यमायाङ्गिरसे पितृमते स्वधा नम इति । द्वितीयामाहुतिं हुत्वा चाभिघार्याक्षतं ततः
अग्नये कव्यवाहनाय स्वधा नमस्ततः परम् । हुत्वाऽपसव्यं कृत्वा तु परिविष्य द्विजान्व्रजेत्
मेक्षणेन ततोऽभीक्ष्णं पातयेत्पितृपात्रके । पिण्डपात्रमतः शेषं दर्वीप्रक्षालनं ततः
मेक्षणस्याग्निनिक्षेपं ततः पात्राण्युपस्तरेत् । पात्रदक्षिणभागे तु दद्यादन्नमनन्तरम्
भक्ष्याणि भोज्यशाकानि सर्वाण्येव स दत्तवान् । अथातिथिर्महावृद्धो वीक्षमाणस्ततस्ततः
उवाच राघवं शान्तं शीघ्रमेव नमस्कुरु । बुभुक्षा वर्ततेऽस्माकं भोक्ष्येऽहं वा तवाऽज्ञया
रामो बभाषे वचनं विलम्बय क्षणं मुने । देवताः पितरो मङ्क्षु नमस्यन्तेऽधुना मया
इत्युक्त्वा राघवः प्रादादन्नं पात्रगतं तदा । प्राक्सौम्याग्रान्कुशान्दैवे प्रतीचीदक्षिणाग्रकान्
पित्र्ये पवित्रे ये दर्भा यवानथ तिलानपि । अन्नप्रदानं कुर्वन्ति पृथिवी इति मन्त्रतः
इदं विष्णुरिति स्पृष्टमङ्गुष्ठेन द्विजस्य तु । देवेभ्यः प्रथमं दद्याद्ये देवा इति वै पठन्
पितॄणां च ततो दद्याद्दद्यादतिथये ततः । देवताभ्य इति मुखानुच्चार्याऽपोशनं ददेत्
त्रिर्जपित्वा तु गायत्रीमुपवीती पुरोमुखः । प्राचीनावीतवान्ब्रूयान्मधुत्रयमतः परम्
भुञ्जध्वमिति तानुक्त्वा भुञ्जानेषु द्विजातिषु । रक्षोघ्नमन्त्रपठनं भक्ष्यभोज्यादि दापयन्
एतस्मिन्नन्तरे विप्रो योऽतिथिस्तदिदं तथा । कृतवान्महदाश्चर्यं तद्वदामि समासतः
पात्रस्थितमशेषं च ग्रासेनैकेन चाग्रसत् । प्राणाहुतीनां पर्याप्तं दीयतामिति चाब्रवीत्
एतावद्दातुमशक्तः कथं श्राद्धक्रियोद्यतः । ममैकस्य प्रदाने त्वमशक्तो राम किं वृथा
बहूनां भोजनं दातुमुद्युक्तो राम किं वृथा । सहसा कृतकर्माणि न समाप्तिं प्रयान्ति च
त्वया कृतमशेषाणां नालं प्राणाहुतिर्मम । कथं मे दीयते भुक्तिः कथमेषां तथा वद
रामस्तमब्रवीद्वीरो भुंक्ष्व त्वं हि यथासुखम् । इत्युदीर्य निरीक्ष्यास्य कर्म तत्परमाद्भुतम्
अथ शंभुं समाहूय प्राह त्वं परिवेषय । त्वं पिता पार्वती माता शिवा देवीति मे मतिः
अन्नपूर्णेश्वरी देवी भवान्येवेति मे मतिः । सा शांभवी वचः प्राह तत्पर्याप्तं ददाम्यहम्
अथोमा कांस्यमादाय भिस्सापूर्णमलंकृतम् । स्वर्णदर्व्या समादाय पायसं गन्धकान्तिमत्
अस्याक्षयमिदं भूयादिति प्रादात्तु पायसम् । द्विजस्य दक्षिणे हस्ते साऽददात्सत्कृतं मुदा
सशिरः कम्पमानस्तु ऊर्ध्वदृष्टिरथाभवत् । प्रसारितकरश्चाऽसीद्गृहीत्वा पायसं करे
दीयतां पायसं स्वादु सुष्ठु पक्वमिदं तु किम् । शंभुपत्नी बभाषे तं करे भुंक्ष्व ततो ददे
अभक्षयत्ततो विप्रः पुनः करतले स्थितम् । तदक्षयमथ ज्ञात्वा प्रासारयदथेतरम्
तस्मिन्करतले देवी पायसं दत्तवत्युत । अन्येषामपि विप्राणां पक्वाक्षय्यमदात्सती
अथ पाणिद्वयगतं विज्ञायाक्षय्यपायसम् । दृष्ट्वा करान्तरमथो प्रासारयत स द्विजः
उवाचान्नं प्रदातव्यं ससूपघृतमुत्तमम् । शिवादेवी तथा प्रादादक्षय्यं शंभुवल्लभा
यद्यत्प्रादात्तदा साध्वी सर्वमेव तदक्षयम् । करान्तरमथोसृष्टं परिपूर्णं पुनःपुनः