शंभुरुवाच- आसीत्पुरा बलः कश्चित्सोम इत्यभिविश्रुतः । तस्य पुत्रश्च मंदाख्यो दशवर्षवया अभूत्
स चाग्निपक्वकुल्माषान्घंटायां प्राक्षिपन्नृप । तानभक्षयदप्येष तेन चोपहताभवत्
गृहीतुमथ तं वैश्यं यतमानोऽब्रवीदिदम् । अथ वैश्यः स्वयं तत्र निश्चित्य द्रव्यशोधनम्
लौकिके कृतवाँल्लोके व्यवहारपदश्च ताम् । एतेन पापयोगेन गणो घंटामुखोऽभवत्
राम उवाच- द्रव्यशुद्धेर्विशुद्धा सा कथं पापस्य कारणम् । सम्यगुक्तं द्रव्यशुद्ध्यै कथं न द्रव्यशोधिनी
शंभुरुवाच- न लौकिकव्यवहृतौ तवाभक्तो भविष्यति । स याति च शिवस्थानं वक्ता चापि तथा भवेत्
सूत उवाच- यश्च वक्ति कथामेतां स तेन सदृशो भुवि । गुह्याद्गुह्यतमं विप्राः शिवज्ञानप्रदं भवेत्
एतद्वः कथितं विप्राः पुण्यायुष्यतमं महत् । य इदं शृणुयाद्भक्त्या शिवलोके महीयते
पुराणवक्त्रे दातव्यं वस्त्रं गोहेमभूषणम् । भूमिः सस्यफलोपेता देया शक्त्यनुसारतः
शिवराघवसंवादं सर्वाघौघनिकृंतनम् । यः पठेच्छृणुयाद्वापि स याति परमं पदम्
ॐ श्रीविष्णवे नमः । ॐ श्रीवेदव्यासाय नमः । ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः
ऋषय ऊचुः -। श्रुतं पातालखंडं च त्वयाख्यातं विदांवर । नानाख्यानसमायुक्तं परमानंददायकम्
अधुना श्रोतुमिच्छामो भगवद्भक्तिवर्द्धनम् । पाद्मे यच्छेषमस्तीह तद्ब्रूहि कृपया गुरो
सूत उवाच-। शृणुध्वं मुनयः सर्वे यदुक्तं शंकरेण हि । पृच्छते नारदायैव विज्ञानं पापनाशनम्
एकादा नारदो लोकान्पर्यटन्भगवत्प्रियः । गतोऽद्रि मंदरं शंभुं प्रष्टुं किंचिन्मनोगतम्
तत्रासीनमुमानाथं प्रणिपत्य शिवाज्ञया । उपविष्टः समादिष्ट आसनेऽभिमुखो विभोः
नारद उवाच। पप्रच्छ इदमेवेशं यन्मां पृच्छथ सत्तमाः । भगवन्देवदेवेश पार्वतीश जगद्गुरो
भगवत्तत्वविज्ञानं येन स्यात्तन्ममादिश । शिव उवाच। शृणु नारद वक्ष्यामि पुराणं वेदसंमितम्
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः । प्रथमोत्तरकीर्तिः स्यात्पर्वताख्यानमेव च
जालंधरं तथाख्यानं श्रीशैलाख्यं ततः परम् । हरिद्वारस्य व्याख्यानं विष्णुपादोद्भवां तथा
प्रयागतीर्थं ते वक्ष्ये दशाश्वमेधिकं च तत् । तुलसीमहिमाचैव शंखचक्रगदादिकम्
द्वारकायास्तथाख्यानं महोत्सवविधिस्ततः । तडाकजं तथा पुण्यं वापीकूपप्रपादिकम्
गाणपत्यं ततो वक्ष्ये वैष्णवागममेव च । जीर्णोद्धारस्य माहात्म्यं मंदाकिनी समागमम्
साभ्रमत्यास्तु माहात्म्यं माहात्म्यं तीरजं तथा । स्त्रीशूद्राणां तथा धर्मं तथा त्याज्यैश्च धारणम्
उमामहेशसंवादे प्रोक्तं नामसहस्रकम् । कैलासात्तत्समानीतं नारदेनाग्रजन्मना
लोकानां ब्राह्मणानां च क्षत्रियाणां विशेषतः । स्त्रीशूद्राणां विशेषेण पठितव्यं समाहितैः
इदं पवित्रं परमं पुण्यमायुष्यवर्धनम् । पठितव्यं विशेषेण विष्णोः सायुज्यमाप्नुयात्
विष्णोर्नामसहस्रं तत्पावनं भुवि विश्रुतम् । चतुर्विंशतिमूर्तीनां स्थानकानीह संवदेत्
तेषां च मातापितरावंतरं च ब्रवीम्यहम् । गोत्रं वेदांश्चतेषां वै कर्माणीह तथैव च