पितॄणां च ततो दद्याद्दद्यादतिथये ततः । देवताभ्य इति मुखानुच्चार्याऽपोशनं ददेत्
त्रिर्जपित्वा तु गायत्रीमुपवीती पुरोमुखः । प्राचीनावीतवान्ब्रूयान्मधुत्रयमतः परम्
भुञ्जध्वमिति तानुक्त्वा भुञ्जानेषु द्विजातिषु । रक्षोघ्नमन्त्रपठनं भक्ष्यभोज्यादि दापयन्
एतस्मिन्नन्तरे विप्रो योऽतिथिस्तदिदं तथा । कृतवान्महदाश्चर्यं तद्वदामि समासतः
पात्रस्थितमशेषं च ग्रासेनैकेन चाग्रसत् । प्राणाहुतीनां पर्याप्तं दीयतामिति चाब्रवीत्
एतावद्दातुमशक्तः कथं श्राद्धक्रियोद्यतः । ममैकस्य प्रदाने त्वमशक्तो राम किं वृथा
बहूनां भोजनं दातुमुद्युक्तो राम किं वृथा । सहसा कृतकर्माणि न समाप्तिं प्रयान्ति च
त्वया कृतमशेषाणां नालं प्राणाहुतिर्मम । कथं मे दीयते भुक्तिः कथमेषां तथा वद
रामस्तमब्रवीद्वीरो भुंक्ष्व त्वं हि यथासुखम् । इत्युदीर्य निरीक्ष्यास्य कर्म तत्परमाद्भुतम्
अथ शंभुं समाहूय प्राह त्वं परिवेषय । त्वं पिता पार्वती माता शिवा देवीति मे मतिः
अन्नपूर्णेश्वरी देवी भवान्येवेति मे मतिः । सा शांभवी वचः प्राह तत्पर्याप्तं ददाम्यहम्
अथोमा कांस्यमादाय भिस्सापूर्णमलंकृतम् । स्वर्णदर्व्या समादाय पायसं गन्धकान्तिमत्
अस्याक्षयमिदं भूयादिति प्रादात्तु पायसम् । द्विजस्य दक्षिणे हस्ते साऽददात्सत्कृतं मुदा
सशिरः कम्पमानस्तु ऊर्ध्वदृष्टिरथाभवत् । प्रसारितकरश्चाऽसीद्गृहीत्वा पायसं करे
दीयतां पायसं स्वादु सुष्ठु पक्वमिदं तु किम् । शंभुपत्नी बभाषे तं करे भुंक्ष्व ततो ददे
अभक्षयत्ततो विप्रः पुनः करतले स्थितम् । तदक्षयमथ ज्ञात्वा प्रासारयदथेतरम्
तस्मिन्करतले देवी पायसं दत्तवत्युत । अन्येषामपि विप्राणां पक्वाक्षय्यमदात्सती
अथ पाणिद्वयगतं विज्ञायाक्षय्यपायसम् । दृष्ट्वा करान्तरमथो प्रासारयत स द्विजः
उवाचान्नं प्रदातव्यं ससूपघृतमुत्तमम् । शिवादेवी तथा प्रादादक्षय्यं शंभुवल्लभा
यद्यत्प्रादात्तदा साध्वी सर्वमेव तदक्षयम् । करान्तरमथोसृष्टं परिपूर्णं पुनःपुनः
एवं करसहस्रं तु कृत्वा स विरराम ह । उवाच वचनं विप्रो देहि गण्डूषवारि मे । तर्पितोऽस्मि त्वया भद्रे न रामेण न सीतया
शंभुरुवाच- रामेण सीतया दत्तं मया दत्तं हि यत्र च । इतः परं हि किं देयं पूर्णं वा त्वं वदस्व मे
द्विज उवाच- तृप्तोऽस्मि न च मे देयमधिकं च करस्थितम् । विद्वन्नतः करगतं न पपात कथंचन
निषण्णो हि चिरं दध्यौ कथं मे केवलः करः । भुक्त्यै कृतमिदं सर्वं नान्यस्मै कर्मणे मम
तस्मादन्यकृतेरेतत्सर्वं रिक्तं भविष्यति । इति निश्चित्य मनसा लिप्ताङ्गोऽतिथिराभवत्
पश्यत्सु सर्वदेवेषु तदद्भुतमिवाभवत् । तृप्तानथ द्विजाञ्ज्ञात्वा राघवः परमार्थवित्
दर्वीकरोऽथ तृप्ताः स्थ इति पृष्ट्वा यथाविधि । तृप्ताः स्म इति विप्रेन्द्रा विकीर्यान्नं समन्त्रकम्
पात्रस्य याम्याभिमुखः संनिधौ पिण्डमर्पयेत् । गण्डूषमपि विप्राणां तत्रैव परिकल्पयेत्
उच्छिष्टपर्णपात्रेषु ते गण्डूषमकुर्वत । गृहान्तरे च ते विप्रा विविशुस्त्वतिथिं विना 5.117.
आहातिथिर्बहिः कार्यं मयाऽचमनं विट्पते । उत्थातुं नैव शक्नोमि करं मे देहि राघव