आयुषोऽन्ते व्रजेन्मोक्षं योगिनामपि दुर्ल्लभम् । यमाज्ञया ततो दूतैः सदारोऽसौ महीपतिः
असिपत्रवने घोरे स्थापितोऽत्यंतदुःखदे । असितुल्यानि पत्राणि यतस्तेषां च शाखिनाम्
असिपत्रवनं प्राहुरतस्तद्वै मनीषिणः । स्थित्वासिपत्रविपिने युगकोटिशतानि च
सदारो नरकं भेजे व्याघ्रभक्ष्याह्वयं ततः । निरयं तं प्रविशति सर्वोपद्रवसंयुतम्
भवेच्च भक्ष्यो व्याघ्रेण व्याघ्रभक्ष्यस्ततः स्मृतः । युगकोटिसहस्राणि स्थित्वा तत्र स भूपतिः
सदारोऽजनि पापांते भेकयोनिं गतः क्षितौ । जातिस्मरौ ततस्तौ तु भेकीभेकौ सुदुःखितौ
तीरे तस्थतुरेकस्मिन्सततं कीटभोजिनौ । अथैकदा तेन पथा पुण्याहं प्राप्य मानवाः
गच्छंति जाह्नवीतीरं तांस्तौ ददृशतुर्द्विज । भेक उवाच- वर्षाभ्वि मोहाद्यत्सर्वं पापं कर्म कृतं मया
अद्यापि कर्मणा तेन दुःखमावां न मुंचति । त्यक्त्वा शरीरं गंगायां मुक्ताः स्युः पापिनोऽपि च १०० 7.9.
तथाप्येवं विधं दुःखमनुभूयावहे कथम् । गंगायां त्यक्तुमिच्छामि संप्रत्येतत्कलेवरम्
का युक्तिर्ब्रूहि तां कांते तितीर्षुर्दुःखसागरम् । वर्षाभ्वी तद्वचः श्रुत्वा प्राहेति विनयान्विता
वर्षाभ्व्युवाच- दुःखं न शक्यते सोढुं स्वामिन्नेतद् द्रुतं कुरु । ततस्तौ दंपती विप्र स्मृत्वा गंगां शुभप्रदाम्
सहसा चक्रतुर्यात्रां मरणायोपहर्षितौ । अथैतौ पथि गच्छंतौ चिरकालं बुभुक्षितौ
अपश्यत्पापकृत्क्ष्वेडः कालसर्पो भयंकरः । कालसर्प्प उवाच- दर्दुरौ पापिनौ येथाः प्राप्तकालौ युवां ततः
अथ नूनं भक्षितव्यौ क्षुधितेन मया युवाम् । ततस्तावतिसंत्रस्तौ दंपती दुःखभागिनौ
इत्यूचतुर्वचो भक्त्या कालसर्पं पुरोगतम् । नास्ति मृत्युभयं सर्प स्वल्पमप्यावयोर्हृदि
अहमासं पुरा राजा सत्यधर्माह्वयः क्षितौ । इयं च विजया नाम महिषी संस्थिता मम
मया दुरात्मना मोहान्नितः शरणं गतः ?। तेनैव कर्मणा भुक्तं चिरं दुःखं यमालये
भोक्तुं स्वकर्मणः शेषं भेकयोनौ स्त्रिया सह । सोऽहं यातोऽस्मि पापेन कृतं कर्म न मुंचति
सत्यमावां जिगमिषू परमं धाम पन्नग । व्रजावो जाह्नवीतीरं शरीरत्यागहेतवे
त्यजाविवेकतां सर्प नरकक्लेशदायिनीम् । आवां संखाद्य भवतो भविष्यति सुखं कियत्
आवयोर्हृदये विष्णुस्तवापि हृदये हरिः । अतएव त्वया सार्द्धं शत्रुता का भुजंगम
प्राणिहिंसा न कर्तव्या कदापि च विचक्षणैः । क्रियतेऽपि च तद्धिंसां विदधाति स्वयं विधिः
आयुः पुत्राश्च दाराश्च संपदश्च यशांसि च । हिंसां दत्वा मनुष्याणां हरेद्दुष्टो विधिः स्वयम्
किं जपैः किं तपोभिर्वा किं दानैः किमु चाध्वरैः । हिंसेति वर्णद्वितयं यस्यास्ति हृदये सदा
यः प्राणिहिंसको मर्त्यः स एव हरिहिंसकः । सर्वप्राणिशरीरस्थो भगवान्कमलापतिः
आत्मानं बहुधा सृष्ट्वा भगवान्भूतभावनः । संसारकौतुकागारे क्रीडेच्छिशुरिव स्वयम्
शरीरिणः शरीरं हि निलयः परमात्मनः । परमात्मा स्वयं विष्णुरतो हिंसां विवर्जयेत्
परप्राणविनाशेन चात्मतुष्टिर्विधीयते
क्षणं स्यादात्मनस्तुष्टिरन्यस्य प्राणसंक्षयः । चरित्रमेतल्लोकानामत्यद्भुतमिव क्षितौ