संप्रति प्रेषयामास कार्येस्मिन्मां स्वयं हरिः । युवां ससर्ज यो देवो यश्च रक्षति वां सदा
कालरूपी स एवाद्य हंति हेतुं विधाय माम् । व्यास उवाच-। ततस्तेन भुजंगेन भक्षितौ तौ च दंपती
गङ्गा गंगेति जल्पंतौ महत्या क्षुधया पथि । जाह्नवीतीरयात्रायां पादेपादे जनाविमौ
अश्वमेधाख्य यज्ञानां प्राप्तवंतौ महाफलम् । तस्मादेनौ महात्मानौ बह्वश्वमेधधारिणौ
एतयोः सदृशो नास्ति शतक्रतुरहं यतः । निजाधिकारेणैवान्यमवलंब्य पुरंदरः
अर्घ्यहस्तः पादचारी वृतो देवैः समाययौ । अथ रम्भोर्वशी चैव सुंदर्योऽन्याश्च हर्षिताः
अन्योन्यं कथयामासुर्निजयौवनगर्विताः । अयं पुण्यात्मनां श्रेष्ठो रसज्ञोऽत्यंतसुन्दरः
आयातोऽमुं करिष्यामि स्ववशं सेवितैः स्वकैः । काचित्कांचिद्वदत्येतज्जानामि सकलां कलाम्
अतएव भविष्यामि कांताहमस्य भूपतेः । काचित्कांचिदिति ब्रूयात्ते शक्रोपि वशो मम
किमत्र चित्रं वशगो भूपालोऽयं भविष्यति
भर्त्ता ममायं च पतिर्ममायं स्वामी ममायं मम नाथ एषः । इतीव सर्वाः परमप्रमोदैर्वदंति नार्योखिलसद्गुणज्ञाः
उच्चावचं विप्र निशम्य तासां जगाद काचिद्गुणिनी रसज्ञा । सौदास्यकांतां नृपतिः स्वयं यां भजत्ययं किं कलहेन नार्यः
सुन्दर्य्यस्तास्ततः सर्वाः संत्यज्य कलहं द्विज । आजग्मुर्हृदयोत्साहैः सर्वाभरणभूषिताः
अथ तं नृपतिश्रेष्ठ सदारं गतकल्मषम् । पाद्याद्यैः पूजयामासुः प्राहेति च पुरंदरः
रथे निवेशयामास पुष्पके स्त्रीसमन्वितम् । भेरीमृदंगमधुरी डिंडिमानकनिःस्वनैः
करकं कणनादैश्च करतालस्वनैस्तथा । जयशब्दैश्च देवानां नाकः शब्दमयोऽभवत्
देवाङ्गना चारुहस्त श्वेतचामरमारुतैः । वीजितः सरथारूढः सदारस्त्रिदिवं ययौ
ततः शक्रः स्वयं तस्मै सत्यधर्माय भूभुजे । दत्तवान्निजासनार्द्धं शुभो वै क्षयशंकया
शक्रेण सह भूपोऽसौ वसन्नेकासने सदा । शक्रत्वमकरोत्स्वर्गे केशवस्यानुकंपया १५० 7.9.
युगकोटिसहस्राणि दिवि भुक्त्वाखिलं सुखम् । रथमारुह्यवैकुंठं ययौ भगवदाज्ञया
तत्र मन्वंतरं भुक्त्वा सर्वभोगमनोरमम् । परमं ज्ञानमासाद्या सदारो मोक्षमाप्तवान्
जाह्नवीतीरयात्रायां शरीरं त्यजतः पथि । फलमेवंविधं विप्र मया सर्वं प्रकीर्तितम्
जाह्नवीतीरगमने मुनिभिस्तत्वदर्शिभिः । न कालनियमः प्रोक्तो नारदाद्यैर्महर्षिभिः
यदायदा द्विजश्रेष्ठ गङ्गायां स्नानमाचरेत् । तदातदाऽक्षयं पुण्यं लभते मानवो ध्रुवम्
गंगा सर्वाणि पापानि नाशयंतीति निश्चयः । कुर्यात्पुनःपुनः पापं न च गंगा पुनाति तम्
पापबुद्धिं परित्यज्य गंगायां लोकमातरि । स्नानं कुरुत हे लोका यदि सद्गतिमिच्छथ
यत्पुण्यं गंगास्नानात्तु मानवानां भवेद्दिवज । तत्पुण्यं प्राप्यते विप्र कर्मभिः कैः सुदुस्तरैः
आसाराणां भूमिरेणोः संख्यां कर्तुं तु शक्यते । भागीरथीगुणास्ते न शक्या वक्तुं न च द्विज
विचार्य सर्वशास्त्राणि त्वदीयानि मयोच्यते । गंगांभसि सकृत्स्नात्वा मोक्षमाप्नोति मानवः
स्नानं कूपजलेऽपि यस्तु कुरुते गंगां विचिंत्य प्रभुं देवानां सकलार्त्तशोकदुरितत्रासौघविध्वंसिनीम् । मुक्तः सोऽपि समस्तपातकचयैर्गोविप्रहत्यादिभिर्गच्छेद्विष्णुपुरं समस्तसुखदं गंगाप्रसादाद्दिवज