व्यास उवाच- नारायणप्रपन्ना ये नराभक्तिसमन्विताः । कदाचिदशुभं तेषां विद्यते न द्विजोत्तम
पुनरेव प्रवक्ष्यामि माहात्म्यं कमलापतेः । यच्छ्रुत्वा मानवाः सर्वे लभंते परमं पदम्
वासुदेवस्य माहात्म्यं श्रुत्वा तृप्यंति वैष्णवाः । पाखण्डा न हि तृप्यंति नरके क्लेशभागिनः
पाखण्डानां समीपे तु विष्णुमाहात्म्यमुत्तमम् । न वक्तव्यं द्विजश्रेष्ठ वक्तव्यं वैष्णवाग्रतः
पूर्वं त्रेतायुगे विप्र उर्वीशुर्नाम जैमिने । आसीत्पापरतो नित्यं धर्मनिंदापरायणः
ब्रह्मस्वहारी विप्रेन्द्र परस्त्रीगमनोद्यतः । गोमांसाशी सुरापी च वेश्याविभ्रमलोलुपः
शरणागतहंता च परनिंदाकरः सदा । विश्वासघाती मित्रघ्नो ज्ञातिपीडाकरस्तथा
असत्यभाषी क्रूरश्च पाखंडजनसङ्गभाक् । वृत्तिच्छेदी द्विजातीनां न्यासापहारकस्तथा
तादृशं तं समालोक्य दुष्टं पापपरायणम् । आजग्मुर्ज्ञातयः सर्वे क्रुद्धास्तस्य निजंगृहम्
ज्ञातय ऊचुः - प्रतिष्ठोपार्जिता पूर्वैरस्माकं विमले कुले । सा प्रतिष्ठा त्वया मूढ विनाशं प्रतिनीयते
धर्ममार्गं परित्यज्य कुरुषे पातकं सदा । मद्वंशकीर्तिहननं जातोऽसि ज्ञातिदुःखदः
अतिविस्मयदा सृष्टिर्विधातुर्मन्यते त्वयि । यस्मिन्सिंधौ शशी जातस्तत्र क्ष्वेडोद्भवोऽपि च
अहो शक्तिः कुपुत्राणां संख्यातुं न च शक्यते । अनेकैः पुरुषैः कीर्तिं संचितां हंति तत्क्षणात्
जाते पुत्रोत्तमे वंशः श्रेष्ठः स्यादधमोऽपि च । पुत्रेधमेतु श्रेष्ठोऽपि वंशो गच्छति हीनताम्
व्यास उवाच- इत्युक्त्वा ज्ञातयस्ते च तं सर्वे पापिनां वरम् । अपकीर्तिभयात्क्रुद्धास्तत्यजुः सहसा द्विज
ज्ञातिभिः स परित्यक्तो जनैः सर्वैश्च धिक्कृतः । प्रपेदे दस्युतां दुःखी विभ्रष्टाखिलवैभवः
तं दस्युकर्मकुर्वंतं निर्द्दयं परहिंसकम् । धृत्वा जनपदाः सर्वे भूपालाय न्यवेदयन्
तेन भूमिभुजा तस्य पितृस्नेहाद्दिवजोत्तम । न हतोऽसौ दुराचारो निजदेशाद्वहिष्कृतः
ततोऽसौ वनमाश्रित्य दस्युभिः सह निर्द्दयः । पांथस्वहरणार्थाय तस्थौ बहुभिरुद्धतैः
कदाचित्तटिनीतीरं दस्युभिः सह जैमिने । वनपर्यटने श्रांतो जगाम स्नानहेतवे
तस्यां तटिन्यां भगवत्परिचर्यापरायणान् । असौ ददर्श दुष्टात्मा ब्राह्मणाकृतिनो बहून्
अथ ते ब्राह्मणाः सर्वे समाराध्य जनार्दनम् । अन्योन्यं कथयामासुर्विहिता अति कौतुकात्
अद्य चंपकपुष्पाणि मया त्यक्तानि तानि वै । कश्चिद्वदति तांबूलं मया दत्तं मुरारये
न खादितव्यं तांबूलं कदाचिदपि जन्मनि । मयाद्य हरये दत्तं कदलीफलमुत्तमम्
जन्मजन्मानि च मया भक्ष्यं च कदलीफलम् । कोऽपि वक्ति मया दत्तं हरये दाडिमीफलम्
कोऽपि वक्ति मया दत्तं रसालफलमुत्तमम् । अन्योऽन्यमेतद्वदतां तेषां श्रुत्वा वचांसि च
उर्वीशुश्चिन्तयामास किं प्रदास्यामि विष्णवे । संसारे यानि वस्तूनि भक्ष्याणि संति तान्यहम्
न हि शक्नोमि संत्यक्तुं किं दास्यामि मुरारये । नित्यं वनांतरस्थोऽहं चौरो राजभयाकुलः
शकटारोहणे नास्ति ह्यधिकारः कदापि मे । व्यास उवाच- इत्युक्त्वा दस्युना तेन भूयोभूयो द्विजोत्तम
शकटं हरये दत्तं चतुर्वर्गप्रदायिने । अथ तेब्राह्मणाः सर्वे जग्मुर्विप्र यथागताः