तामुद्ग्रथय वैधव्यदुःखार्त्तायाः स्वयं प्रिय । एवं विलपतीं वीक्ष्य बलराज्ञीं समुद्रजः । दुःखितः शुक्रमित्याह बलं जीवय भार्गव
शुक्र उवाच-। इच्छयामरणं प्राप्तं तं कथं जीवयाम्यहम् । तथापि मंत्रसामर्थ्याद्वाचमुच्चारयिष्यति
जालंधर उवाच-। बलस्य रूप वचनं श्रोतुमिच्छामि भार्गव । जालंधरेणैवमुक्तः क्षणं ध्यानपरोऽभवत्
अथोदतिष्ठद्वदनात्स्वनः श्रोत्रमनोरमः । प्रभावतीं प्रति व्यक्तं वाद्यभांडा दिवोत्थितः
प्रभावति स्वदेहं त्वं ममांगेषु लयं नय । इति तस्य वचः श्रुत्वा नदी जाता प्रभावती
बलाङ्गेष्वेव लीना सा सुमेरोः पूर्ववाहिनी । यस्यास्तोयेन संजाता रत्नानां कांतिरुत्तमा
नारद उवाच- ततो जालंधरः क्रुद्धः प्राह तं दैत्यसूदनम् । कपटेन बलं हत्वा क्व यास्यसि बलाधम
इत्युक्त्वा तं शतमखं सिंधुसूनुः प्रतापवान् । ससूताश्वध्वजरथं छादयामास मार्गणैः
पपात मूर्च्छितः शक्रो रथोपरि शरैः क्षतः । दृष्ट्वा तं पतितं शक्रं जगर्जार्णवनंदनः
मूर्च्छां त्यक्त्वा मुमोचेंद्रो वज्रं जालंधरं प्रति । तदाद्रिदलनं हस्ते गृहीत्वा सिंधुसंभवः
वज्रं कक्षापुटे धृत्वा रथादुत्तीर्य सत्वरम् । अभ्यधावत दैत्येंद्रो देवेंद्रं धर्तुमाहवे
ततो दुद्राव मघवा रथं त्यक्त्वा हरिं स्मरन् । रथमिंद्रस्य मदवानारुह्यार्णवनंदनः
यंतारं मातलिं कृत्वा ययौ प्राप्तमनोरथः । रथमिंद्रस्य तरसा यत्र यत्र ययौ बले
जालंधरो महाबाहुः स्वयं चांबुधरो यथा । ततः स कोपात्पुरुषोत्तमः स्वयं खड्गं समुद्यम्य च नंदकं रणे
संप्रेरयित्वा गरुडं मनोजवं जघान कोपेन च दैत्यवाहिनीम् । रथान्हयान्कुंजरपत्तिसंघान्स पातयामास बलात्सहस्रशः
जनार्दनः कश्यपसूनुसंवृतश्चकार संख्ये चरितं भयावहम् । केशास्थिमज्जारुधिरौघवाहिनीं पिशाचवेतालविहंगसेविताम्
करोरुजंघायुधशस्त्रपूरितां सुदुस्तरां व्याघ्रगजेंद्र सेविताम् । रक्तांत्रहारांगदभूषितांतां विघूर्णनेत्रोत्सवकांतिवाससम्
विष्णुना निहतं सैन्यं दृष्ट्वा दानवपुंगवाः । जालंधराज्ञया सर्वे रुरुधुः परितो हरिम्
दैत्यास्ते तत्र बाणौघान्वर्षमाणा यथांबुदाः । यथाद्विरेफाः कमलं पर्वतं जलदा इव
चूतं यथा पक्षिगणा गगनं धूपसंचयः । न दृश्योऽभूत्तदा विष्णुर्न तार्क्ष्यो रणसंकटे
सर्वे ते रथमारूढा सर्वशस्त्रैर्महासुराः । वैकुंठाधिपतिं जघ्नुर्गर्जंतो भीमनिस्वनैः
तान्सर्वान्भीमरूपेण दैत्यारिः कुपितस्तदा । रणे निपातयामास वायुः पर्णचयं यथा
शैलरोमा ततो विष्णुं दैत्यः कोपादधावत । हरेरपि शरास्तस्य शरीरे शीर्णतां गताः
शैलरोमा च दैत्यारि शरीरं चाहनच्छरैः । हरिः खड्गं विनिर्धूय शिरस्तस्य जहार ह
छिन्ने शिरसि दैत्यस्य कबंधो विक्रमन्रणे । शैलरोमा भुजाभ्यां च तार्क्ष्यं जग्राह पक्षयोः
शिरश्चोत्पत्य तरसा विलग्नं स्कंधयोर्दृढम् । ततस्तत्रास्ययुद्धेन हृषीकेशोऽपि विस्मितः
शिरः संलग्नमालोक्य गरुडो न्यपतद्भुवि । पुनश्चोत्पत्य वेगेन शिरःस्थानं समाश्रयत्
शैलरोमा ततो विष्णुं जहार गरुडाद्बली । हरिर्जघ्ने तलेनाशु गतायुश्चापतद्भुवि
ततो जालंधरः सूतं खड्गरोमाणमब्रवीत् । संप्रेषय रथं तत्र यत्र देवो जनार्दनः
जालंधरस्य वचनात्खङ्गरोमानयद्रथम् । दृष्ट्वा तं पुरतो विष्णुमुवाचार्णवनंदनः