जालंधरं तथाख्यानं श्रीशैलाख्यं ततः परम् । हरिद्वारस्य व्याख्यानं विष्णुपादोद्भवां तथा
प्रयागतीर्थं ते वक्ष्ये दशाश्वमेधिकं च तत् । तुलसीमहिमाचैव शंखचक्रगदादिकम्
द्वारकायास्तथाख्यानं महोत्सवविधिस्ततः । तडाकजं तथा पुण्यं वापीकूपप्रपादिकम्
गाणपत्यं ततो वक्ष्ये वैष्णवागममेव च । जीर्णोद्धारस्य माहात्म्यं मंदाकिनी समागमम्
साभ्रमत्यास्तु माहात्म्यं माहात्म्यं तीरजं तथा । स्त्रीशूद्राणां तथा धर्मं तथा त्याज्यैश्च धारणम्
उमामहेशसंवादे प्रोक्तं नामसहस्रकम् । कैलासात्तत्समानीतं नारदेनाग्रजन्मना
लोकानां ब्राह्मणानां च क्षत्रियाणां विशेषतः । स्त्रीशूद्राणां विशेषेण पठितव्यं समाहितैः
इदं पवित्रं परमं पुण्यमायुष्यवर्धनम् । पठितव्यं विशेषेण विष्णोः सायुज्यमाप्नुयात्
विष्णोर्नामसहस्रं तत्पावनं भुवि विश्रुतम् । चतुर्विंशतिमूर्तीनां स्थानकानीह संवदेत्
तेषां च मातापितरावंतरं च ब्रवीम्यहम् । गोत्रं वेदांश्चतेषां वै कर्माणीह तथैव च
स्त्रियस्तेषां प्रवक्ष्यामि यथाविज्ञानदर्शनात् । चतुर्विंशत्येकादशीनां द्वादशीनां प्रभावताम्
गोदावर्याश्च माहात्म्यं शंखचक्रादिधारणम् । ब्राह्मणानां विशेषेण धारणं विधिपूर्वकम्
यमुनायाश्च माहात्म्यं गंडिकायास्तथा मुने । वेत्रवत्यास्तु माहात्म्यं वच्म्यहं ते न संशयः
गिल्लितीर्थोद्भवं पुण्यं शिलाक्षेत्रं महच्च यत् । तत्सर्वं संप्रवक्ष्यामि खंडे उत्तरसंज्ञके
अर्बुदेश्वरमाहात्म्यं तत्र तीर्थादिकं च यत् । सरस्वत्याश्च माहात्म्यं सिद्धक्षेत्रादिकं च यत्
पद्मनाभसमुत्पत्तिं तुलस्याश्चैव धारणम् । गोपीचंदनमाहात्म्यं पट्टपूजां तथैव च
निरंजनस्य माहात्म्यं तथा विज्ञानदर्शनम् । तत्र दीपप्रदानं च धूपदानं विशेषतः
कार्तिकस्याथ माहात्म्यं माहात्म्यं माघजं तथा । सर्वेषां च व्रतानां च माहात्म्यं विधिपूर्वकम्
शृणु नारद वक्ष्यामि जगन्नाथाख्यमुत्तमम् । यं दृष्ट्वा मुच्यते लोको ब्रह्महत्यादिपातकात्
यत्र सिद्धं तथा भुक्तं पारलौकिकदायकम् । ब्राह्मणा यत्र भुंजन्ति वेदशास्त्र विशारदः
अन्येषां चैव लोकानां का कथा चैव सुव्रत । पंचविंशत्यत्र नागा नर्तक्यो विविधास्तथा
ब्रह्महत्या बालहत्या गवांहत्या तथैव च । ताः सर्वा विलयं यांति जगन्नाथस्य दर्शनात्
जगन्नाथेत्युच्चरञ्जंतुर्महापापैः प्रमुच्यते । विष्णोः पूजनकं पुष्पैस्तन्माहात्म्यमपि ब्रुवे
पर्वतानां वर्णनं च देशानां वर्णनं तथा । गोपूजनादिमाहात्म्यं सिद्धानां चैव पूजनम्
सिक्थे दत्ते तु यत्पुण्यं तत्सर्वं प्रवदाम्यहम् । कदलीगर्भदानं च वृक्षदानं ततः परम्
अश्वदानं हस्तिदानं जपमाहात्म्यमुत्तमम् । मंत्रदीक्षागमं चैव गुरोर्लक्षणमेव च
शिष्यस्य लक्षणं प्रोक्तं यथा पौराणिका विदुः । चरणोदकमाहात्म्यं पितृश्राद्धादिकं च यत्
पितृक्षयाहदानं च नीलोत्सर्गविधिस्ततः । ग्रहणं चंद्रसूर्यस्य तत्र दानं च यद्भवेत्
शालग्रामस्य दानस्य माहात्म्यं माल्यगंधयोः । दशम्यैकादशीवेधं द्वादशी हरिवासरम्
तेषां चैव तुमाहात्म्यं रुद्रनामादिकं च यत् । मथुरायाश्च माहात्म्यं कुरुक्षेत्रादिकं तथा