महेश उवाच- एकलक्षं पंचविंशत्सहस्रा पर्वतास्तथा । तेषां मध्ये महत्पुण्यं बद्रिकाश्रममुत्तमम्
नरनारायणो देवो यत्र तिष्ठति नारद । तस्य स्वरूपं तेजश्च वक्ष्यामीह च सांप्रतम्
हिमपर्वतशृंगे च कृष्णाकारतया द्विज । द्वौ पुरुषौ तत्र वर्तेते नरनारायणावुभौ
श्वेत एकस्तु पुरुषः कृष्णो ह्येकतमः पुनः । तेन मार्गेण ये यांति हिमाचलकृतोद्यमाः
पिंगलश्वेतवर्णश्च जटाधारी महाप्रभुः । कृष्णो नारायणो ह्येष जगदादिर्महाप्रभुः
चतुर्बाहुर्महान्श्रीमान्व्यक्तोऽव्यक्तः सनातनः । उत्तरायणे महापूजा जायते तत्र सुव्रत
षण्मासादिकपर्यंतं पूजा नैव च जायते । हिमव्याप्तं तदा जातं यावद्वै दक्षिणं भवेत्
अत एतादृशो देवो न भूतो न भविष्यति । तत्र देवा वसंतीह ऋषीणां चाश्रमास्तथा
अग्निहोत्राणि वेदाश्च ध्वनिः प्रश्रूयते सदा । तस्य वै दर्शनं कार्यं कोटिहत्याविनाशनम्
अलकनंदा यत्र गंगा तत्र स्नानं समाचरेत् । कृत्वा स्नानं तु वै तत्र महापापात्प्रमुच्यते
यत्र विश्वेश्वरो देवस्तिष्ठत्येव न संशयः । एकस्मिन्नवसरे ब्रह्मन्सुतपस्तप्तवानहम्
तदा नारायणो देवो भक्तानां हि कृपाकरः । अव्ययः पुरुषः साक्षादीश्वरो गरुडध्वजः । सुप्रसन्नोऽब्रवीन्मां वै वरं वरय सुव्रत
श्रीनारायण उवाच-। यद्यदीप्ससि देव त्वं तं तं कामं ददाम्यहम् । त्वं कैलासविभुः साक्षाद्रुद्रो वै विश्वपालकः
रुद्र उवाच-। अलं गृह्णामि भो देव सुप्रसन्नो जनार्दन । द्वौ वरौ मम दीयेतां यदि दातुं त्वमिच्छसि
तव भक्तिः सदैवास्तु भक्तराजो भवाम्यहम् । सर्वे लोका ब्रुवंत्वेवमयं भक्तः सदैव हि
तव प्रसादाद्देवेश मुक्तिदाता भवाम्यहम् । ये लोका मां भजिष्यंति तेषां दाता न संशयः
विष्णुभक्त इति ख्यातो लोके चैव भवाम्यहम् । यस्याहं वरदाता तु तस्य मुक्तिर्भवेत्प्रभो
जटिलो भस्मलिप्तांगो ह्यहं वै तव संनिधौ । तव चरणप्रसादेन लोके ख्यातो भवाम्यहम्
सूत उवाच- एकदा नारदो द्रष्टुं पांडवान्दुःखकर्शितान् । ययौ काम्यवनं विप्रः सत्कृतस्तैर्यथाविधि
अथ नत्वा मुनिश्रेष्ठं युधिष्ठिर उवाच ह । भगवन्कर्मणा केन दुःखाब्धौ पतिता वयम्
तमुवाच ऋषिर्दुःखं त्यज त्वं पांडुनंदन । सुखदुःखसमाहारे संसारे कः सुखी नरः
ईश्वरोपि हि न स्थायी पीड्यते देहसंचयैः । न दुःखरहितः कश्चिद्देही दुःखसहो यतः
शरीरं सवितुर्यस्माद्राहुस्तद्ग्रसते बली । राहोरपि शिरश्छिन्नं शौरिणामृतभोजने
सोऽपि शार्ङ्गधरो देवः क्षिप्तः सागरगह्वरे । जालंधरेण वीरेण निहतः सोऽपि शंभुना
युधिष्ठिर उवाच-। कोऽसौ जालंधरो वीरः कस्य पुत्रः कुतो बली । कथं जालंधरं संख्ये हतवान्वृषभध्वजः
एतत्सर्वं समाचक्ष्व विस्तरेण तपोधन । राज्ञा स एव मुक्तस्तु कथयामास नारदः
नारद उवाच-। शृणु भूप कथां दिव्यामशेषाघौघनाशिनीम् । ईशानसिंधुसून्वोश्च संग्रामं परमाद्भुतम्
एकदा गिरिशं स्तोतुं प्रययौ पाकशासनः । अप्सरोगणसंकीर्णो देवैर्बहुभिरावृतः
गंधर्वैरावृतो देवस्तंत्रीशिक्षासु कोविदैः । रंभा तिलोत्तमा रामा कर्पूराकदली तथा
मदना भारती कामा सर्वाभरणभूषिताः । नर्तक्यश्च तथा चान्याः समाजग्मुः सुरांतिकम्