रुदतोत्कंपिता पृथ्वी त्रिलोकी नादिताभवत् । समाधिबद्धमुद्रां च संतत्याज चतुर्मुखः
अत्रांतरे परित्रस्तां तां संवीक्ष्य जगत्त्रयीम् । धाता सुरेंद्रवाक्येन प्रजगाम महार्णवम्
आश्चर्यमिति संचिंत्य हंसारूढो जवाद्ययौ । ब्रह्माणमागतं वीक्ष्य सपर्यां विदधेऽर्णवः । तमुवाच ततो ब्रह्मा किं गर्जसि वृथांबुधे
समुद्र उवाच-। नाहं गर्जामि देवेश मत्सुतो बलवान्प्रभो । शिशोर्वै कुरु रक्षां च दुर्ल्लभं तव दर्शनम्
संदृश्यतां च तनयो भार्यां प्राहातिशोभनाम् । ययौ सा भर्तुरादेशात्सपुत्रा ब्रह्मणोंतिके
उत्संगदेशे चतुराननस्य विधाय पुत्रं चरणौ ननाम । तदा समुद्रात्मजमद्भुतं तं दृष्ट्वा विधातुः किल विस्मयोऽभूत्
गृहीतकूर्चस्य शिशोः करं च यदा विरिंचिर्न शशाक मोचितुम् । तदा समुद्रः प्रहसन्प्रयातः कूर्चं प्रगृह्यार्भकरं विमोचयन्
तादृशं तस्य बालस्य दृष्ट्वा विक्रममात्मभूः । प्रीत्या जालंधरेत्याह नाम्ना जालंधरोऽभवत् 6.3.
वरं ददावथो तस्य प्रणयेन प्रजापतिः । अयं जालंधरो देवैरजेयश्च भविष्यति
पातालसहितं नाकं मत्प्रसादेन भोक्ष्यति । इत्युक्त्वांतर्दधे ब्रह्मा हंसमारुह्य सत्वरः
नारद उवाच- क्रमेण वर्द्धमानोऽसौ बाल्यभावे स बालकः । निपत्य मारुतोत्संगे सागरं प्रति धावति
आनीय चक्रे स च पंजरस्थान्क्रीडापरः केसरिणां किशोरान् । सिंहादिनेभादिनि युद्धमेवं युधोपयोगीव तदीय वीर्यम्
तस्मादाकाशमुत्पत्य खेचरान्पातयेद्भुवि । गर्जितैर्भीषयामास स्वर्गं हि सह सागरम्
समुद्रांतर्गतं सर्वं सत्वजातं तु पार्थिव । ग्रस्तं सिंधुसुतेनेति तद्भयाच्छन्नतां गतम्
दृष्ट्वा निःसत्वकं तोयं तद्भयाद्वडवानलः । निजदेशं परित्यज्य प्रविवेश हिमालयम्
स बालत्वं परित्यज्य क्रमेणार्णवनंदनः । ततो नवं वयः प्राप्य विक्रमेणाक्रमद्दिवम्
एकदा पितरं प्राह समुद्रं सिंधुनंदनः । मन्निवासोचितं स्थानं देहि तातातिविस्तृतम्
संबुद्ध्य वचनं सूनोः स जगाद महार्णवः । पुत्र दास्याम्यहं राज्यं तव वा भुवि दुर्ल्लभम्
अनंतरं दैत्यगुरुः समुद्रं भार्गवो गतः । तमागतं विलोक्याब्धिर्विधिना समपूजयत्
अथ नदिपतिदत्ते प्राप्तसौंदर्यनिर्यन्मणिमहसि स तस्मिन्नासने सन्निविष्टः । रुचिररुचि सुमेरोः सुंदरे शृंगभागे कमलजइव कांतिं किंचिदुच्चैर्जहार
कृतांजलिपुटो भूत्वा व्याजहारार्णवः कविम् । दिष्ट्या तवात्रागमनं वद किं करवाण्यहम्
तदा दैत्यकुलाचार्यः प्राह तं सागरं कविः । किं तेन जातु जातेन मातुर्यौवनहारिणा
प्ररोहति नयः स्वस्य वंशस्याग्रे ध्वजो यथा । तवात्मजो विक्रमेण त्रैलोक्यं भोक्ष्यति ध्रुवम्
जंबूद्वीपे महापीठं योगिनीगणसेवितम् । आप्लावितं त्वयेदानीं मुंच जालंधरालयम्
तत्र राज्यं प्रयच्छास्मै तनयाय महार्णव । अजेयश्चाप्यवध्यश्च तत्रस्थोऽयं भविष्यति
एवमुक्तोऽर्णवः प्रीत्या भार्गवेणाथ लीलया । अपासर्पत्सुतप्रीत्यै जले स्थलमदर्शयत्
शतयोजनविस्तीर्णमायतं च शतत्रयम् । देशं जालंधरं पुण्यं तस्य नाम्नैव विश्रुतम्
दैत्यवर्यं समाहूय मयं प्रोवाच सागरः । पुरं जालंधरे पीठे कुरु जालंधराय वै
अंभोधिनैवमुक्तस्तु चक्रे रत्नमयं पुरम् । प्राकारगोपुरद्वारं सोपानगृहभूमिकम्
यत्रेंद्रनीलसंबद्धप्रासादतल संस्थिताः । मेनिरे जलदोद्योगं तांडवस्थाः शिखंडिनः