अथ सीता तथा कृत्वा तूष्णीमेव बभूव ह । आह रामं च सीतां च द्विजः परमकोपवान्
पादौ यौ मम राजेंद्र तौ सीता लंबयेदिति । भवान्करौ च भरतो मम वीजं प्रयच्छतु
लक्ष्मणः केशनिचय प्रसाधनकरो भवेत् । शत्रुघ्नः श्लेष्मनिर्मुक्तिं स्ववस्त्रेण करोतु मे
सूत उवाच- अथ ते चक्रुरतिथेरशेषमुदितं तथा । तथापुर्विस्मयं विप्रा नरवानरराक्षसाः
शिवा देवी च शंभुश्च सभ्रूभंगमुदैक्षताम् । मनसा चाप्यभाषेतामतिथिःशंभुरेव च
अतिथिश्च प्रसन्नोऽभू च्छंखचक्रगदाधरः । पीतांबरः समस्तांगभूषितोऽतीव दीप्तिमान्
यः पुराराधितः शंभुः प्रसन्नोऽभूत्त्रिलोचनः । शुद्धस्फटिकसंकाशः सर्वाभरणभूषितः
कोटिसूर्य्यप्रतीकाशः किरीटीकरुणानिधिः । आलंब्य चक्रिणः पाणिमातिष्ठत सदाशिवः
रामः परमधर्म्मात्मा पुलकांचितविग्रहः । दंडवन्निपपातोर्व्यामानंदप्लाविते क्षणः
अनमन्भ्रातरस्तस्य दंडवद्भूतले स्थिताः । शिव उत्थाप्य काकुत्स्थमालिंग्याघ्राय मस्तकम्
उवाच मधुरं वाक्यं रामं राजीवलोचनम् । शिव उवाच- वरं वृणु प्रसन्नोऽस्मि ब्रह्मादेरपि दुर्लभम्
तवादेयं न मे किंचिद्वृणु त्वं न चिराय वै । श्रीराम उवाच- न याच्यं मे जगन्नाथ भूराज्यं मम सांप्रतम्
स्वर्गश्च कर्म्मभिः प्राप्तो भक्तिस्त्वत्पाददर्शनात् । आरोग्यं पश्य भुंजेऽहं सा सीता योषितां वरा
वशीकृताः सर्वनृपाः प्रजाधर्मसमन्विताः । हर्ष एव ममापन्नस्त्वदागमनतोऽच्युत
तथापि वरये किंचिद्भक्तिरस्तु स्थिरा त्वयि । तथा मम गृहे देव त्रिवर्षं तिष्ठ हे प्रभो
ब्रुवन्समस्तधर्मांश्च रूपेणानेन शंकर । शिव उवाच- एवमस्तु तथा राम सर्वं ते संभविष्यति
अथाह चक्री राजानं रामं राजीवलोचनम् । वरं वृणु महाभाग प्रसन्नोऽहं यमिच्छसि
श्रीराम आह वचनं मम प्रार्थ्यं न चास्ति हि । यत्प्राप्यं शंभुतः प्राप्तमन्यत्सर्वमुदीरितम्
किं चैकं वरये विष्णो प्रसन्नः सर्वदा भव । अथसी तां हरिः प्राह प्रसन्नोऽहं तवाधुना
वरं वृणु प्रयच्छामि ततः सीताब्रवीदिदम् । वरो वृतः पुरा भर्त्रा न चान्यो मे वरोवरः
यदि कामं प्रयच्छेथा मनश्च परपूरुषात् । संनिवृत्तं च भवतान्नमस्तेऽस्तु द्विज प्रभो
अथ ते मुनयः सर्वे प्रणेमुर्देवतोत्तमौ । अथासौ राघवं प्राह भुंक्ष्व त्वं बंधुभिः सह
एकांतमंदिरे रम्ये देव्यासहवसामिते । विष्णुः समस्तकरणः समुद्र तनयान्वितः
एकस्मिन्मंदिरे राम तिष्ठतां लोलुपो हि सः । अथ शुद्धमहागारे पीठाढ्ये बहुभाजने
अग्रे वसिष्ठो भगवानुपविष्टस्तयोर्मुनिः । अपरे ऋषयः सर्वे यथावृद्धं नृपास्तथा
तेषामभिमुखो रामो भ्रातृभिः सहितो नृपः । तरुणे समभागे च आसने तानवेशयत्
हनूमत्प्रमुखान्भृत्यानाहरामोऽनुसांत्वयन् । भवंतः परितिष्ठंतु पश्चाद्भुंजे न चान्यथा
ततस्ते प्रददुः सर्वे पादार्घाननुपूर्वशः । बुभुजुश्चापि ते सर्वे ये रामस्योपसेविनः
तेषां दत्वाथ तांबूलं कपींद्रादीनभोजयत् । भुक्तवत्सु समस्तेषु रामो राजीवलोचनः 5.117.
दीनांधकृपणादीनां पशुपक्षिमृगस्य च । दत्वाहि भोजनं संध्यां वंदितुं हि समारभत्