कूर्ममाहात्म्यं तत्प्रोक्तं वाराहस्य तथैव च । माहात्म्यं च गवादीनां दानानां प्रवदाम्यहम्
प्रह्लादमुखभक्ता ये ये केचिद्भुवि विश्रुताः । तन्माहात्म्यं ततो वक्ष्ये शृणु देवर्षिसत्तम
जागरे महिमा चैव दीपदाने कृते च यत् । प्रहरेषु पृथक्पूजाफलं देवर्षिसत्तम
पर्शुरामस्य चाख्यानं रेणुकाया वधस्तथा । ब्राह्मणानां भूमिदानं रामेणैव च यत्कृतम्
रामस्याश्रमजं पुण्यं वदाम्यहमशेषतः । नर्मदायास्तथाख्यानं पुण्यपूजनयोस्तथा
दानं वेदपुराणानामाश्रमाणां निरूपणम् । हिरण्यदानपुण्यं च ब्रह्मांडदानमेव च
पद्मपुराणदानं च खंडानां व्यक्तयस्तथा । प्रथमं सृष्टिखंडं च द्वितीयं भूमिखंडकम्
स्वर्गखंडं तृतीयं च तुर्यं पातालसंज्ञकम् । उत्तरं पंचमं प्रोक्तं खंडान्यनुक्रमेण वै
एतत्पद्मपुराणं तु व्यासेन तु महात्मना । कृतं लोकहितार्थाय ब्राह्मणश्रेयसे तथा
शूद्राणां पुण्यजननं तीव्रदारिद्र्यनाशनम् । मोक्षदं सुखदं चाशु कल्याणप्रदमव्ययम् । श्रुत्वा दानं तथा कुर्याद्विधिना तत्र नारद
महेश उवाच- एकलक्षं पंचविंशत्सहस्रा पर्वतास्तथा । तेषां मध्ये महत्पुण्यं बद्रिकाश्रममुत्तमम्
नरनारायणो देवो यत्र तिष्ठति नारद । तस्य स्वरूपं तेजश्च वक्ष्यामीह च सांप्रतम्
हिमपर्वतशृंगे च कृष्णाकारतया द्विज । द्वौ पुरुषौ तत्र वर्तेते नरनारायणावुभौ
श्वेत एकस्तु पुरुषः कृष्णो ह्येकतमः पुनः । तेन मार्गेण ये यांति हिमाचलकृतोद्यमाः
पिंगलश्वेतवर्णश्च जटाधारी महाप्रभुः । कृष्णो नारायणो ह्येष जगदादिर्महाप्रभुः
चतुर्बाहुर्महान्श्रीमान्व्यक्तोऽव्यक्तः सनातनः । उत्तरायणे महापूजा जायते तत्र सुव्रत
षण्मासादिकपर्यंतं पूजा नैव च जायते । हिमव्याप्तं तदा जातं यावद्वै दक्षिणं भवेत्
अत एतादृशो देवो न भूतो न भविष्यति । तत्र देवा वसंतीह ऋषीणां चाश्रमास्तथा
अग्निहोत्राणि वेदाश्च ध्वनिः प्रश्रूयते सदा । तस्य वै दर्शनं कार्यं कोटिहत्याविनाशनम्
अलकनंदा यत्र गंगा तत्र स्नानं समाचरेत् । कृत्वा स्नानं तु वै तत्र महापापात्प्रमुच्यते
यत्र विश्वेश्वरो देवस्तिष्ठत्येव न संशयः । एकस्मिन्नवसरे ब्रह्मन्सुतपस्तप्तवानहम्
तदा नारायणो देवो भक्तानां हि कृपाकरः । अव्ययः पुरुषः साक्षादीश्वरो गरुडध्वजः । सुप्रसन्नोऽब्रवीन्मां वै वरं वरय सुव्रत
श्रीनारायण उवाच-। यद्यदीप्ससि देव त्वं तं तं कामं ददाम्यहम् । त्वं कैलासविभुः साक्षाद्रुद्रो वै विश्वपालकः
रुद्र उवाच-। अलं गृह्णामि भो देव सुप्रसन्नो जनार्दन । द्वौ वरौ मम दीयेतां यदि दातुं त्वमिच्छसि
तव भक्तिः सदैवास्तु भक्तराजो भवाम्यहम् । सर्वे लोका ब्रुवंत्वेवमयं भक्तः सदैव हि
तव प्रसादाद्देवेश मुक्तिदाता भवाम्यहम् । ये लोका मां भजिष्यंति तेषां दाता न संशयः
विष्णुभक्त इति ख्यातो लोके चैव भवाम्यहम् । यस्याहं वरदाता तु तस्य मुक्तिर्भवेत्प्रभो
जटिलो भस्मलिप्तांगो ह्यहं वै तव संनिधौ । तव चरणप्रसादेन लोके ख्यातो भवाम्यहम्
सूत उवाच- एकदा नारदो द्रष्टुं पांडवान्दुःखकर्शितान् । ययौ काम्यवनं विप्रः सत्कृतस्तैर्यथाविधि
अथ नत्वा मुनिश्रेष्ठं युधिष्ठिर उवाच ह । भगवन्कर्मणा केन दुःखाब्धौ पतिता वयम्