गंधर्वयक्षसिद्धास्तु नारदस्तुंबुरुस्तथा । किन्नरा मुहुराजग्मुस्तथा किंनरयोषितः
वायुश्च वरुणश्चैव कुबेरो धनदस्तथा । यमश्चाग्निर्निर्ऋतिश्च ये चान्ये देवतागणाः
विमानसंस्थो मघवा विमानस्थाः सुरांगनाः । स्ववाहनगतादेवाः कैलासं प्रययुर्जवात्
ददृशुस्ते ततो देवाः कैलासं पर्वतोत्तमम् । महीधराणां सर्वेषां पृथिव्या इव मंडनम्
सर्वतः सुखदं शुद्धं सिद्धिराशिमिवस्थितम् । यत्र वृक्षाः कल्पवृक्षाः पाषाणाश्चिंतितप्रदाः
पुन्नागैर्नागचंपैश्च तिलकैर्देवदारुभिः । अशोकैः पाटलैश्चूतैर्मंदारैः शोभितो गिरिः
पर्यंतकवनामोदवाहका यत्र वायवः । पंगुत्वं बहुचारेण यांति ते मलयानिलाः
वाप्यः स्फटिकसोपाना ह्यगाध विमलोदकाः । वैडूर्यनालसंसक्तसौवर्णनिभ पंकजाः
कुमुदानां द्युतिर्यत्र राजते सर्वतोदिशम् । कह्लारैः शौभितावाप्यः पिनद्धाः पद्मरागवत्
हरिन्मणिनिबद्धाश्च गोमेदैः सर्वतो वृताः । पद्मरागशिलाबद्धा नानाधातुविचित्रिताः
ददृशुः सुंदरतरं नाकाधिकविनिर्मितम् । कैलासं पर्वतश्रेष्ठं दृष्ट्वा ते विस्मयंगताः
विमानादवतीर्णाश्च मघवा देवताश्च ताः । द्वारपालमथागम्य नंदिनं वाक्यमब्रुवन्
भो भो गणवरश्रेष्ठ शृणु मे वाक्यमुत्तमम् । समाज्ञापय शीघ्रं त्वं नृत्यार्थमिहमागतम्
ईश्वरं प्रतिदेवेशं सर्वदेवैः समावृतम् । इंद्रस्य वचनं श्रुत्वा गिरिशं नंदिरब्रवीत्
प्रभोऽयमागतः सर्वैर्देवराजः पुरंदरः । नृत्यार्थमथ तं प्राहानय शीघ्रं शचीपतिम्
प्रवेशयामास तदा नंदी तैः सह वासवम् । स दृष्ट्वा गिरिशं देवं तुष्टाव वृषभध्वजम्
रंभाद्यास्तास्तदा सर्वा नर्त्तक्यो हरसन्निधौ । मृदंगवीणावादित्रैः मुदा नाट्यं प्रचक्रिरे
कांस्यवाद्यान्प्रगृह्यान्या वंशतालान्सकाहलान् । चक्रुस्ता नृत्यसंरंभं स्वयंदेवः पुरंदरः
अतीवनर्तनं चक्रे सुंदरं देवदुर्ल्लभम् । ईश्वरस्तोषमापन्नो वासवं वाक्यमब्रवीत्
प्रसन्नोऽहं सुरश्रेष्ठ जातस्ते व्रियतां वरः । इत्युक्तवति देवेशे स्वबाहुबलगर्वितः
प्रत्युवाच हरं वाक्यं संग्रामः सवृतो मया । यत्र त्वत्सदृशो योद्धा तद्युद्धं देहि मे प्रभो
इत्युक्त्वा निर्गतो जिष्णुर्लब्ध्वा शंभोर्वरं प्रभोः । तस्मिन्गते तदा शक्रे गिरिशो वाक्यमब्रवीत्
गणा मे श्रूयतां वाक्यं देवराजोऽतिगर्वितः । इत्युक्त्वा क्रोधसंयुक्तो बभूव च ततो हरः
आविरासीत्ततः क्रोधो मूर्त्तिमान्पुरतः स्थितः । घनान्धकारसदृशो मृडं क्रोधस्ततोऽब्रवीत्
देहि मे त्वं हि सन्देशं किं करोमि तव प्रभो । उमापतिस्तदोवाच गच्छ त्वं वासवं जय
स्वर्गसिंधुं समासाद्य सागरस्य च वीर्यवान् । इत्युक्तोंतर्दधे क्रोधो गणास्ते विस्मयं ययुः
ईशानकल्पे जाते तु कामेनार्णवसंगमे । नाकसिंधुस्तदा मत्ता स्वयौवनभरोष्मणा
तां दृष्ट्वा सिंधुराजश्च जलकल्लोलवानभूत् । तदा बभूव राजेंद्र गंगासागरसंगमः
महानदी तदा प्राप्य रेमे चात्मबलेन च । अत्रांतरे समुद्रस्य बभूव सुभटस्ततः
सूनुस्तस्यां महानद्यां समुद्रादभवद्बली । महार्णवतनूजेन जातमात्रेण पार्थिव