लिंगं निधायाथ निरीक्षमाणो ददर्श चाज्ञातकृशाकृतिं द्विजम् । दिगंबरं पादविहीनमेतं काणं कुणिं कर्णविहीनकं प्रभुम्
सामोद्गिरं तं बहुशास्त्रपारगं गृहं समायांतमथो ददर्श
अथाकथो भार्यां सुशोभनामिदमुवाच
अयं हि विकृतवेषो ब्राह्मणः समायाति
अर्द्धं देयमेतस्मै भोजनं रक्षार्द्धमन्नं चास्मिन्नपि दिने गते षष्ठेह्नि भोजनाभावात्तव जीवितं न तिष्ठतीति मम प्रतीयते किं तु त्वं मन्यसे वद
सा शोभनोवाच- आयुर्ललाटे लिखितं नांतरा नश्यति
आकथ आह। यथा बद्धायुषोऽपि यज्ञस्य वीरभद्रेणच्छिन्नं शिर अजस्रात्मनः किमुत नु याणां पापात्मनामिति तदेनं परिहृत्य त्वया भुज्यते यदि त्वेतस्मै मयान्नं दीयते । तवेच्छानुसारतो मम कर्तव्यम्
भार्य्या प्राह कथमहं भोक्ष्ये त्वय्यभुक्ते मया किं पूर्वं भुक्तमिदमपरं शृणु
अन्नं हि प्राणिनां प्राणाः प्रत्यक्षं सर्वदेहिनाम् । तस्मादन्नप्रदो यस्तु प्राणदः स निगद्यते
अन्नाद्भूतानि जायंते वर्द्धंते तानि वै यतः । तस्मादन्नाधिकं किंचिन्नास्य दानं महाफलम्
अश्वत्थचलपत्राग्र लीनतोयद्रवास्तिके । जीवितेन हि यो दद्यात्तस्य जन्म निरर्थकम्
परलोकसहायो हि धर्मो भार्या न बांधवाः । भार्य्या वा पितरौ पुत्रा यावदायुर्न बांधवाः
संपद्वयः सुहृदिह इहामुत्र हि तं स्थितम् । धर्मं धर्मभृतां श्रेष्ठं भुंक्ते चान्ये किमावयोः
इति भार्य्यावचः श्रुत्वा आकथः करुणानिधिः । अविशंकितमेवास्मै दत्तवानन्नमूर्ज्जितम् । अयं स शंकरो देवो नानाकरणमागतः
इति निश्चित्य मनसा तस्यांगं पापनाशनम्
आजानुपादं प्रक्षाल्य परा जंघमतः परम् । गुल्फं च तदधस्तस्य प्रक्षाल्याचामय द्द्विजम्
अथाकथोऽपि पत्संधिं गृहांगणमुपानयत् । उन्मुच्य पादसंधिं स निषसादार्पितासने
समभ्यर्च्याकथः सम्यग्भोजयामास तं मुनिम् । एतस्मिन्नंतरे कश्चिदुन्मत्तो गृहमागतः
पादसंधिमथादाय गृहबाह्यमुपानयत् । अथादहच्च तद्गेहं दंपती चाप्यताडयत् 5.117.
आकथस्ताडितो विप्रो दह्यमानं गृहं तदा । विवेश देवमीशानमादातुं तूर्णमेव वा
अथादाय महेशानं दग्धपूजं द्विजोत्तमः । निर्गत्य च ततो दृष्ट्वा मुखसंतापमेव च
दग्धपूजां तिरस्कृत्य वीक्ष्य दग्धांगमप्युत । भार्यामुवाच धर्मात्मा यथापूजा महेशितुः
तथा मम समस्तांगं कर्त्तव्यमविशंकितम् । व्यंग उवाच- पश्चादपि कृता पूजा सफला ते भविष्यति
यथान्यद्रव्यदहने तादृशं दीयते जनैः । पूजाया दहने तद्वत्पूजास्य क्रियतामिति
आकथ उवाच- चौर्येणाप्यर्जितैर्द्रव्यैः पूजया न हितं भवेत् । न चान्यायार्ज्जितैर्विप्र शंभोः पूजा शुभप्रदा
इत्युक्त्वा चाकथस्तूर्णं स्वांगं दग्धुमुपाक्रमत् । दग्धं लिंगं तदोन्मत्तो गृहीत्वांतर्दधे क्षणात्
अथ व्यंगो हरो भूत्वा वारयामास चाकथम् । किमर्थं खिद्यते विप्र वरदोऽहं वरं वृणु
आकथोऽपि विभोः पादे भक्तिं वव्रे सुनिश्चलाम् । सूत उवाच- एतां श्रुत्वा कथां रामः प्रहृष्टो मुनिभिर्वृतः
भारद्वाजं नमस्कृत्य प्रयाणाज्ञामयाचत
अथो भरद्वाजमुनिः प्रसन्नः शंभुं वसिष्ठं मुनिपुंगवं च । नारायणं चर्षिगणांश्च नत्वा व्यसर्जयत्तेऽपि ययुः प्रणम्य