निःशंकं जहि मां विष्णो नाहं त्वा हन्मि माधव । तस्य तद्वचनं श्रुत्वा क्रोधसंरक्तलोचनः
नारायणः प्राणहरैः शरैरेनमपूरयत् । विष्णुना च विभिन्नांगोऽर्णवसूनुः प्रतापवान्
हरिं संपूरयामास मार्गणौघैर्निरंतरम् । नारायणः प्राणहरैः शरैरेनमपूरयत्
गरुडं पतितं दृष्ट्वासिंधुसूनोः शरैर्भुवि । रथं संस्मारयामास वैकुंठस्थं जनार्दनः
सरथस्तस्य संप्राप्तः सूतहीनो हयैर्वृतः । अश्वैर्युतं रथं दृष्ट्वा विस्मितो भगवान्रणे
संबोधयित्वा गरुडं सारथ्ये समयोजयत् । स धृत्वा मुकुटं मूर्ध्नि कौस्तुभं हृदये मणिम्
पुरुषार्थान्हयान्कृत्वा ययौ जालंधरं हरिः । मेदिनीं रथचक्रेण दारयंश्च सुरैः सह
जघान तरसा बाणैर्दानवानां च वाहिनीम् । देवराजेन संदिष्टो वीतिहोत्रो रणांगणे
ददाह दानवानीकं समीरणसमन्वितम् । तदाह तं भगवता दैत्यसैन्यं सुरैः सह
जालंधरः स्वल्पशेषं दध्यौ दृष्ट्वा बलं स्वकम् । अथाह भार्गवं राजा मत्सैन्यं निहतं सुरैः
त्वयि तिष्ठति मंत्रज्ञे विख्यातो विद्यया भवान् । किं तया विद्यया ब्रह्मन्क्षत्रेणाथ बलेन च
या न रक्षति रोगार्तान्यद्बलं शरणागतान् । जालंधरवचः श्रुत्वा भार्गवस्तमभाषत
पश्य राजन्मम बलं ब्राह्मणस्य रणांगणे । इत्युक्त्वा वारिणा स्पृष्टा हुंकारेण प्रबोधिताः
उत्थापितास्ते कविना शरौघैः प्राणहारकैः । देवाहता रणे पेतुः समंतात्सिंधुसूनुना
बाणैर्जर्जरदेहास्ते धृतप्राणा नराधिप । न मृतास्त्वमरत्वाच्च बाणैर्भिन्नाश्च सत्तम
ततो नारायणो देवो बृहस्पतिमभाषत । धिग्बलं दैवतगुरो यो न जीवयसे सुरान्
धिषणस्तु जगन्नाथमुवाच त्वरितं तदा । ओषधीभिरहं स्वामिन्जीवयिष्यामि निर्जरान्
इत्युक्त्वा धिषणः सोऽपि ययौ क्षीरार्णवस्थितम् । द्रोणमद्रिं तदा गत्वा सुखं गृह्यौषधीः स्वयम्
गुरुस्तासां च योगेन जीवयामास निर्जरान् । उत्थितास्ते ततो देवा जघ्नुर्दानववाहिनीम्
देवान्समुत्थितान्दृष्ट्वा बभाषे सिंधुजः कविम् । विना त्वद्विद्यया काव्य कथमेते समुत्थिताः
इति दैत्योक्तमाकर्ण्य शुक्रः प्राहार्णवात्मजम् । क्षीरसागरमध्यस्थो द्रोणोनाम महागिरिः
औषध्यस्तत्र तिष्ठंति जीवयंति च या मृतान् । तत्र गत्वा सुराचार्यो गृहीत्वोषधिसंचयम्
रणे विनिहतान्देवानुत्थापयति मंत्रतः । भार्गवोक्तमथाकर्ण्य सैन्यभारं महाबलः
शुंभे निक्षिप्य तरसा ययौ जालंधरोऽर्णवम् । अथ प्रविष्टः क्षीराब्धौ वेश्मदिव्यं महाप्रभम्
प्रविश्य तत्र क्षीराब्धेः क्रीडास्थानं ददर्श सः । नोष्णो न शीतलो वायुर्न तमो यत्र दृश्यते
यत्र गायंति नृत्यंति क्रीडंति च वरस्त्रियः । सुपीनस्तनभाराढ्याः कृशोदर्यः सुदंतिकाः 6.7.
नेत्रविभ्रमविक्षेपैर्नितंबपरिवर्त्तनैः । अंगैः संमोहनै रम्यैर्बाहुवल्लीविचालनैः
पादविन्यासरणि तैर्मधुरैर्वचनस्तवैः । सौगंध्यसौख्यदैर्वासैर्नेत्रभ्रमरहुंकृतैः
चामरांदोललीलाभिः स्रग्भिः स्मितविलोकितैः। सेवां चक्रुर्विलासिन्यस्तत्र सुतः
क्रीडंतं तत्र दुग्धाब्धिं संवीक्ष्य समरोत्सुकः। अथाह प्रणिपत्यासौ क्षीराब्धिं तात हंसि माम्। द्रोणाचलौषधीर्व्याजादंबुभिः प्लावयस्वतः