आचान्तश्च स्वयं रामो विष्टरं दत्तवानथ । आसीनेषु च विप्रेषु प्राणवायुं निरुध्य च
स्वकर्मकरणानुज्ञां लब्ध्वाऽथ सतिलं जलम् । अपहतेति मन्त्रेण द्वारदेशे विचिक्षिपेत्
उदीरतामिति तथा पितृपात्रस्थले क्षिपेत् । गायत्र्या चाक्षतजलं देवपात्रस्थले क्षिपेत् । पाकजातं तथाऽभ्युक्ष्यम न्त्रमेतदुदीरयेत्
श्राद्धभूमिं गयां ध्यात्वा ध्यात्वा देवं जनार्दनम् । वस्वादींश्च पितॄन्ध्यात्वा ततः श्राद्धं प्रवर्तयेत्
विश्वेदेवार्चनं कुर्याद्यवैर्वा तण्डुलैरथ । मूलाग्रयोजितौ दर्भौ गृहीत्वा साक्षतावथ
भूस्पृष्टदक्षजानुस्तु द्विजहस्ते जलार्पणम् । पुरूरवार्द्रवाणां वै देवानामिदमासनम्
इति दत्त्वाऽसनं तेषां श्राद्धदः प्रार्थयेत्क्षणम्
अर्घं कृत्वा ततः पश्चादुत्तराग्रकुशेष्वथ । न्युब्जं पात्रं ततः कृत्वा कुशग्रन्थिमथोपरि
उत्तानं तु ततः कृत्वा जलैरभ्युक्ष्यरौक्मकैः । पवित्रान्तर्हिते पात्रे शं नो देव्या जलं क्षिपेत्
वैश्वदेव्याऽखिलं कर्म यावत्तद्विधिचोदितम् । यवोऽसि धान्यराजो वा इति पात्रे क्षिपेद्यवान्
मधुमिश्रांस्तु करकान्गन्धपुष्पैस्ततो ददेत् । द्विज तेऽस्त्वर्घ इत्युक्त्वा त्वस्त्वर्घोत्तरतस्ततः
आवाहयिष्ये तान्देवानिति पृष्ट्वा तदुत्तरम् । विश्वेदेवास इत्युक्त्वा विप्रमूर्ध्नि कुशान्क्षिपेत्
विश्वेदेवाः शृणुतेममागच्छन्त्विति संजपेत् । समागतो निषण्णोऽथ सदर्भं पात्रमाहरेत्
दक्षिणे चरणे क्षिप्त्वा मुख्यपात्रोदकं ततः । विप्रस्य दक्षिणे हस्ते प्रागग्रेऽथ पवित्रके
या दिव्या इति मंत्रेण निक्षिपेत्पात्रवारितत् । इदं भो अर्घमित्युक्त्वा ह्यस्त्वर्घोत्तरतस्ततः
पात्रे धृत्वाऽर्घतोयं च तत्पात्रं स्थापयेत्क्वचित् । अथ दत्त्वा करे तोयं यवैरेतानथार्चयेत्
अर्चत प्रार्चत इति पृष्ट्वा चोत्तरतस्ततः । पादादिमूर्धपर्यन्तमभ्यर्च्य जलदस्ततः
गन्धद्वारेति मन्त्रेण तथेत्युक्त्वोत्तरस्ततः । पितॄणामर्चनं कुर्यादेवमेवापसव्यकम्
उपवीतं द्विजं कृत्वा कुशान्भग्नांस्तिलान्वितान् । वामजानुं भूमिगतं कृत्वा दद्यात्तदासनम् 5.117.
दक्षिणाभिमुखो भूत्वा क्षणप्रश्नमथो वदेत् । दक्षिणाग्रेषु दर्भेषु न्युब्जं पात्रत्रयं न्यसेत्
त्रिकुशग्रन्थिसंयुक्तमुत्तानमथ कल्पयेत् । ततः संप्रोक्ष्य पात्रेषु सपवित्रतिलेषु च
शं नो देव्या जलं क्षिप्त्वा तिलोऽसीति तिलान्क्षिपेत् । गन्धपुष्पमथो दत्त्वा स्वधार्घ इति पृच्छति
दत्तोत्तरोऽस्त्वर्घ इति पितॄनावाहयेत्ततः । तिलपुष्पकुशैस्तिष्ठन्कल्पितार्घं करे दधत्
उशन्तस्त्वेति मन्त्रेण त्रिरर्घोदकमर्पयेत् । अर्चनं तु तदा तेषामपसव्यं तु पूवर्वत्
प्रक्षाल्य भाजनं स्वर्णं देवानां परिकल्पयेत् । पितॄणां राजतं कुर्याद्यथासंभवमेव वा
तदभावे तु कांस्यं स्यादनन्याशितमुत्तमम् । पात्राणि तदभावे स्युः पालाशानि न मध्यमम्
रम्भाणि चूतपत्राणि जम्बूपुंनागकानि च । पराकान्यथ चाम्पानि मधूककुटजान्यपि
मातुलुङ्गस्य पत्राणि श्राद्धे देयानि वै नृभिः । दर्व्यामन्नमथाऽदाय कराभ्यामाज्यमेव च
प्रवेषणं ततः पृच्छेत्प्राचीनावीतवान्द्विजम् । करिष्येऽग्नौकरणमिति कुरुष्वेति तदुत्तरम्
परिविष्योपवीती स्यादभिघार्य समाहरेत् । हुनेत्सोमाय पितृमते स्वधा नम इतीरयन्