कृतांजलिपुटो भूत्वा व्याजहारार्णवः कविम् । दिष्ट्या तवात्रागमनं वद किं करवाण्यहम्
तदा दैत्यकुलाचार्यः प्राह तं सागरं कविः । किं तेन जातु जातेन मातुर्यौवनहारिणा
प्ररोहति नयः स्वस्य वंशस्याग्रे ध्वजो यथा । तवात्मजो विक्रमेण त्रैलोक्यं भोक्ष्यति ध्रुवम्
जंबूद्वीपे महापीठं योगिनीगणसेवितम् । आप्लावितं त्वयेदानीं मुंच जालंधरालयम्
तत्र राज्यं प्रयच्छास्मै तनयाय महार्णव । अजेयश्चाप्यवध्यश्च तत्रस्थोऽयं भविष्यति
एवमुक्तोऽर्णवः प्रीत्या भार्गवेणाथ लीलया । अपासर्पत्सुतप्रीत्यै जले स्थलमदर्शयत्
शतयोजनविस्तीर्णमायतं च शतत्रयम् । देशं जालंधरं पुण्यं तस्य नाम्नैव विश्रुतम्
दैत्यवर्यं समाहूय मयं प्रोवाच सागरः । पुरं जालंधरे पीठे कुरु जालंधराय वै
अंभोधिनैवमुक्तस्तु चक्रे रत्नमयं पुरम् । प्राकारगोपुरद्वारं सोपानगृहभूमिकम्
यत्रेंद्रनीलसंबद्धप्रासादतल संस्थिताः । मेनिरे जलदोद्योगं तांडवस्थाः शिखंडिनः
यत्र प्रवालमाणिक्य भवनोत्था मरीचयः । सेव्यंते शकुनैश्चूतरुचिरांकुरशंकया
यत्र कांचनहर्म्येषु त्विषो वह्निषु कातराः । विलोक्य प्रपलायंते दावशंकाः शिखंडिनः
यत्र स्फटिकशालोत्थ प्रभासं मिश्रिता दिशः । विभांति मंदरोद्भ्रांताः सफेनार्णवसंनिभाः
यत्र मोहं स्वहर्म्येषु विभातालोकसंस्थिताः । चक्रिरे ललनाः पूर्णसांध्यचंद्रोपमाननाः
यत्रेन्द्र नीप कादंब पवनोद्यानमोदिताः । चित्तं विशंत्यो नारीणां चक्रिरे मोहनज्वरम्
यत्र लेख्यगतं नॄणां विलोक्य सुरतं जनः । संयाति द्विगुणं नूनं निजकांतारतोद्यमः
यत्र वातायनोद्धूत धूपधूमस्य लेखयः । नभो बभूव तद्गंगाकालिंदीसंगमोपमम्
यत्रानेकगृहोद्भूत प्रभया सकलं नभः । विभातींद्रायुधाकीर्णं शरन्मेघ इवोन्नतः
यत्रानिशं भ्रमभ्रांताः सूर्यवाहाः प्रपीडिताः । विश्रामं यांति मध्याह्ने प्रासादशिरसि स्थिताः
यत्रकुत्रच हर्म्येषु बिभ्रत्यो मालतीस्रजः । रात्रौ संभूतनक्षत्रा इव रेजुर्वरांगनाः
यत्र हाटकहिंदोल शृंखलाघर्षणोद्भवः । चकार सुंदरीं शब्दः स्फुटं मेरुभुवोभुवम्
साकं सरिद्भिः पुत्रस्योशनसा सह सागरः । तत्राभिषेकमकरोद्वादित्रैर्निज गर्जितैः
याः स्कंदस्य जगाद तारकजये देवः स्वयंभूः स्वयं स्वः साम्राज्यमहोत्सवेऽपि च शचीकांतस्य वाचस्पतिः । ताभिश्चित्रविंरिंचि वक्त्रसरसी हंसीभिराशास्महे वाणीभिर्वसुधाविवाहसमये मंत्रोत्सवैर्मंगलम्
महापद्मसहस्रं तु सैन्यमात्मोदरोद्भवम् । जालंधराय पुत्राय ददौ भीमं महोदधिः
जालंधराय शुक्रोऽपि प्रीत्या विद्यां निजां ददौ । मृतसंजीवनीं नाम्ना मायां रुद्रविमोहिनीम्
शस्त्रास्त्रविद्या अन्याश्च विधिना अब्धिसूनवे । यदन्यत्सकलं तस्मै व्याख्यातं कविना तदा
ततो जालंधरं पुत्रमभिषिच्यार्णवो ययौ । स्वस्थानं दिव्यदेहेन नदीभिः परिवारितः
दृष्ट्वा जालंधरो दिव्यपुरं गोपुरमंडितम् । व्यचरत्सह शुक्रेण द्विजसंघैः सुपूजितः
एतस्मिन्नंतरे दैत्याः पातालस्था महाबलाः । प्राप्ता जालंधरं सर्वे कालनेमिपुरोगमाः
ततो महाबला वीरा बलं क्षीरोदसंनिभम् । तस्य शुंभासुरं दैत्यं सेनापतिमकल्पयन्