पलायध्वं सुराः सर्वे द्रोणाद्रिः क्षयमागतः । एवमुक्तवतस्तस्य गुरोश्चिच्छेद सिंधुजः
यज्ञोपवीतं केशांश्च बाणैस्तीक्ष्णैर्हसन्सुरान् । ततो दुद्राव वेगेन गुरुः प्राणभयार्दितः
देवाः सर्वे रणं हित्वा पलायांचक्रिरे नृप । एवं विद्राव्य देवान्वै जनार्द्दनमधावत
हृषीकेशोऽपि दैत्येशमन्वधावद्रणोत्सुकः । ततो युद्धमभूद्धोरं विष्णोर्जालंधरस्य च
दुर्द्धर्षणो बाणजालैः प्लावयामास केशवम् । तान्बाणान्खंडशः कृत्वा पूरयित्वा शरैर्महान्
वासुदेवोसुरं बाणैर्जालंधरमपीडयत् । जालंधरो रथं त्यक्त्वा शरपीडितविग्रहः
विष्णुं विजेतुं दुद्राव संयतिस्थमथ द्रुतम् । तमायांतं रणे दृष्ट्वा हरिर्विव्याध सायकैः
बाणानंगेसहद्विष्णोः प्राप्तोऽसौ रथसंनिधौ । हस्तेनैकेन गरुडं द्वितीयेन रथं हरेः
भ्रामयित्वांबरे शश्वत्श्वेतद्वीपे न्यपातयत् । जालंधरकरक्षिप्तो गरुडोऽपि पपात ह
क्रौंचद्वीपे स तत्रैव विश्राममकरोच्चिरम् । अच्युतः प्रच्युतस्तस्माद्भ्रमतो रथमंडलात्
रणमागत्य दैत्येशं तिष्ठतिष्ठेत्यभाषत । दृष्ट्वा तमागतं भूयः केशवं समरप्रियः
पूरयन्मार्गणैर्भूमिं जगर्जार्णवनंदनः
विव्याध दैत्यं हरिराशु शक्त्या हृदि स्फुरंत्या स ततः पपात । सूतो न यत्तं समरान्निवासं तं प्राह रे केन कृतोस्म्यलज्जः
दैत्यारि जालंधरयोर्महत्तदा बभूव युद्धं धरणीतलस्थयोः । प्रेम्णा श्रियस्तं न जघान दानवं स्वयं हरिस्तस्य शरैः पपात
ततो निरीक्ष्य गोविंदं पतितं धरणीतले । प्रगृह्यार्णवजो दैत्य आरुरोह निजं रथम् । ततस्तमिंदिरा प्राप्ता रुदंती विष्णुवल्लभा
संस्थिता कमला तत्र पतिं कमललोचनम् । पतितं तु पतिं वीक्ष्य लक्ष्मीः प्राहार्णवात्मजम्
शृणुष्व वचनं भ्रातर्जितो विष्णुर्धृतस्त्वया । भगिन्या न च वैधव्यं दातुं युक्तं महाबल
श्रुत्वा तु वचनं तस्या मुमोच जगतः पतिम् । जालंधरो महाबाहुः स्वस्रे भक्त्या ननाम च
ववंदे चरणौ विष्णोः स्वसुः स्नेहात्तदांजसा । विष्णुर्जालंधरं प्राह तुष्टोऽस्मि तव कर्मणा । वरं वरय दैत्येश किं प्रयच्छामि ते वरम्
जालंधर उवाच-। यदि त्वं मम तुष्टोऽसि शौर्येणानेन केशव । स्थातव्यं मत्पितुः स्थाने त्वया कमलया सह
तथेत्युक्त्वा च संस्मृत्य गरुडं धरणीधरः । आरुह्य च जगन्नाथः क्षीराब्धिं प्रियया सह
तदाप्रभृति कृष्णस्य वासः श्वशुरमंदिरे । अब्धौ वसति देवेशो लक्ष्म्याः प्रियचिकीर्षया
युधिष्ठिर उवाच- देवान्विक्लाव्य समरे विष्णुं स्थाप्यात्ममंदिरे । जालंधरेणाब्धिजेन यत्कृतं ब्रूहि नारद
नारद उवाच-। शुंभादीनां तु वीराणां दत्त्वा दानं प्रसादजम् । जालंधरो जगामाथ स्वर्गं प्राप्यावलोकयत्
हिरण्यवर्षेण जनान्भूषयंतं दिनेदिने । फलंति तरवोऽजस्रं वाजिमेधक्रतोः फलम्
गजवस्त्रसुवर्णानि धेनु कन्या तिलानि च । पुष्पकर्पूरतांबूल कस्तूरी कुंकुमानि च
ये यच्छंति महात्मानस्ते पश्यंत्यमरावतीम् । वर्षासु गृहदानेन शिशिरेऽग्निप्रदानतः
वादित्राणि च सर्वाणि वादयंति शिवालये । प्रपां कुर्वंति ये चैत्रे दध्योदनसमन्विताम्
यत्र हिंदोलपर्यंकं स्वयमांदोलयंति च । सारिकाशुकहंसाश्च भ्रमद्भ्रमरकोकिलाः
कुर्वंतो दूतकार्याणि यच्छंते प्रियसंगमम् । रंभा यत्र पुरे राम मेनका च तिलोत्तमा