अथ कुम्भकर्णो महागदामादाय सर्वं निष्पाद्य वानराननेकशो भक्षयित्वा रामोत्तमाङ्गं गदयाऽहन्
अथ रामो निशितबाणशतेन तमहन्ममार कुम्भकर्णः
अथ विभीषणेन रावणादेः श्राद्धादिकं कारयित्वा शिवालयं तन्नाम्ना कारयित्वा तमेव लङ्काराज्ये विभीषणमभिषिच्य सीतामग्निप्रवेशशुद्धामुमामहेश्वराभ्यां नमयित्वा पुरहरेण दत्ताखिलामृतबलायुष्यः सुपुष्पकमारुह्य जलधिमुत्तीर्य पारावारतटे सेनां समवस्थाप्य शिवप्रतिष्ठां तत्र कृत्वा मुनिभिर्देवैरभ्यर्चितोऽयोध्यामगमत्
अथ भरतादिसमुपेतो नागरैर्वसिष्ठेन मुनिभिश्चाभ्यर्चितःस्वगृहमगमत्
आत्मनाऽगतानिन्द्रा दिदेवानासनादिनाऽभ्यर्च्य वानरान्संपूज्य मुक्तजटोऽभिषिक्तो राज्ये रावणवधहर्षिता देवा राममूचुः
त्वयाऽत्मराज्ये स्थापिता वयं नः सर्वदा परिपालय त्वमादिनारायणो देवो निखिलदुष्टनिग्रहार्थमवतीर्णो रावणं सबान्धवं हत्वा लोकत्रयरक्षकोऽसि श्रिया सह सुखी भवेत्युदीर्य स्वर्गं गताः
अथायोध्यावासिनो रामं प्रहर्षिता ऊचुः
हत्वा शत्रून्समायातो दृष्ट्वा प्राप्तोऽसि वै शिवम् । दिष्ट्या त्वं राजसे राम दिष्ट्या पालयसे प्रजाः
त्वया यज्ञाः करिष्यंते त्वया धर्मो विवर्धते । इतिपौरवचःश्रुत्वारामो राजीवलोचनः
वस्त्रादिभिरथोसर्वान्नागरान्समपूजयत् । मुनीनुवाचधर्म्मात्मापूजयित्वाखिलैर्जनैः
कच्चित्तपःसमृद्धंवःकच्चिद्यज्ञःस्वनुष्ठितः । कच्चित्स्वदारनिरताःकच्चिदीशोभिपूज्यते
कच्चित्सुप्रजसोभार्याःकच्चित्सर्वंसुखोत्तरम्
मुनय ऊचुः - त्वयि राजनि काकुत्स्थ सर्वं स्वस्थं तपस्विनाम् । गच्छामहे पदमितः किं वा त्वं मन्यसे नृप
राम उवाच- यस्य विप्राः प्रसीदंति तस्य शंभुः प्रसीदति । यस्य प्रसीदतीशानस्तस्य भद्रं भविष्यति
तत्कृत्वा भोजनमिह गंतुमर्हा अनंतरम् । अथेत्युक्त्वा मुनिगणाः कृत्वा भोजनमुत्तमम्
अभिवर्ध्यतमाशीर्भिर्हृष्टाः स्वं स्वं पदं ययुः । रामोऽपि परमप्रीतः सभार्यश्च सहानुजः
अकंटकं स कृतवान्राज्यं सर्वजनप्रियः । शृणोत्येतदुपाख्यानं यः कश्चिदपि पातकी
सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति । न दुर्गतिर्भवेत्तस्य यश्चेदं स्मरते नरः
यश्चापि कीर्तयेत्तस्य एवमेतदुदीरितम्
सूत उवाच- भारद्वाजगृहे भुक्त्वा रामचंद्रः प्रसन्नधीः । मुनींद्र विष्णुसहितो वानरर्क्षसमन्वितः
मेघच्छन्ने तथाकाशे मंदं चरति मारुते । तद्वनाभ्यंतरे क्वापि सुदेवगृहमुत्तमम्
अष्टापदस्तंभयुतं हेमपट्टिककल्पितम् । मणिमौक्तिकसंयुक्तं राजतैः कलशैर्युतम्
पाटीरचंद्रकस्तूरीकुंकुमैः सुरभीकृतम् । कर्द्दमैर्जालकयुतं शकलोपरि संवृति
चंद्रजोत्स्नागमं सूर्य्या निरीक्ष्य मध्यभित्तिकम् । गृहांतर्भूतलं कृत्स्नं चंद्रपुष्परसोक्षितम्
दिगुदीची तथा कृत्स्नाभित्तिकल्पनवर्जिता । स्तंभेस्तंभे चित्रकारी स्वपादी परिकल्पितम्
शतहस्तांगणं तस्य स्फटिकोपरिकल्पितम् । गृहांगणाधिकच्छायः पारिजातमहीरुहः
कृत्स्नप्रावृतिकं तत्र निबिडं कदलीवनम् । कदलीवनसंयुक्तं केतकीवनसंवृतम्
मयूरनादबहुलं मंजुकूजन्मधुव्रतम् । पारावतगणध्वानं नानोपवनशोभितम्
प्रासादशतसंबाधं मत्तकोकिलनादितम् । शाखालंबिमहारत्नशोभितानेकपादपम्
किन्नरीवनितागीतनादपूरितदिङ्मुखम् । अनेकारामसुभगं गौतमीतटमुत्तमम्