सुषमा सुंदरी यत्र घृताची पुंजिकस्थली । सुकेशी सुमुखी रामा मंजुघोषा च मालिनी
मृगोद्भवा च सुखदा धनदंष्ट्रा तिलप्रभा । वाजिमेधफलग्राहा राजसूयफलंति याः
कोटिशो यत्र निःष्पापाः क्रीडंत्यप्सरसो नृप । एवं भूरिसुखे स्वर्गे स्थापयामास सिंधुजः
शुंभं प्राणसमं दैत्यं निशुंभं युवराजके । स्वयं जालंधरे पीठे स्वर्गादागत्य सिंधुराट् । वर्षार्बुदद्वयं राज्यं चकारात्मबलेन च
युधिष्ठिर उवाच-। युयुधेऽसुर संग्रामे ससुरैरपराजितः
ततः किमकरोद्राजा सिंधुसूनुः प्रतापवान् । तन्ममाचक्ष्व देवर्षे श्रोतुकामस्य विस्तरात्
नारद उवाच-। शृणु राजन्यथातथ्यं कृतसागरसूनुना । स देवान्समरे जित्वा राज्यं चक्रे ह्यकंटकम्
गंधर्वाश्चित्रसेनाद्याः सेवंते चासुरेश्वरम् । यज्ञभागांश्च यो भुंक्ते सर्वेषामसुरेश्वरः
क्षीरसागरतो देवैर्हृतं रत्नादिकं च यत् । तत्सर्वं च तथान्यच्च निर्जित्य हृतवान्बली
समुद्रतनये राज्यं भुवो राजन्प्रशासति । न कश्चिन्म्रियते मर्त्यो नरकं कोऽपि न व्रजेत्
न कलिप्रणयादन्यो न भोगादपरः क्षयः । न वंध्या दुर्भगा नारी नालंकारैर्विवर्जिता
कुरूपा दुर्गता दुष्टाऽयशस्या न च दृश्यते । न तत्र विधवा नारी न कश्चिन्निर्द्धनो जनः
दातारः संति सर्वत्र न प्रतिग्राहिणः क्वचित् । पुण्या जनाः प्रयच्छंति द्विजेभ्यो ह्यात्मनो धनम्
रूपयौवनशालिन्यः सीमंतिन्यो गृहे गृहे । गोक्षीरं दधिसर्पिश्च यत्र निर्जरसो जनाः
मंगलं तत्र सर्वेषां न क्वचिद्वधबंधनम् । शरेण न च हिंसास्ति न कश्चित्केन बाध्यते
ऋणं न दृश्यते राजन्धनिनः संति सर्वतः । संतुष्टाः सर्वसस्याढ्याः प्रजाः सर्वत्रपार्थिव
केलीक्षुदंडप्रभवश्च दुग्धरसोऽति सुस्वादुतरो गृहे नृणाम् । शुश्राव नारीनरयोर्हितं वचो न चापहर्ताध्वनि गच्छतां सदा
पतंत्यखंडा नभसो यतस्ततो धाराश्च कर्मारविमिश्रसर्पिषः । संमिश्रिताः शर्करया परिश्रुताः समुद्रसूनोः स्मरणान्मुखे नृणाम्
युधिष्ठिर उवाच- इंद्रादिभिस्तदा देवैः किं कृतं द्विजसत्तम । जालंधरेण विजितैः स्वर्गराज्ये हृते सति
नारद उवाच-। अथ त्यक्त्वा दिवं देवाः प्रापुस्ते दुर्दशां चिरम् । न पीयूषं नैव यज्ञाः ययुः स्थानं स्वयंभुवः
ददृशुर्ब्राह्मभुवने ब्रह्माणं परमेष्ठिनम् । प्राणायामेन युंजानं मनः स्वं परमात्मनि
ते तुष्टुवुः सुराः सर्वे वाग्भिस्तथ्याभिरादृताः । ततः प्रसन्नो भगवान्किंकरोमीति चाब्रवीत्
ततो निवेदयांचक्रुः ब्रह्मणे विबुधाः पुनः । जालंधरस्य सकलं तथा निजपराभवम्
क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह । तस्य शैलस्य पार्श्वे ते वैचित्र्येण समाकुलाः । स्थिताः संतुष्टुवुर्देवा ब्रह्मशक्रपुरोगमाः
नमो भवाय शर्वाय नीलग्रीवाय ते नमः । नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः
इति सर्वमुखो भूत्वा वाणीमाकर्ण्य शंकरः । प्रोवाच नंदिनं देवा नानयस्वेति सत्वरम्
श्रुत्वा शंभोर्वचो देवा आहूता नंदिना द्रुतम् । प्रविश्यांतःपुरे देवा ददृशुर्विस्मितेक्षणाः
तत्रासने समासीनं शंकरं लोकशंकरम् । गणैः कोटिसहस्रैस्तु सेवितं भक्तिशालिभिः
नग्नैर्विरूपैः कुटिलैर्जटिलैर्धूलिधूसरैः । प्रणिपत्याग्रतः प्राह सह देवैः पितामहः
सुखरोगो यथा स्यासीच्छक्रः सोऽयं वृथागतः । कृपां कुरु महादेव शरणागतवत्सल