आत्मतृप्तिं प्रकुर्वंति परं हत्वातियत्नतः । धीमान्नात्मपरिज्ञानं कदाचित्कुरुते नहि
अहं विष्णुरसौविष्णुरिति चेतसि भावयेत् । परदुःखेन यो दुःखी सुखी यश्च परश्रिया
संसारेऽस्मिन्स विज्ञेयः साक्षादेव हरिः स्वयम् । धिगस्तु तत्सुखं नॄणां मोहवंचितचेतसाम्
परहिंसाविधानेन सुखं यत्स्याद्भुजंगम । सुखानि वापि दुःखानि दीयंते यानि जंतवे
अचिरेणैव तानि स्म लभंते भुवि मानवाः । तस्माद्धिंसां परित्यज्य भुजंगम सुखी भव
त्वयि प्रसन्ने गच्छावः पारं दुःखमहोदधेः । सर्प उवाच- यदा स्यात्परहिंसायां नूनं मे नातिपातकम्
तदा कथमहो सृष्टै वेधसा भक्ष्यभक्षकौ । परहिंसा न कर्तव्या सत्यमेतत्त्वयोदितम्
किंतु सर्वेषु भक्ष्येषु हिंसा संभाव्यते नहि । नारायणो विश्वरूपः सत्यमेतन्न संशयः
भक्ष्यभक्षकसंयुक्तं स्वयमेव ससर्ज ह । सृजति स्वयमात्मानमात्मानं रक्षति स्वयम्
आत्मानं स्वयमेवात्ति सृष्टिरेवंविधा हरेः । शक्तोऽहं किं युवां हंतुं कालरूपी स्वयं विधिः
संप्रति प्रेषयामास कार्येस्मिन्मां स्वयं हरिः । युवां ससर्ज यो देवो यश्च रक्षति वां सदा
कालरूपी स एवाद्य हंति हेतुं विधाय माम् । व्यास उवाच-। ततस्तेन भुजंगेन भक्षितौ तौ च दंपती
गङ्गा गंगेति जल्पंतौ महत्या क्षुधया पथि । जाह्नवीतीरयात्रायां पादेपादे जनाविमौ
अश्वमेधाख्य यज्ञानां प्राप्तवंतौ महाफलम् । तस्मादेनौ महात्मानौ बह्वश्वमेधधारिणौ
एतयोः सदृशो नास्ति शतक्रतुरहं यतः । निजाधिकारेणैवान्यमवलंब्य पुरंदरः
अर्घ्यहस्तः पादचारी वृतो देवैः समाययौ । अथ रम्भोर्वशी चैव सुंदर्योऽन्याश्च हर्षिताः
अन्योन्यं कथयामासुर्निजयौवनगर्विताः । अयं पुण्यात्मनां श्रेष्ठो रसज्ञोऽत्यंतसुन्दरः
आयातोऽमुं करिष्यामि स्ववशं सेवितैः स्वकैः । काचित्कांचिद्वदत्येतज्जानामि सकलां कलाम्
अतएव भविष्यामि कांताहमस्य भूपतेः । काचित्कांचिदिति ब्रूयात्ते शक्रोपि वशो मम
किमत्र चित्रं वशगो भूपालोऽयं भविष्यति
भर्त्ता ममायं च पतिर्ममायं स्वामी ममायं मम नाथ एषः । इतीव सर्वाः परमप्रमोदैर्वदंति नार्योखिलसद्गुणज्ञाः
उच्चावचं विप्र निशम्य तासां जगाद काचिद्गुणिनी रसज्ञा । सौदास्यकांतां नृपतिः स्वयं यां भजत्ययं किं कलहेन नार्यः
सुन्दर्य्यस्तास्ततः सर्वाः संत्यज्य कलहं द्विज । आजग्मुर्हृदयोत्साहैः सर्वाभरणभूषिताः
अथ तं नृपतिश्रेष्ठ सदारं गतकल्मषम् । पाद्याद्यैः पूजयामासुः प्राहेति च पुरंदरः
रथे निवेशयामास पुष्पके स्त्रीसमन्वितम् । भेरीमृदंगमधुरी डिंडिमानकनिःस्वनैः
करकं कणनादैश्च करतालस्वनैस्तथा । जयशब्दैश्च देवानां नाकः शब्दमयोऽभवत्
देवाङ्गना चारुहस्त श्वेतचामरमारुतैः । वीजितः सरथारूढः सदारस्त्रिदिवं ययौ
ततः शक्रः स्वयं तस्मै सत्यधर्माय भूभुजे । दत्तवान्निजासनार्द्धं शुभो वै क्षयशंकया
शक्रेण सह भूपोऽसौ वसन्नेकासने सदा । शक्रत्वमकरोत्स्वर्गे केशवस्यानुकंपया १५० 7.9.
युगकोटिसहस्राणि दिवि भुक्त्वाखिलं सुखम् । रथमारुह्यवैकुंठं ययौ भगवदाज्ञया