यदि कामं प्रयच्छेथा मनश्च परपूरुषात् । संनिवृत्तं च भवतान्नमस्तेऽस्तु द्विज प्रभो
अथ ते मुनयः सर्वे प्रणेमुर्देवतोत्तमौ । अथासौ राघवं प्राह भुंक्ष्व त्वं बंधुभिः सह
एकांतमंदिरे रम्ये देव्यासहवसामिते । विष्णुः समस्तकरणः समुद्र तनयान्वितः
एकस्मिन्मंदिरे राम तिष्ठतां लोलुपो हि सः । अथ शुद्धमहागारे पीठाढ्ये बहुभाजने
अग्रे वसिष्ठो भगवानुपविष्टस्तयोर्मुनिः । अपरे ऋषयः सर्वे यथावृद्धं नृपास्तथा
तेषामभिमुखो रामो भ्रातृभिः सहितो नृपः । तरुणे समभागे च आसने तानवेशयत्
हनूमत्प्रमुखान्भृत्यानाहरामोऽनुसांत्वयन् । भवंतः परितिष्ठंतु पश्चाद्भुंजे न चान्यथा
ततस्ते प्रददुः सर्वे पादार्घाननुपूर्वशः । बुभुजुश्चापि ते सर्वे ये रामस्योपसेविनः
तेषां दत्वाथ तांबूलं कपींद्रादीनभोजयत् । भुक्तवत्सु समस्तेषु रामो राजीवलोचनः 5.117.
दीनांधकृपणादीनां पशुपक्षिमृगस्य च । दत्वाहि भोजनं संध्यां वंदितुं हि समारभत्
संध्याजपादिकं कृत्वा नत्वा तेषां नृपस्ततः । सिंहासनगतो रामः पौरजानपदादिभिः
सेव्यमानः सभास्थानगतो रेजे स राघवः । सर्वदेवपरीवारो यथा देवः शचीपतिः
राजकार्यमशेषं च कृतवान्भ्रातृभिः सह । नाम्ना चैकैकशः सर्वान्विससर्ज स राघवः
भ्रातॄन्विसर्जयामास वानरादींस्तथापरान् । अथ रामं महातेजा वसिष्ठो वाक्यमुक्तवान्
तव प्रातर्हि यत्कार्यं न च विस्मर राघव । आस्ते शंभुर्जगन्नाथो भगवानंबिकापतिः
स्मर्तव्यो वन्दनीयश्च भगवानथ यत्नतः । तथेत्युक्त्वा गुरुं राजा नत्वा तं च व्यसर्जयत्
स्वयं च भार्यामभजद्देवदेवं विचिंतयन् । ऋषय ऊचुः - प्रातः समुत्थाय गुरो रामो मतिमतां वरः । किं चकार तदाख्याहि श्रोतुं कौतूहलं हि नः
सूत उवाच- शंभुं विलोक्याथ ततो बभाषे रामः कथां कीर्त्तय शंकरस्य । तृप्तिर्न जाता मुनिवर्य शृण्वतो महेशमाहात्म्यमघौघनाशनम्
शंभुरुवाच- अथप्रश्नशेषस्योत्तरमीशभाषितं ते कीर्तयिष्यामि । अन्यायोपार्जितद्रव्यैरीश्वरं य उपासते ते व्यंगा जायंते
तद्यथाकश्चिद्रूपको नाम राक्षसोऽन्यायार्जितेनद्रव्येण शंकरमाराध्य तेनैव द्रव्येण घंटामीश्वरप्रीतये कृतवान्
तस्य पुत्रः संपातिरिति ख्यातः चौर्य्यार्जितैः शंकरं पूजयामास
तावुभावेकस्मिन्दिवसे मम्रतुः गतौ शिवलोकं वीरभद्रेण भाषितौ च
भो रूपक अन्यायार्जितेन द्रव्येण भवता पूजाकृता घंटादिकं च तेन भावेन व्यंगो भूत्वा चौरगणो भविष्यसि
शिवपदवचनाद्व्यक्तं नामाश्रवणात् । श्रोत्रं तस्य स्वनेन ध्वस्तं भवति नो दर्शनमेतावतादेव त्वयेश्वरपूजा सम्यक्कृता
अतो भक्तिश्च भविष्यति वीरभद्रस्त्वनशनं नामगणं क्वचिद्विचरंतमित्यादिदेश
तौ च तथाभूतौ शिवलोकेऽतिष्ठताम्
शंभुरुवाच- अथोपहतद्रव्यपूजाकथां हनूमते महेशभाषितां कथयिष्यामि
शृणु राघव प्रमथानां चरित्रमेकैकस्य कर्मविपाकं कथयिष्यामि
उपहतांगगणव्याख्याक्रियतामिति हनूमत्पृष्टः ।। । शिव उवाच २२० तदुपहतद्रव्यं ज्ञानतो य ईश्वरेऽपयिष्यति एतदुक्तं ज्ञानिनोऽत शृणुः
एष सर्वांगस्वेदिलः सर्वकालं सर्वांगस्वेदिलः स्वेदार्द्र वसनः स्वेदसंपादिताल्पप्रवाहशरीरो नासाग्रनिपतितस्वेदबिंदुः स्पर्शायोग्यो दृश्यते