दग्धं चराचरं येन वह्निना हयरूपिणा । स चापि विधृतस्तेन सागरेण दुरात्मना
धर्मद्विषां दानवानामसौ वै आश्रयः प्रभुः । नित्यं दधि घृतं क्षीरं दानवेभ्यः प्रयच्छति
अतएवायमस्माभिः दुर्वारण विलोडितः । दंडितश्च गतश्रीको देवैरथ पुरातनैः
शृणु दूत सबंधेन मम विप्रेण शोषितः । कुंभोद्भवेन किंचैष दुःसंगे नैव बाध्यते
सोऽपि युद्धार्थमस्माभिः सर्वसैन्येन संवृतः । आगमिष्यति वै नाशं गमिष्यति तदैव हि
इतीरयित्वा विरराम वृत्रहा सरित्पतेरात्मजदूतमुच्चकैः । शशंस चागत्य समुद्रसूनोर्देवेश्वरेणोक्तमशेषमादितः
नारद उवाच-। महेंद्र वचनं श्रुत्वा निजदूतमुखेन च । समुद्रसूनुः संक्रुद्धः सर्वं सैन्यं समाह्वयत्
रसातलस्थिता दैत्याः ये च भूतलवासिनः । आययुः सबलास्तत्र जालंधरमथाज्ञया
प्रयाणप्रक्रमे सिंधुसूनोः सैन्यस्य गर्जितैः । स्फुटंति नभसो राजन्पातालमखिला दिशः
हयनागोष्ट्रवदना बिडालमुखभीषणाः । व्याघ्रसिंहाखुवदना विद्युत्सदृशलोचनाः
सर्पकेशा महादेहाः केचित्खङ्गतनूरुहाः । अन्ये च परिधावंति गर्जंति जलदस्वनैः
रथगजहयपत्तिसंकुलं समरविनोदकदंब भासुरम् । अब्जशतसहस्रकोटिनायकं बलमखिलं च तदा रराज राजन्
शतयोजनविस्तीर्णं विमानं हंसकोटिभिः । युक्तं भूतिसहस्रौघं सर्ववस्तुप्रपूरितम्
तद्विमानं समारुह्य सद्यो जालंधरो ययौ । मध्याह्ने मंदरं प्राप्तः प्रथमेऽह्नि बलैः सह
खंडितं शिबिकावाहैर्दलितं भूरिकुंजरैः । द्वितीये दिवसे मेरुं संप्राप्तो बलसंयुतः
इलावृत्ते तु शिखरे तस्थौ तत्कटकं महत् । अथ दैत्याधिपैर्भग्नं खांडवं नंदनं वनम्
शिखराणि विशीर्णानि मेरोर्दानवपुंगवैः । संतानकेषु वृक्षेषु बद्धा हिंदोलमंचकान्
सिद्धांगनाभिः सहिता रेमिरे दैत्यपुंगवाः । कुचकुंकुमतांबूल चंदनागरुभूषणैः
केशपाशच्युतैः पुष्पैः मेरोः संपूरिता नदी । सुमेरोः पूर्वदिग्भागो गजैस्तस्य विघट्टितः
दक्षिणं च रथैश्चेरुरुत्तरं पश्चिमं भटैः । अथ प्रस्थापयामास दैत्याञ्जालधरोऽसुरः
महेंद्रशिखरं चान्ये ययुर्दुंदुभिनिःस्वनैः । राजराजपुरीं भंक्त्वा यमस्य वरुणस्य च
अन्येषां लोकपालानामाययुस्तेऽमरावतीम् । अथोत्पाताभवन्नाके दिव्यभौमांतरिक्षगाः
रजः पपात बहुलं तमस्तोमो विजृंभते । तदा पपात कुलिशं करादिंद्रस्य निष्प्रभम्
दृष्ट्वा निमित्तानि भयावहानि नाके महेंद्रो गुरुमित्युवाच । किं कुर्महे कं शरणं च यामस्तं पश्य युद्धं समुपस्थितं च
ततो वाचस्पतिर्वाक्यमुवाच त्रिदशाधिपम् । चरणौ पाहि शरणं विष्णोर्वैकुंठवासिनः
इत्युक्तो गुरुणा देवैः साकं वैकुंठमंदिरम् । जगामाखंडलः शीघ्रं शरणं कैटभद्विषः
शशंस वासुदेवाय विजयो द्वारपालकः । जालंधरभयत्रस्ताः सर्वे देवाः समागताः
श्रीरुवाच-। न वध्योऽसौ मम भ्राता देवार्थे युध्यता त्वया । शापितो देव मत्प्रीत्या वधार्हो न भविष्यति
इति श्रीवचनं श्रुत्वा विष्णुस्त्रैलोक्यपालकः । अथारुरोह गरुडं पक्षक्षेपावृतांबरम्
वैकुंठभवनात्तूर्णं निर्गतस्त्रिदशान्हरिः । जालंधरभयत्रस्तान्गतकांतीनथैक्षत