संध्याजपादिकं कृत्वा नत्वा तेषां नृपस्ततः । सिंहासनगतो रामः पौरजानपदादिभिः
सेव्यमानः सभास्थानगतो रेजे स राघवः । सर्वदेवपरीवारो यथा देवः शचीपतिः
राजकार्यमशेषं च कृतवान्भ्रातृभिः सह । नाम्ना चैकैकशः सर्वान्विससर्ज स राघवः
भ्रातॄन्विसर्जयामास वानरादींस्तथापरान् । अथ रामं महातेजा वसिष्ठो वाक्यमुक्तवान्
तव प्रातर्हि यत्कार्यं न च विस्मर राघव । आस्ते शंभुर्जगन्नाथो भगवानंबिकापतिः
स्मर्तव्यो वन्दनीयश्च भगवानथ यत्नतः । तथेत्युक्त्वा गुरुं राजा नत्वा तं च व्यसर्जयत्
स्वयं च भार्यामभजद्देवदेवं विचिंतयन् । ऋषय ऊचुः - प्रातः समुत्थाय गुरो रामो मतिमतां वरः । किं चकार तदाख्याहि श्रोतुं कौतूहलं हि नः
सूत उवाच- शंभुं विलोक्याथ ततो बभाषे रामः कथां कीर्त्तय शंकरस्य । तृप्तिर्न जाता मुनिवर्य शृण्वतो महेशमाहात्म्यमघौघनाशनम्
शंभुरुवाच- अथप्रश्नशेषस्योत्तरमीशभाषितं ते कीर्तयिष्यामि । अन्यायोपार्जितद्रव्यैरीश्वरं य उपासते ते व्यंगा जायंते
तद्यथाकश्चिद्रूपको नाम राक्षसोऽन्यायार्जितेनद्रव्येण शंकरमाराध्य तेनैव द्रव्येण घंटामीश्वरप्रीतये कृतवान्
तस्य पुत्रः संपातिरिति ख्यातः चौर्य्यार्जितैः शंकरं पूजयामास
तावुभावेकस्मिन्दिवसे मम्रतुः गतौ शिवलोकं वीरभद्रेण भाषितौ च
भो रूपक अन्यायार्जितेन द्रव्येण भवता पूजाकृता घंटादिकं च तेन भावेन व्यंगो भूत्वा चौरगणो भविष्यसि
शिवपदवचनाद्व्यक्तं नामाश्रवणात् । श्रोत्रं तस्य स्वनेन ध्वस्तं भवति नो दर्शनमेतावतादेव त्वयेश्वरपूजा सम्यक्कृता
अतो भक्तिश्च भविष्यति वीरभद्रस्त्वनशनं नामगणं क्वचिद्विचरंतमित्यादिदेश
तौ च तथाभूतौ शिवलोकेऽतिष्ठताम्
शंभुरुवाच- अथोपहतद्रव्यपूजाकथां हनूमते महेशभाषितां कथयिष्यामि
शृणु राघव प्रमथानां चरित्रमेकैकस्य कर्मविपाकं कथयिष्यामि
उपहतांगगणव्याख्याक्रियतामिति हनूमत्पृष्टः ।। । शिव उवाच २२० तदुपहतद्रव्यं ज्ञानतो य ईश्वरेऽपयिष्यति एतदुक्तं ज्ञानिनोऽत शृणुः
एष सर्वांगस्वेदिलः सर्वकालं सर्वांगस्वेदिलः स्वेदार्द्र वसनः स्वेदसंपादिताल्पप्रवाहशरीरो नासाग्रनिपतितस्वेदबिंदुः स्पर्शायोग्यो दृश्यते
स पुरा स्वेदकरणेश्वरार्चनं कृतवान् । अत्रेतिहासं कीर्तयिष्यामि
चेकितानिरिति ख्यातो ब्राह्मणः कर्षकोभवत् । स नित्यं कृषिमुत्पाद्य प्रातः स्नात्वा च नित्यशः
मध्याह्नकाले संप्राप्ते संजपन्ब्राह्मणस्त्वसौ । अन्नमानय मे क्षिप्रमिति भार्यामभाषत
तयानीतेन चान्नेन वेगेन शिवपूजनम् । कृतवानर्कसंतप्तः स्वेदिलः सर्वदैव तु
गंधपुष्पाक्षताद्यैश्च स्वेदबिंदुसमन्वितैः । अथ सायंदिने प्राप्ते क्षालितांगः सुशोभनः
पूजयामास देवेशं कालसंभवसाधनैः । ममाराथ महाबुद्धिः शिवलोकं गतश्च सः
वीरभद्रेण चाप्युक्तो भव त्वं स्वेदिलो गणः । स्वेदस्पृष्टपदार्थैश्च पुरा शंभुः प्रपूजितः
नित्यं स्वेदसमायुक्तस्तेन स्वेदगणो भव । शंभुरुवाच- वीरेणाथ समादिष्टः प्राप्तो रामगणस्त्वयम्
अमुं घंटामुखं पश्यायं पुरा वैश्यो विभावसोनाम धार्मिको महादानकर्त्ता नित्यं ब्राह्मणभोजनं कारयित्वा कृतानुष्ठानः प्रातःकाले शिवं नमस्कृत्य कुसुमैः संपूज्य किंचित्प्रदेशं गोमयेनोपलिप्य पद्मादिकमर्जयित्वा देवाय समर्प्य उपहत घंटानादं कृतवान्
राम उवाच- कथमुपहतघंटा