दानवैर्निहताः सर्वे शरमुद्गरपट्टिशैः । पदातयः पत्तिगणैः खङ्गैस्तीक्ष्णैः परश्वधैः
कोटिशो जघ्नुरन्योन्यं रुधिरारुणविग्रहाः । अश्वचारा हयैस्तूर्णैश्चिक्षिपुर्गगने तदा
संश्लिष्य जघ्नुरन्योन्यं रुधिरारुणविग्रहाः । समूहो रथिनां भीमो रथौघैश्छाद्य मेदिनीम्
विव्यधुर्निशितैर्बाणैर्धनुर्मुक्तैर्महारथान् । मदक्षीणकपोलांगाः करैर्बद्धा करान्दृढम्
गजान्प्रतिगजाः क्रुद्धाः पातयंति महीतले । कोपि दैत्यो रथं दोर्भ्यामुत्क्षिप्योत्थाय खं ययौ
अश्वचारान्हयान्नागान्पातयामास भूतले । स्कंधे गृहीत्वा तरसा ययौ जालंधरं प्रति
कक्षयोर्वै गजौ गृह्य तृतीयं जठरोपरि । चतुर्थं मस्तके गृह्य रणे धावति कश्चन
उत्पाट्य कोशतः खङ्गं विधूय विमलांबरम् । ययौ सहस्रशो देवान्पातयित्वा रणेऽसुरः
काचित्पीनस्तनी तन्वी खेचरीरति लंपटा । आगत्य गगनात्तूर्णं निन्ये दैत्यं रणांगणात्
चुचुंब सा तद्वदनं तीक्ष्णनाराचकीलितम् । देवसैन्यं ततो बद्ध्वा कालनेमिर्ननर्त्त ह
ततो जनार्दनः क्रुद्धो निर्ययौ कालनेमिनम् । यमो दुर्वारणं वीरं स्वर्भानुश्चंद्रभास्करौ
केतुं वैश्वानरो देवो ययौ शुक्रं बृहस्पतिः । आश्विनौ संयतौ तत्र दैत्यमंगारपर्णकम्
संह्रादं शक्रपुत्रश्च निर्ह्रादं धनदो ययौ । निशुंभश्चावृतो रुद्रैः शुंभो वसुभिराहवे
मेघाकारं स्थितं जंभं विश्वेदेवाः समाययौ । वायवो वज्ररोमाणमथ मृत्युर्मयं ययौ
नमुचिं वासवो व्यग्रं शक्तिहस्तोऽभ्यधावत । अन्यैरपि सुरैर्दैत्याः स्वस्ववीर्यसमैर्वृताः
नारदउवाच- एवं द्वंद्वेषु युद्धेषु संप्रवृत्तेष्वनेकशः । जघानाथ हरिः क्रुद्धो गदया कालनेमिनम्
विहाय मूर्च्छां संचित्य विष्णुं बाणैर्जघान सः । ततः क्रुद्धेन हरिणा स क्षितौ पातितो व्यसुः
राजन्जघान संचिंत्य राहुं खड्गेन चंद्रमाः । राहुस्तु तं परित्यज्य तदा सूर्यमधावत
सहस्राशुं रणे जित्वा राहुश्चंद्रमधावत । जघान तं च खङ्गेन समरे रजनीपतिः
सैंहिकेयांगकाठिन्यात्खङ्गं चूर्णमभूत्तदा । जघान मुष्टिना गाढं कठिनेन विधुंतुदः
चंद्रमुत्थाप्य तं कंठे धृत्वा वेगान्महामृधे । गिलित्वा राहुणा चंद्रोप्युद्गीर्णश्च ततः पुनः
मृगं स्वचिह्नमुरसि निधाय विससर्ज ह । स उच्चैःश्रवसं गृह्य हयरत्नं विधुंतुदः
जालंधरांतिकं नीत्वा भक्त्या तस्मै न्यवेदयत् । दुर्वारणो रणे क्रुद्धस्तं यमं गदया हनत्
निशितैर्मार्गणैर्भिन्नः शक्रपुत्रेण चाहवे । धृत्वा जयंतं संह्रादः परिघाघातमूर्च्छितम्
ऐरावतं समारुह्य ययौ जालंधरं प्रति । हतवांश्चैव गदया निह्रादं धनदो रणे
रुद्रास्त्रिशूलनिर्घातैर्निशुंभं जघ्नुरोजसा । निशुंभो बाणजालैश्च पीडयामास तानति
शुंभासुरो देवगणान्पूरयामास मार्गणैः । मृत्युं मायामय मयो बद्ध्वा पाशैर्निनायतम्
ददौ जालंधरायासौ पौलोम्ने सोऽपि सिंधवे । अब्धिना च मुखे क्षिप्तो लोको जीवतु निर्भयः
बद्ध्वा च नमुचिं पाशैर्वासवोऽपि रसातलम् । निन्ये विश्वस्य हंतारं अथ जालंधरो ययौ
अथेंद्रबलयोर्युद्धमभूद्राजन्सुदारुणम् । बलांगरोचिषो भांति दिशो दश रवेरिव