वज्रं कक्षापुटे धृत्वा रथादुत्तीर्य सत्वरम् । अभ्यधावत दैत्येंद्रो देवेंद्रं धर्तुमाहवे
ततो दुद्राव मघवा रथं त्यक्त्वा हरिं स्मरन् । रथमिंद्रस्य मदवानारुह्यार्णवनंदनः
यंतारं मातलिं कृत्वा ययौ प्राप्तमनोरथः । रथमिंद्रस्य तरसा यत्र यत्र ययौ बले
जालंधरो महाबाहुः स्वयं चांबुधरो यथा । ततः स कोपात्पुरुषोत्तमः स्वयं खड्गं समुद्यम्य च नंदकं रणे
संप्रेरयित्वा गरुडं मनोजवं जघान कोपेन च दैत्यवाहिनीम् । रथान्हयान्कुंजरपत्तिसंघान्स पातयामास बलात्सहस्रशः
जनार्दनः कश्यपसूनुसंवृतश्चकार संख्ये चरितं भयावहम् । केशास्थिमज्जारुधिरौघवाहिनीं पिशाचवेतालविहंगसेविताम्
करोरुजंघायुधशस्त्रपूरितां सुदुस्तरां व्याघ्रगजेंद्र सेविताम् । रक्तांत्रहारांगदभूषितांतां विघूर्णनेत्रोत्सवकांतिवाससम्
विष्णुना निहतं सैन्यं दृष्ट्वा दानवपुंगवाः । जालंधराज्ञया सर्वे रुरुधुः परितो हरिम्
दैत्यास्ते तत्र बाणौघान्वर्षमाणा यथांबुदाः । यथाद्विरेफाः कमलं पर्वतं जलदा इव
चूतं यथा पक्षिगणा गगनं धूपसंचयः । न दृश्योऽभूत्तदा विष्णुर्न तार्क्ष्यो रणसंकटे
सर्वे ते रथमारूढा सर्वशस्त्रैर्महासुराः । वैकुंठाधिपतिं जघ्नुर्गर्जंतो भीमनिस्वनैः
तान्सर्वान्भीमरूपेण दैत्यारिः कुपितस्तदा । रणे निपातयामास वायुः पर्णचयं यथा
शैलरोमा ततो विष्णुं दैत्यः कोपादधावत । हरेरपि शरास्तस्य शरीरे शीर्णतां गताः
शैलरोमा च दैत्यारि शरीरं चाहनच्छरैः । हरिः खड्गं विनिर्धूय शिरस्तस्य जहार ह
छिन्ने शिरसि दैत्यस्य कबंधो विक्रमन्रणे । शैलरोमा भुजाभ्यां च तार्क्ष्यं जग्राह पक्षयोः
शिरश्चोत्पत्य तरसा विलग्नं स्कंधयोर्दृढम् । ततस्तत्रास्ययुद्धेन हृषीकेशोऽपि विस्मितः
शिरः संलग्नमालोक्य गरुडो न्यपतद्भुवि । पुनश्चोत्पत्य वेगेन शिरःस्थानं समाश्रयत्
शैलरोमा ततो विष्णुं जहार गरुडाद्बली । हरिर्जघ्ने तलेनाशु गतायुश्चापतद्भुवि
ततो जालंधरः सूतं खड्गरोमाणमब्रवीत् । संप्रेषय रथं तत्र यत्र देवो जनार्दनः
जालंधरस्य वचनात्खङ्गरोमानयद्रथम् । दृष्ट्वा तं पुरतो विष्णुमुवाचार्णवनंदनः
निःशंकं जहि मां विष्णो नाहं त्वा हन्मि माधव । तस्य तद्वचनं श्रुत्वा क्रोधसंरक्तलोचनः
नारायणः प्राणहरैः शरैरेनमपूरयत् । विष्णुना च विभिन्नांगोऽर्णवसूनुः प्रतापवान्
हरिं संपूरयामास मार्गणौघैर्निरंतरम् । नारायणः प्राणहरैः शरैरेनमपूरयत्
गरुडं पतितं दृष्ट्वासिंधुसूनोः शरैर्भुवि । रथं संस्मारयामास वैकुंठस्थं जनार्दनः
सरथस्तस्य संप्राप्तः सूतहीनो हयैर्वृतः । अश्वैर्युतं रथं दृष्ट्वा विस्मितो भगवान्रणे
संबोधयित्वा गरुडं सारथ्ये समयोजयत् । स धृत्वा मुकुटं मूर्ध्नि कौस्तुभं हृदये मणिम्
पुरुषार्थान्हयान्कृत्वा ययौ जालंधरं हरिः । मेदिनीं रथचक्रेण दारयंश्च सुरैः सह
जघान तरसा बाणैर्दानवानां च वाहिनीम् । देवराजेन संदिष्टो वीतिहोत्रो रणांगणे
ददाह दानवानीकं समीरणसमन्वितम् । तदाह तं भगवता दैत्यसैन्यं सुरैः सह
जालंधरः स्वल्पशेषं दध्यौ दृष्ट्वा बलं स्वकम् । अथाह भार्गवं राजा मत्सैन्यं निहतं सुरैः