ददृशुस्ते सुराः सर्वे हरिं सांद्रघनोपमम् । शार्ङ्गशंखगदापद्मविभूषितचतुर्भुजम्
स्तोत्रं पठित्वा पुरतः प्राहेंद्रः सरितांपतेः । जालंधरेणात्मजेन भग्नं देव त्रिविष्टपम् 6.5.
तदिंद्रवचनं श्रुत्वाऽभयं दत्वा दिवौकसाम् । विजेतुमसुरं देवैः सह रेजे सुरांतकृत्
अथानीतं मातलिना रथमारुह्य वासवः । वासुदेवस्य पुरतः प्रययौ विधृताशनिः
वामतस्त्रिदशाः सर्वे सव्यतश्च समाययौ । स्वाहाप्रियो दक्षिणतः स च मेषं समास्थितः
आरुह्यैरावतं नागं जयंतः शक्रनंदनः । उच्चैःश्रवसमिंद्रश्च उभौ भगवतः पुरः
धातार्यमा च मित्रश्च वरुणोंशो भगस्तथा । इंद्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः
ततस्त्वष्टा ततो विष्णू रेजे धन्यो जघन्यजः । इत्येते द्वादशादित्या इंद्रस्य पुरतः स्थिताः
वीरभद्रश्च शंभुश्च गिरिशश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः
भुवनाधीश्वरश्चैव कपाली च विशांपते । स्थाणुर्भगश्च भगवान्रुद्रा एकादश स्मृताः
श्वसनः स्पर्शनो वायुरनिलो मारुतस्तथा । प्राणापानौ सजीवौ च मरुतोऽष्टौ तदग्रतः
विवस्वानपि तन्मध्ये ययौ द्वादशमूर्तिभिः । धनदः शिबिकारूढः किंनरेशो ययौ तदा
रुद्राश्च वृषभारूढा मारुतो मृगवाहनः । ययुः सैन्यस्य पुरतः त्रिशूलपरिघायुधाः
गंधर्वाश्चारणा यक्षाः पिशाचोरग गुह्यकाः । सर्वसैन्यस्य पुरतः सर्वशस्त्रभृतो ययुः
पूर्वापरौ तोयराशी समाक्रांतौ च सैनिकैः । तस्मिन्ससार भूमिराट्वराहवपुषा हरिः
स्वर्गादागत्य वेगेन दैत्यसैन्यजिघांसया । सुमेरोरुत्तरो भागः सुरसैन्येन संवृतः
सेनाभारोद्भुतकरस्तस्थौ जालंधरस्य च । आश्रित्य दक्षिणं भागं तूर्णं कनकशृंगतः
अहोरात्रेण विहिता वर्षे तस्मिन्निलावृते । मेरुमंदरयोर्मध्ये युद्धभूमिः प्रतिष्ठिता
तत्रात्मजयदां भूमिं कविप्रोक्तां मुदायुताः । जग्मुस्ते दानवास्तूर्णं गुरुप्रोक्तां ययुः सुराः
रथप्रवीरैः परितश्च संप्लवैर्गजैर्घनाकारमदप्रवाहिभिः । अश्वैरनंतैर्गरुडाग्रगामिभिः पदातिभिः सारणभूर्भृता बभौ
ततो वादित्रनिर्घोषः सेनयोरुभयोरभूत् । कोलाहलश्च वीराणामन्योन्यमभिगर्जताम्
अथ दानवदेवानां संग्रामोऽभूद्भयावहः । सर्वसैन्यस्य संमर्दो यथा त्रिभुवनक्षयः
भयक्रांता महाश्रांता श्रुतिर्विलपती मुहुः । स्वरथाकाररहितं शरैः संपूरितं तदा
रोमांचिता बभौ द्यौश्च रजोवस्त्रं विधुन्वती । रौद्रैर्विहंगमारावैस्त्रासादाक्रंदतीव हि
देवेंद्रेण तदाज्ञप्ता मेघाः संवर्तकादयः । गजानुच्चैः समारुह्य तेऽसुरान्युयुधुर्मृधे
देवानामश्वारोहाश्च जाता गंधर्वकिन्नराः । रथिनः साध्यसिद्धाश्च गजिनो यक्षचारणाः
पदातिनः किंपुरुषाः पन्नगाः पवनाशनाः । रोगाणामधिपो राजन्यक्ष्मा च यमनायकः
तत्र दानवरोगाणां संग्रामोऽभूत्सुदारुणः । पतिता लुलुठुर्भूमौ दैत्याः शूलज्वरामयैः
दानवैर्निहता रोगाः पेतुः समरमूर्द्धनि । पलायांचक्रिरे केचित्व्याधयो भूधरान्प्रति
औषध्यस्तत्र सहजा वैशल्यकरणीमुखाः । ताभिर्विशल्याः सैन्येषु युयुधुर्यमकिंकराः