बलं स्ववशगं कृत्वा कृत्वा भुवि स्थिरं जलम् । जालंधरस्तदा राज्यं पितृदत्तं चकार सः
अत्रांतरेऽप्सराः काचित्स्वर्णेत्यासीत्पुरा दिवि । तस्याः क्रौंचप्रसादेन वृंदानाम सुताभवत्
धात्रा विभवसंयुक्तं सौंदर्यं यत्कृतं पृथक् । तत्तदेकगतं द्रष्टुं वृंदागात्रं विनिर्मितम्
तां वृंदामतिचार्वंगीं प्रमदां जनमोहिनीम् । स्वर्णा जालंधरस्यार्थे ददौ शुक्राय याचते
शुक्र उवाच-। कंदर्पस्य जगन्नेत्र शस्त्रेणाश्चर्यकारिणा । रूपेणानेन रंभोरु दीर्घायुः सुखिनी भव
निर्माय स्वयमेव विस्मितमनाः सौंदर्यसारेण यं। स्वव्यापारपरिश्रमस्य कलशं वेधाः समारोपयत् । कंदर्पं पुरुषं स्त्रियो विदधते यस्मिन्न दृष्टे सति द्रष्टव्यावधि। रूपमाप्नुहि पतिं तं दीर्घनेत्रं भटम्
उपयेमे विवाहेन गांधर्वेणार्णवात्मजः । वृंदां तौ दंपती जातौ जनानंदकरौ नृप
चंचलत्वं परित्यक्तं तया जालंधरोऽपि हि । वृत्तेन वृद्धकार्येण चकमे न परस्त्रियम्
कदाचित्स सभासीनो दृष्ट्वा राहुं शिरोहृतम्। कस्मात्कायार्द्धशेषोऽयं इति पप्रच्छ भार्गवम्
स तस्य कथयामास पूर्ववृत्तांतमादितः । यथा निर्मथितो देवैः क्षीरोदोऽमृतकारणात् 6.4.
तच्छ्रुत्वा विस्मितो वाक्यं प्राह जालंधरोऽसुरः । प्रसादसुमुखो राहुं कामरूपो भवाधुना
इति शुक्रस्य मंत्रेण सिंधुसूनुः प्रतापवान् । पितृव्यं संस्मरन्वीर विग्रहं त्वकरोत्सुरैः
युधिष्ठिर उवाच- कः पितृव्यः सिंधुसूनोः किं वृत्तं तस्य विग्रहे । युयुधे स कथं दैत्यस्तन्मे कथय नारद
नारद उवाच-। शृणु त्वं नृपशार्दूल पितृव्यः क्षीरसागरः । जालंधरस्य तं देवैः प्रमथ्य धनमाहृतम्
श्रीचंद्रामृतनागाश्वपूर्वं तस्य सुरासुरैः । तच्छ्रुत्वा विग्रहं चक्रे देवैर्जालंधरोऽसुरः
कदाचित्प्रेषयामास दूतं दुर्वारणं बली । शिक्षयित्वा तु वक्तव्यं देवेंद्रभवनं प्रति
अथ स्यंदनमारुह्य ययौ दुर्वारणो दिवि । प्रवेष्टुकामो भवनं द्वारस्थैर्द्वारि निवारितः
दूत उवाच-। जालंधरस्य दूतोऽहं आगतः शक्रसंनिधौ । गत्वा तत्र भवंतो मां विज्ञापयितुमर्हथ
इति तस्य वचः श्रुत्वा तदैव तु शचीपतिम् । गत्वा च प्रणिपत्याह दूतो देवागतो भुवः
दौवारिको महेंद्रेण प्रत्युक्तो दूतमानय । हस्ते गृहीत्वा तं दूतं वासवांतिकमानयत्
दुर्वारणो देवसभां प्रविष्टः प्रव्यलोकयत् । हरिं देवैस्तु यस्त्रिंशत्कोटिभिः परिवेष्टितम्
स्वर्णसिंहासनं दिव्यं चामरानिलसेवितम् । शचीप्रेमरसोत्फुल्लनयनाब्जसहस्रकम्
दुर्वारणोऽथ देवेशं विलोक्य गुरुणा सह । प्रणनामात्मगर्वेण प्रहसन्नयनश्रियम्
निर्दिष्टमासनं भेजे दूतो जालंधरस्य सः । कस्य त्वं केन कार्येण प्राप्तः प्राहेति तं हरिः
दूतो जालंधरस्याहं स जगाद पुरंदरम् । स राजा सर्वलोकानां तस्याज्ञां शृणु मन्मुखात्
पितृव्यो मम दुग्धाब्धिस्त्वया कस्माद्विलोडितः । मंदराद्रिविधानेन हृतं कोशं महाधनम्
श्रीचंद्रामृतनागाश्वं तन्मणिं विद्रुमादिकम् । देहि सर्वं तथा स्वर्गं शीघ्रं त्यज पुरंदर
स त्वं मद्वचनात्तूर्णं कुरु सर्वं यथोचितम् । तं क्षमापय भूपाल यदि जीवितुमिच्छसि
अथ प्रहस्य मघवा प्राह दुर्वारणं प्रति । शृणु दूत समासेन सिंधोर्मथनकारणम्
पुरा हिमवतः सूनुर्मैनाको नाम मे रिपुः । स कुक्षौ विधृतस्तेन सागरेण जडेन च