कच्चित्तपःसमृद्धंवःकच्चिद्यज्ञःस्वनुष्ठितः । कच्चित्स्वदारनिरताःकच्चिदीशोभिपूज्यते
कच्चित्सुप्रजसोभार्याःकच्चित्सर्वंसुखोत्तरम्
मुनय ऊचुः - त्वयि राजनि काकुत्स्थ सर्वं स्वस्थं तपस्विनाम् । गच्छामहे पदमितः किं वा त्वं मन्यसे नृप
राम उवाच- यस्य विप्राः प्रसीदंति तस्य शंभुः प्रसीदति । यस्य प्रसीदतीशानस्तस्य भद्रं भविष्यति
तत्कृत्वा भोजनमिह गंतुमर्हा अनंतरम् । अथेत्युक्त्वा मुनिगणाः कृत्वा भोजनमुत्तमम्
अभिवर्ध्यतमाशीर्भिर्हृष्टाः स्वं स्वं पदं ययुः । रामोऽपि परमप्रीतः सभार्यश्च सहानुजः
अकंटकं स कृतवान्राज्यं सर्वजनप्रियः । शृणोत्येतदुपाख्यानं यः कश्चिदपि पातकी
सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति । न दुर्गतिर्भवेत्तस्य यश्चेदं स्मरते नरः
यश्चापि कीर्तयेत्तस्य एवमेतदुदीरितम्
सूत उवाच- भारद्वाजगृहे भुक्त्वा रामचंद्रः प्रसन्नधीः । मुनींद्र विष्णुसहितो वानरर्क्षसमन्वितः
मेघच्छन्ने तथाकाशे मंदं चरति मारुते । तद्वनाभ्यंतरे क्वापि सुदेवगृहमुत्तमम्
अष्टापदस्तंभयुतं हेमपट्टिककल्पितम् । मणिमौक्तिकसंयुक्तं राजतैः कलशैर्युतम्
पाटीरचंद्रकस्तूरीकुंकुमैः सुरभीकृतम् । कर्द्दमैर्जालकयुतं शकलोपरि संवृति
चंद्रजोत्स्नागमं सूर्य्या निरीक्ष्य मध्यभित्तिकम् । गृहांतर्भूतलं कृत्स्नं चंद्रपुष्परसोक्षितम्
दिगुदीची तथा कृत्स्नाभित्तिकल्पनवर्जिता । स्तंभेस्तंभे चित्रकारी स्वपादी परिकल्पितम्
शतहस्तांगणं तस्य स्फटिकोपरिकल्पितम् । गृहांगणाधिकच्छायः पारिजातमहीरुहः
कृत्स्नप्रावृतिकं तत्र निबिडं कदलीवनम् । कदलीवनसंयुक्तं केतकीवनसंवृतम्
मयूरनादबहुलं मंजुकूजन्मधुव्रतम् । पारावतगणध्वानं नानोपवनशोभितम्
प्रासादशतसंबाधं मत्तकोकिलनादितम् । शाखालंबिमहारत्नशोभितानेकपादपम्
किन्नरीवनितागीतनादपूरितदिङ्मुखम् । अनेकारामसुभगं गौतमीतटमुत्तमम्
भारद्वाजगृहं पुण्यमनंतगुणसेवितम् । रतिकंदर्पसंकाश दासीदासशतान्वितम्
नानोपकरणोपेतं भारद्वाजगृहं शुभम् । तस्य चांतर्गतः सौधस्तत्रांतर्गृहवाटिकाः
अष्टौ तन्मध्यतो ह्येकं गृहं परमशोभनम् । चतुर्दिक्षु महादेव गृहप्रासादशोभितम्
प्रतिदेवगृहं श्यामा तौर्य्यत्रिकसुशोभितम् । स्वर्गस्थितवरस्त्रीणां विश्रामायैव कल्पितम्
भारद्वाजगृहाद्रामो निर्गत्याशेषसंयुतः । तस्यैव च महागेहं वनमध्यगतं त्वगात्
तदंतराच्छादितकंबलं तदा पृथक्स्थवस्त्रासनसंयुतं च । सिंहासनं मध्यगतं तथैकं मुन्यासनानेकगतं विवेश
पौराणिकस्यानुपमासनांतरं भूपालहर्यृक्षवरासनं च । पौराणिकं पूर्वमथोपवेश्य ततो वसिष्ठं मुनिपुंगवांश्च
नारायणं भूमिपतीन्कपींश्च नीचासनं च स्वयमाससाद । मेघावृतं व्योमदिशः प्रसन्नाः सुपुष्पमुर्वीतलमुप्तबीजम्
तदंगणं नोष्णमहो न शीतलं संतानपुष्पं दमपुष्पगंधि । शंभुं विलोक्याथ वचो बभाषे रामः कथां कीर्तय शंकरस्य
तृप्तिर्न जाता मुनिवर्य्य शृण्वतो माहेशमाख्यानमघौघनाशनम् । चकार किं वा ननु गौतमाश्रमे महेश्वरो देवगणाधिसंवृतः