इति दैत्योक्तमाकर्ण्य शुक्रः प्राहार्णवात्मजम् । क्षीरसागरमध्यस्थो द्रोणोनाम महागिरिः
औषध्यस्तत्र तिष्ठंति जीवयंति च या मृतान् । तत्र गत्वा सुराचार्यो गृहीत्वोषधिसंचयम्
रणे विनिहतान्देवानुत्थापयति मंत्रतः । भार्गवोक्तमथाकर्ण्य सैन्यभारं महाबलः
शुंभे निक्षिप्य तरसा ययौ जालंधरोऽर्णवम् । अथ प्रविष्टः क्षीराब्धौ वेश्मदिव्यं महाप्रभम्
प्रविश्य तत्र क्षीराब्धेः क्रीडास्थानं ददर्श सः । नोष्णो न शीतलो वायुर्न तमो यत्र दृश्यते
यत्र गायंति नृत्यंति क्रीडंति च वरस्त्रियः । सुपीनस्तनभाराढ्याः कृशोदर्यः सुदंतिकाः 6.7.
नेत्रविभ्रमविक्षेपैर्नितंबपरिवर्त्तनैः । अंगैः संमोहनै रम्यैर्बाहुवल्लीविचालनैः
पादविन्यासरणि तैर्मधुरैर्वचनस्तवैः । सौगंध्यसौख्यदैर्वासैर्नेत्रभ्रमरहुंकृतैः
चामरांदोललीलाभिः स्रग्भिः स्मितविलोकितैः। सेवां चक्रुर्विलासिन्यस्तत्र सुतः
क्रीडंतं तत्र दुग्धाब्धिं संवीक्ष्य समरोत्सुकः। अथाह प्रणिपत्यासौ क्षीराब्धिं तात हंसि माम्। द्रोणाचलौषधीर्व्याजादंबुभिः प्लावयस्वतः
क्षीरसागर उवाच-। तं प्राप्तं शरणं पुत्र प्लावयाम्यूर्मिभिः कथम् । मुनींद्रास्तं न शंसंति यस्त्यजेच्छरणागतम्
पितृव्यवचनं श्रुत्वा संक्रोधात्संततं गिरिम् । तलप्रहरणेनैव ताडयामास दैत्यराट्
ततो द्रोणगिरी राजन्भीतो जालंधराद्भृशम् । अथाजगाम रूपेण प्राह जालंधरं प्रति
तवाहमभवं दासो रक्ष मां शरणागतम् । रसातलं महाबाहो यास्यामि तव शासनात्
यावत्त्वं कुरुषे राज्यं तावत्स्थास्याम्यहं प्रभो । ओषधीनां विरावेण सिद्धानां रोदनेन च
रसातलं जगामाद्रिः सिंधुसूनोः प्रपश्यतः । ततो जालंधरो वीर आजगाम महारणम्
पूर्वकल्पितमारुह्य रथस्थं केशवं ययौ । रथस्थं माधवं दृष्ट्वा जहासोच्चैर्नदीसुतः
तावत्त्वं तिष्ठ शकटे यावद्धन्यामरीनहम् । एवमुक्त्वा जघानाशु शरैस्तां देववाहिनीम्
बाणैर्विदारिता देवास्त्राहीत्यूचुर्बृहस्पतिम् । ततो बृहस्पतिः शीघ्रमगमत्क्षीरसागरम्
अदृष्ट्वा तं ततो द्रोणमभूच्चिन्तापरो नृप । अथागत्य रणं तूर्णममरान्प्राह गीष्पतिः
पलायध्वं सुराः सर्वे द्रोणाद्रिः क्षयमागतः । एवमुक्तवतस्तस्य गुरोश्चिच्छेद सिंधुजः
यज्ञोपवीतं केशांश्च बाणैस्तीक्ष्णैर्हसन्सुरान् । ततो दुद्राव वेगेन गुरुः प्राणभयार्दितः
देवाः सर्वे रणं हित्वा पलायांचक्रिरे नृप । एवं विद्राव्य देवान्वै जनार्द्दनमधावत
हृषीकेशोऽपि दैत्येशमन्वधावद्रणोत्सुकः । ततो युद्धमभूद्धोरं विष्णोर्जालंधरस्य च
दुर्द्धर्षणो बाणजालैः प्लावयामास केशवम् । तान्बाणान्खंडशः कृत्वा पूरयित्वा शरैर्महान्
वासुदेवोसुरं बाणैर्जालंधरमपीडयत् । जालंधरो रथं त्यक्त्वा शरपीडितविग्रहः
विष्णुं विजेतुं दुद्राव संयतिस्थमथ द्रुतम् । तमायांतं रणे दृष्ट्वा हरिर्विव्याध सायकैः
बाणानंगेसहद्विष्णोः प्राप्तोऽसौ रथसंनिधौ । हस्तेनैकेन गरुडं द्वितीयेन रथं हरेः
भ्रामयित्वांबरे शश्वत्श्वेतद्वीपे न्यपातयत् । जालंधरकरक्षिप्तो गरुडोऽपि पपात ह
क्रौंचद्वीपे स तत्रैव विश्राममकरोच्चिरम् । अच्युतः प्रच्युतस्तस्माद्भ्रमतो रथमंडलात्