शिव उवाच- महाविपंचीमवलंब्य निष्ठितः स वायुसूनुः शिवमन्वपृच्छत् । न्यायार्जितैरेव हि पूजने विभोः कीदृग्भवेच्चानयजैः फलं वद
चौर्य्यैरथो किं फलमर्पितार्पणे उपाहृतद्रव्यसमर्पणेषु । एकैकशो मे भगवन्वदेश प्रश्नोत्तरं किं कथयाशु शंभो
अथेश्वरो वानरमाबभाषे वदामि सर्वं तव ध्यानतः शृणु । न्यायार्जितैः पूज्य सदाशिवं त्वजं संप्राप चैश्वर्यमिदं हि गौतमः
पुरा द्विजो मंकणसूनुराकथः सुशोभनामाप सतीं द्विजन्मा । द्ररिद्र एकः करुणासमन्वितः षष्ठाहभोजी पितृवर्जितश्च
उपोष्य पंचाहमथापि भोक्तुं प्रवृत्त एवाथ समापतद्यतिः । यतिर्बभाषे मधुरं तदा कथं मासोपवासी तव भोक्तुमागतः
तिष्ठामि भुंजे यदि चास्ति ते मुने न मे बुभुक्षान्यगृहाद्विभोक्तुम् । आकथ उवाच- न मे भुजिः पंचदिनं द्विजेंद्र षष्ठे दिने मे भुजिरागतश्च
तदा मया कार्यमचिंतनीयं प्रक्षालयाम्येहि तवाद्य पादौ । ओमित्यथ क्षालितपादयुग्मः स भोजनं कर्तुमियेष योगी
रंभादलांसे बुभुजे तदन्नं विपाच्य संपादितमाज्ययुक्तम् । वन्यैः सुसंयुक्तमथादरेण न किंचिदुच्छेषितमन्नमस्य
अथाकथो वीक्ष्य मुनिं सुतुष्टं तुतोष भार्य्यासहितस्तपस्वी । गतोऽथ भुक्त्वापि यतिः स चाकथः संतुष्टचित्तोऽथ जपं चकार
कपोतवृत्तिं स चकार पत्न्या तपोवितानायस सज्जनो मुनिः । पीठेऽथ कृत्वा तमुमापतिं शिवं लिंगे समाराध्य समन्वितं गणैः
लिंगं निधायाथ निरीक्षमाणो ददर्श चाज्ञातकृशाकृतिं द्विजम् । दिगंबरं पादविहीनमेतं काणं कुणिं कर्णविहीनकं प्रभुम्
सामोद्गिरं तं बहुशास्त्रपारगं गृहं समायांतमथो ददर्श
अथाकथो भार्यां सुशोभनामिदमुवाच
अयं हि विकृतवेषो ब्राह्मणः समायाति
अर्द्धं देयमेतस्मै भोजनं रक्षार्द्धमन्नं चास्मिन्नपि दिने गते षष्ठेह्नि भोजनाभावात्तव जीवितं न तिष्ठतीति मम प्रतीयते किं तु त्वं मन्यसे वद
सा शोभनोवाच- आयुर्ललाटे लिखितं नांतरा नश्यति
आकथ आह। यथा बद्धायुषोऽपि यज्ञस्य वीरभद्रेणच्छिन्नं शिर अजस्रात्मनः किमुत नु याणां पापात्मनामिति तदेनं परिहृत्य त्वया भुज्यते यदि त्वेतस्मै मयान्नं दीयते । तवेच्छानुसारतो मम कर्तव्यम्
भार्य्या प्राह कथमहं भोक्ष्ये त्वय्यभुक्ते मया किं पूर्वं भुक्तमिदमपरं शृणु
अन्नं हि प्राणिनां प्राणाः प्रत्यक्षं सर्वदेहिनाम् । तस्मादन्नप्रदो यस्तु प्राणदः स निगद्यते
अन्नाद्भूतानि जायंते वर्द्धंते तानि वै यतः । तस्मादन्नाधिकं किंचिन्नास्य दानं महाफलम्
अश्वत्थचलपत्राग्र लीनतोयद्रवास्तिके । जीवितेन हि यो दद्यात्तस्य जन्म निरर्थकम्
परलोकसहायो हि धर्मो भार्या न बांधवाः । भार्य्या वा पितरौ पुत्रा यावदायुर्न बांधवाः
संपद्वयः सुहृदिह इहामुत्र हि तं स्थितम् । धर्मं धर्मभृतां श्रेष्ठं भुंक्ते चान्ये किमावयोः
इति भार्य्यावचः श्रुत्वा आकथः करुणानिधिः । अविशंकितमेवास्मै दत्तवानन्नमूर्ज्जितम् । अयं स शंकरो देवो नानाकरणमागतः
इति निश्चित्य मनसा तस्यांगं पापनाशनम्
आजानुपादं प्रक्षाल्य परा जंघमतः परम् । गुल्फं च तदधस्तस्य प्रक्षाल्याचामय द्द्विजम्
अथाकथोऽपि पत्संधिं गृहांगणमुपानयत् । उन्मुच्य पादसंधिं स निषसादार्पितासने
समभ्यर्च्याकथः सम्यग्भोजयामास तं मुनिम् । एतस्मिन्नंतरे कश्चिदुन्मत्तो गृहमागतः
पादसंधिमथादाय गृहबाह्यमुपानयत् । अथादहच्च तद्गेहं दंपती चाप्यताडयत् 5.117.
आकथस्ताडितो विप्रो दह्यमानं गृहं तदा । विवेश देवमीशानमादातुं तूर्णमेव वा