न कलिप्रणयादन्यो न भोगादपरः क्षयः । न वंध्या दुर्भगा नारी नालंकारैर्विवर्जिता
कुरूपा दुर्गता दुष्टाऽयशस्या न च दृश्यते । न तत्र विधवा नारी न कश्चिन्निर्द्धनो जनः
दातारः संति सर्वत्र न प्रतिग्राहिणः क्वचित् । पुण्या जनाः प्रयच्छंति द्विजेभ्यो ह्यात्मनो धनम्
रूपयौवनशालिन्यः सीमंतिन्यो गृहे गृहे । गोक्षीरं दधिसर्पिश्च यत्र निर्जरसो जनाः
मंगलं तत्र सर्वेषां न क्वचिद्वधबंधनम् । शरेण न च हिंसास्ति न कश्चित्केन बाध्यते
ऋणं न दृश्यते राजन्धनिनः संति सर्वतः । संतुष्टाः सर्वसस्याढ्याः प्रजाः सर्वत्रपार्थिव
केलीक्षुदंडप्रभवश्च दुग्धरसोऽति सुस्वादुतरो गृहे नृणाम् । शुश्राव नारीनरयोर्हितं वचो न चापहर्ताध्वनि गच्छतां सदा
पतंत्यखंडा नभसो यतस्ततो धाराश्च कर्मारविमिश्रसर्पिषः । संमिश्रिताः शर्करया परिश्रुताः समुद्रसूनोः स्मरणान्मुखे नृणाम्
युधिष्ठिर उवाच- इंद्रादिभिस्तदा देवैः किं कृतं द्विजसत्तम । जालंधरेण विजितैः स्वर्गराज्ये हृते सति
नारद उवाच-। अथ त्यक्त्वा दिवं देवाः प्रापुस्ते दुर्दशां चिरम् । न पीयूषं नैव यज्ञाः ययुः स्थानं स्वयंभुवः
ददृशुर्ब्राह्मभुवने ब्रह्माणं परमेष्ठिनम् । प्राणायामेन युंजानं मनः स्वं परमात्मनि
ते तुष्टुवुः सुराः सर्वे वाग्भिस्तथ्याभिरादृताः । ततः प्रसन्नो भगवान्किंकरोमीति चाब्रवीत्
ततो निवेदयांचक्रुः ब्रह्मणे विबुधाः पुनः । जालंधरस्य सकलं तथा निजपराभवम्
क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह । तस्य शैलस्य पार्श्वे ते वैचित्र्येण समाकुलाः । स्थिताः संतुष्टुवुर्देवा ब्रह्मशक्रपुरोगमाः
नमो भवाय शर्वाय नीलग्रीवाय ते नमः । नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः
इति सर्वमुखो भूत्वा वाणीमाकर्ण्य शंकरः । प्रोवाच नंदिनं देवा नानयस्वेति सत्वरम्
श्रुत्वा शंभोर्वचो देवा आहूता नंदिना द्रुतम् । प्रविश्यांतःपुरे देवा ददृशुर्विस्मितेक्षणाः
तत्रासने समासीनं शंकरं लोकशंकरम् । गणैः कोटिसहस्रैस्तु सेवितं भक्तिशालिभिः
नग्नैर्विरूपैः कुटिलैर्जटिलैर्धूलिधूसरैः । प्रणिपत्याग्रतः प्राह सह देवैः पितामहः
सुखरोगो यथा स्यासीच्छक्रः सोऽयं वृथागतः । कृपां कुरु महादेव शरणागतवत्सल
तत उच्चैर्विभोर्हास्यं श्रुत्वा ब्रह्मा पिनाकिनः । उवाच देवदेवेशं पश्यावस्थां दिवौकसाम्
ततः सर्वेश्वरो ज्ञात्वा ब्रह्मणो मनसेप्सितम् । शक्रस्य मानभंगं च देवार्थे परमेश्वरः
प्रेम्णा भवान्या विज्ञप्तो नृप प्राह वचो हरः । विष्णुना न हतो योऽरि स कथं हन्यते मया
पूर्वसृष्टान्यायुधानि वज्रादीनि पितामह । तैः शस्त्रैर्नैव वध्योऽसौ बली जालंधरोऽसुरः
हेतिभिः पूर्वसंसृष्टैः समयापि न हन्यते । देवाः कुर्वंतु शस्त्रं हि मम प्राणसहं दृढम्
शंभोरित्युत्तरं श्रुत्वा ब्रह्मोवाचाथ शंकरम् । स्वयं कुरु महाशस्त्रं त्वं वेत्थ स्वात्मनो बलम्
इति तस्य वचः श्रुत्वा प्रत्युवाच महेश्वरः । ब्रह्मन्विमुंच तेजस्त्वं क्रोधयुक्तं सुरैः सह
ततस्तेजो मुमोचाथ ब्रह्मा ब्रह्मास्त्रसूचकः । रुद्रस्त्रिनेत्रजं तेजस्ततो निर्मुक्तवान्स्वयम्
देवाश्च मुमुचुः सर्वे सक्रोधं तेजसां चयम् । अत्रांतरे स्मृतः प्राप्तो हरेण मधुसूदनः
किं करोमीति तेनोक्तः शिवः प्राह जनार्दनम् । विष्णो जालंधरः कस्मान्न हतः संगरे त्वया