नैमिषीया ऊचुः - गत्वायोध्यां महातेजाः समस्तमुनिसंयुतः । किं चकार ततो रामः स च शंभुर्महायशाः
सूत उवाच- कौसल्या मासिकश्राद्धमपरेऽहनि राघवः । चिकीर्षुर्द्विजप्रवरानृषिकल्पान्न्यमंत्रयत्
शंभुं समस्तत्त्वज्ञं नारदं रोमशं भृगुम् । विश्वामित्रमथो राम एकभक्तव्रती ततः
भूमौ सुखास्तृतायां च सुष्वापा व्याकुलेंद्रियः । परेद्युरथ संप्राप्ते प्रातःस्नात्वा विधानवित्
अन्नं शाकादिकं शुद्धं जनैरेवान्वकारयत् । नानान्नानि विचित्राणि चोष्याद्यानि तथैव च
वटकादींस्तथा भक्ष्यानष्टत्रिंशदकल्पयत् । पायसं षड्विधं चैव पक्वशाकशतद्वयम्
अपक्वमिश्रकाणां च शतत्रयमकल्पयत् । कालशाकादिकं शाकं फलानि विविधानि च
मूलानि चैककंदानि वल्कलानि च राघवः । कारयित्वा नदीं गत्वा सहभ्रातृपुरोहितः
सरयूसलिले स्नात्वा हुत्वाग्निं स्वागतान्द्विजान् । उक्त्वा तु स्वागतं तांस्तु कृतदेवार्चनो नृपः
प्राणानायम्य संकल्प्य क्षणं चैव प्रदत्तवान् । रोमशं नारदं रामो वैश्वदेवे न्यमंत्रयत्
शंभुं भृगुं कौशिकं च मातृस्थाने न्यमंत्रयत् । गोमयेन ततः कृत्वा मंडलं पूज्य चार्हतः
पादप्रक्षालनं चक्रे सीतादत्तोदकेन च । आचामयित्वा तान्विप्रान्गृहं गंतुमथोद्यतः
अभ्यागतः समायातः स्थविरो विकृताकृतिः । कृशः संप्रचलद्गात्रो वेपितांघ्रिशिरास्तथा
लंबमानत्वगुत्कर्षच्छ्वासकासादिपीडितः । दूषिकाक्लिन्नगंडश्च लालासंपृक्तकूर्चकः
उवाच रामं राजानमहमेको द्विजः स्थितः । ममापि भोजनं देयं स्थविरस्य कृशस्य च
रामोऽपि तद्वचः श्रुत्वा लक्ष्मणं वाक्यमब्रवीत् । पादौ प्रक्षालयास्य त्वमहमभ्यर्चये द्विजम्
अभ्यागतोऽपि वचनमाह राममथाकुलम् । त्वया प्रक्षालिते पादे मम भोजनमिष्यते
मत्तोऽधिका द्विजाः किं ते येन मामवमन्यसे । श्राद्धधर्मं न जानीषे महर्षिगणसेवितम्
ममावमानतः सर्वविप्राणामवमाननम् । श्राद्धं विहन्यते चापि नरकं च गमिष्यसि
अथ रामः स्वयं विप्रपादौ प्राक्षालयत्तदा । आचामयित्वा तं विप्रं गृहं प्रावेशयत्ततः
आचान्तश्च स्वयं रामो विष्टरं दत्तवानथ । आसीनेषु च विप्रेषु प्राणवायुं निरुध्य च
स्वकर्मकरणानुज्ञां लब्ध्वाऽथ सतिलं जलम् । अपहतेति मन्त्रेण द्वारदेशे विचिक्षिपेत्
उदीरतामिति तथा पितृपात्रस्थले क्षिपेत् । गायत्र्या चाक्षतजलं देवपात्रस्थले क्षिपेत् । पाकजातं तथाऽभ्युक्ष्यम न्त्रमेतदुदीरयेत्
श्राद्धभूमिं गयां ध्यात्वा ध्यात्वा देवं जनार्दनम् । वस्वादींश्च पितॄन्ध्यात्वा ततः श्राद्धं प्रवर्तयेत्
विश्वेदेवार्चनं कुर्याद्यवैर्वा तण्डुलैरथ । मूलाग्रयोजितौ दर्भौ गृहीत्वा साक्षतावथ
भूस्पृष्टदक्षजानुस्तु द्विजहस्ते जलार्पणम् । पुरूरवार्द्रवाणां वै देवानामिदमासनम्
इति दत्त्वाऽसनं तेषां श्राद्धदः प्रार्थयेत्क्षणम्
अर्घं कृत्वा ततः पश्चादुत्तराग्रकुशेष्वथ । न्युब्जं पात्रं ततः कृत्वा कुशग्रन्थिमथोपरि
उत्तानं तु ततः कृत्वा जलैरभ्युक्ष्यरौक्मकैः । पवित्रान्तर्हिते पात्रे शं नो देव्या जलं क्षिपेत्
वैश्वदेव्याऽखिलं कर्म यावत्तद्विधिचोदितम् । यवोऽसि धान्यराजो वा इति पात्रे क्षिपेद्यवान्