त्वाहं महीपाल जालंधरममर्षणम् । पश्यतां सर्वदैत्यानामंतर्धानं गतः क्षणात्
अथ स प्रेषयद्दूतं सिंधुजः सिंहिकासुतम् । क्षणेनासाद्य कैलासं देवावासमपश्यत
अत्रांतरे हरिर्भीममापृच्छ्य तु तदा हरम् । जगामालक्षितस्तूर्णं क्षीराब्धिं भेदशंकया
ददर्श राहुर्भवनं शंकरस्यातिदीप्तिमत् । आत्मानमात्मना वीक्ष्य किमित्याह सुविस्मितः
प्रवेष्टुकामो बलिभिर्द्वारि द्वास्थैर्निरोधितः । यत्नवान्स निषिद्धोऽपि तदा ते प्रोद्यतायुधाः
तान्निवार्य गणान्नंदी व्याजहार विधुंतुदम् । कस्त्वं कस्मादिहायातः किं कार्यं तव बर्बर । ब्रूहि कार्यं गणा यावत्त्वां न हन्युर्भयावहाः
राहुरुवाच-। दूतो जालंधरस्याहं त्वं मां शर्वांतिके नय । न वाच्यमंतरे द्वास्थ महाराजप्रयोजनम्