अन्येषां चैव लोकानां का कथा चैव सुव्रत । पंचविंशत्यत्र नागा नर्तक्यो विविधास्तथा
ब्रह्महत्या बालहत्या गवांहत्या तथैव च । ताः सर्वा विलयं यांति जगन्नाथस्य दर्शनात्
जगन्नाथेत्युच्चरञ्जंतुर्महापापैः प्रमुच्यते । विष्णोः पूजनकं पुष्पैस्तन्माहात्म्यमपि ब्रुवे
पर्वतानां वर्णनं च देशानां वर्णनं तथा । गोपूजनादिमाहात्म्यं सिद्धानां चैव पूजनम्
सिक्थे दत्ते तु यत्पुण्यं तत्सर्वं प्रवदाम्यहम् । कदलीगर्भदानं च वृक्षदानं ततः परम्
अश्वदानं हस्तिदानं जपमाहात्म्यमुत्तमम् । मंत्रदीक्षागमं चैव गुरोर्लक्षणमेव च
शिष्यस्य लक्षणं प्रोक्तं यथा पौराणिका विदुः । चरणोदकमाहात्म्यं पितृश्राद्धादिकं च यत्
पितृक्षयाहदानं च नीलोत्सर्गविधिस्ततः । ग्रहणं चंद्रसूर्यस्य तत्र दानं च यद्भवेत्
शालग्रामस्य दानस्य माहात्म्यं माल्यगंधयोः । दशम्यैकादशीवेधं द्वादशी हरिवासरम्
तेषां चैव तुमाहात्म्यं रुद्रनामादिकं च यत् । मथुरायाश्च माहात्म्यं कुरुक्षेत्रादिकं तथा
सेतुबंधस्य चाख्यानं श्रीरामेश्वरजं तथा । त्र्यंबकस्य च माहात्म्यं पंचवट्याश्च यत्फलम्
दंडकारण्यमाहात्म्यं शृणु वाडवसत्तम । दंडकारण्यमाहात्म्यं नृसिंहोत्पत्तिकारणम्
गीतायाश्चैव माहात्म्यं तथा भागवतस्य च । कालिंद्याश्चैव माहात्म्यमिन्द्रप्रस्थस्य वर्णनम्
रुक्मांगदचरित्रं तु महिमा वैष्णवस्य च । वैष्णवे ह्येकभुक्ते तु शृणु वाडवसत्तम
ससागरां च पृथिवीं दत्त्वा चैव तु यत्फलम् । तत्फलं समवाप्नोति भुक्ते ह्येके तु वैष्णवे
सात्विकाः सत्त्वसंपन्ना राजसाः कामुकाः स्मृताः । तामसा अधमाः प्रोक्ता वैष्णवानां तु लक्षणम्
ब्राह्मणा वैष्णवा ये तु वेदधर्मपरायणाः । तेषां माहात्म्यं वक्ष्यामि यथोक्तं चैव नारद
विष्णुनिंदारता ये वै द्रव्यलोभेन सत्तम । तेषां पापं तु वक्ष्यामि सांप्रतं ऋषिसत्तम
ज्वालामुख्यास्तथाख्यानं हिमशैलेक्षणं तथा । ब्रह्मोत्पत्तिस्तु वै यत्र तं प्रदेशं वदाम्यहम्
कायस्थानां समुत्पतिर्गयाव्याख्यानमेव च । गदाधरस्वरूपं च फल्गुवर्णनमेव च 6.1.
एतेषां चैव माहात्म्यं पाद्मे दृष्टं तथा श्रुतम् । महाबोधस्वरूपं च सकल्केर्यश एव च
रामगयाया माहात्म्यं तथा प्रेतशिलाभवम् । ब्रह्मणश्च तथाख्यानं शिलाख्यानं वदाम्यहम्
ब्रह्मयोनेस्तथाख्यानमक्षयाख्य वटस्य च । श्राद्धे तत्र महत्पुण्यं यत्तत्सर्वं वदाम्यहम्
महेश्वरकृतां भक्तिं विष्णुना च महात्मना । अद्यापि काश्यां जपति महारुद्रो ह्यनामयम्
माहात्म्यं च ततो वक्ष्ये सागरस्य हि नारद । तिलतर्पणजं पुण्यं यवजं पुण्यमेव च
तुलसीदलसंयुक्तं तर्पणं देवजं तथा । तन्माहात्म्यं प्रवक्ष्यामि यथोक्तं ब्रह्मणा मम
शंखनादस्य माहात्म्यं पुण्यं चासंख्यसंज्ञकम्
रवेर्वारस्य माहात्म्यं योगस्य विष्णुसंज्ञिनः । वैधृतस्य च माहात्म्यं व्यतीपातस्य वै तथा
एतत्सर्वं प्रवक्ष्यामि यथोक्तं चैव नारद । अन्नदानं वस्त्रदानं भूमिदानं तथैव च
शय्यादानं च गोदानं तथा वृषभमेव च । जन्माष्टम्याश्च माहात्म्यं मत्स्यमाहात्म्यमेव च