अथ रामः करं प्रादान्नोत्थितस्तु द्विजोत्तमः । हनूमानथ चाप्यस्य दत्तवान्बलवत्करम्
इतरेण गृहीत्वा तु करेण द्विजपुंगवम् । आचकर्ष कपीन्द्रस्तु द्विजः साक्रोशमुक्तवान्
द्विज उवाच- छिद्यते मे करो व्यक्तमुत्थापय ततोऽन्यतः । लांगूलेन सपीठं तमावृत्याऽमस्तकं बलात्
अथाधावत्ततः पृथ्वीं द्विजस्तु न चचाल ह । अथ वानरवीरस्तु पद्भ्यां च कृन्ततां महीम्
पादौ विन्यस्य सुदृढौ द्विजमूर्धानमाक्षिपत् । विशीर्णमभवद्वेश्म द्विजाः सर्वे बहिस्तथा
सह वृद्धद्विजः सोऽथ हनूमान्बहिरभ्यगात् । पीठे च स्थापयामास ब्राह्मणं स्थविरं कृशम्
द्विजाय जलमादाय जाम्बवान्मृण्मये घटे । आह स्वच्छं जलं विप्र त्वयाऽदेयं सभाजनम्
सीता प्रक्षालयेदङ्गं लक्ष्मणो जलदो भवेत् । जाम्बवानाह तं रामं ब्राह्मणोक्तमशेषतः
द्विजप्रक्षालने रामो व्यादिदेशानुजं प्रियाम् । सौमित्रिर्जलमादाय द्विजाङ्गक्षालने तथा
प्राक्षालयदशेषाङ्गं प्रतिमामिव भूभुजः । अथ रामोपदेशेन चक्रतुस्तौ तथैव च
अथातिथिः स्वगण्डूषं सीतावक्त्रे व्यमुञ्चत । सालंकाराऽम्बुभिर्व्याप्ता प्राक्षालयदथो सती
श्लेष्मलालासुप्रचुरं मुखं विप्रस्य सा सती । प्रममार्ज पुनः क्षाल्य नासा श्लेष्माणमत्यजत्
आचामयित्वा सौमित्रिरुत्तिष्ठेत्यब्रवीद्द्विजम् । द्विजो न शक्यमित्याह हनूमानप्यथाऽगतः
अतिथिः प्राह तं विप्रः पीडितोऽहं हनूमता । गृहीत्वोद्धरता पूर्वं पातितो वानरेण च
जांबवानथ तं प्राह लोमांगं मम वै मृदु । मयाथ ध्रियसे विप्र न च पीडा भविष्यति
इत्युक्त्वा जांबवान्विप्रं दोर्भ्यामालंब्य चोद्धरत् । द्विजप्रांतमथादाय स्थापयामास तं मुनिम्
अथ रामो द्विजेंद्राणां प्रदक्षिणमवर्तत । दत्ताशीरपि विपेंद्रैर्दत्वा तांबूलमग्रतः
पादावलंबकृद्रामो भ्रातृभिः सह चाब्रवीत् । अयि सीतेऽतिथेरस्य त्वया न क्षालितं वपुः
जंघायुगेऽतिथेरस्य मलं चास्यं मलान्वितम् । सम्यक्प्रक्षालय मुखं द्विजो न सहते मलम्
सीतोवाच- अथ प्रक्षालितं सम्यगिदानीं निर्गतं पुनः । राम उवाच- पुनः प्रक्षालय मलं दोषः स्यादन्यथा मम
अथ सीता तथा कृत्वा तूष्णीमेव बभूव ह । आह रामं च सीतां च द्विजः परमकोपवान्
पादौ यौ मम राजेंद्र तौ सीता लंबयेदिति । भवान्करौ च भरतो मम वीजं प्रयच्छतु
लक्ष्मणः केशनिचय प्रसाधनकरो भवेत् । शत्रुघ्नः श्लेष्मनिर्मुक्तिं स्ववस्त्रेण करोतु मे
सूत उवाच- अथ ते चक्रुरतिथेरशेषमुदितं तथा । तथापुर्विस्मयं विप्रा नरवानरराक्षसाः
शिवा देवी च शंभुश्च सभ्रूभंगमुदैक्षताम् । मनसा चाप्यभाषेतामतिथिःशंभुरेव च
अतिथिश्च प्रसन्नोऽभू च्छंखचक्रगदाधरः । पीतांबरः समस्तांगभूषितोऽतीव दीप्तिमान्
यः पुराराधितः शंभुः प्रसन्नोऽभूत्त्रिलोचनः । शुद्धस्फटिकसंकाशः सर्वाभरणभूषितः
कोटिसूर्य्यप्रतीकाशः किरीटीकरुणानिधिः । आलंब्य चक्रिणः पाणिमातिष्ठत सदाशिवः
रामः परमधर्म्मात्मा पुलकांचितविग्रहः । दंडवन्निपपातोर्व्यामानंदप्लाविते क्षणः
अनमन्भ्रातरस्तस्य दंडवद्भूतले स्थिताः । शिव उत्थाप्य काकुत्स्थमालिंग्याघ्राय मस्तकम्