वक्ति च रामः पृथिवीपतिना मया दुष्टनिग्रहणं कार्यं शिष्टपरिपालनं च वालिना सुग्रीवमहिषी रुमापहृता राज्यं च अतश्च न तादृग्वधे दोषः
तारोवाच- सुग्रीवोऽपि तर्हि वध्यो दुंदुभिना युद्ध्यता वालिना बिलेप्रविष्टेन वत्सरं तत्रोषितं तदंतरे च मामपहृत्य राज्यं च कृतं सुग्रीवेण तं पूर्वमपि पश्चात्तं हंतु
राम उवाच-। कियत्कालात्पूर्वमिदं च वद
तारोवाच- षष्टिवर्षसहस्रादर्वाकशीतितमे वर्षे रक्षोयुद्धे सुग्रीवेण राज्यमपहृतम्
पुनश्च वर्षांतरे प्राप्तेन वालिना सुग्रीवः पलायितः
अपहृता तस्य भार्या राज्यं चापहृतम्
तस्मिन्नेव दिने भवतः पितुर्दशरथस्याभिषेकः
राघव उवाच- मया पितुरनुशासनाद्राज्यगतदुष्टनिग्रहणं कृतम् । गुरुवचनस्यानुल्लंघनीयत्वात्तदपहरणवेलायां यो राजासनाचरत्
अथवा स्वतंत्रौ मृगौ मृगयोर्हतश्च वाली मृगाणामन्योन्यं दारणाद्य जगुप्सा च
यतो मम मृगयावदाथवा मृगाणाम् । चलितस्थितबद्धानां चलद्भ्रांतपलायिनाम् । अथावसृजतासंगमुज्झिता मृगया तथा
मृगयाशास्त्रविधितो मृगयेयं मया कृता । दर्शनादर्शनाभ्यां च धावताधावता तथा
अवरोहात्परं स्थानं सात्विकानां प्रभिद्यते । राज्ञश्च मृगयाधर्मो विना आमिषभोजनम्
अथ रामवचनमाकर्ण्य सर्व एव प्राकंपयञ्छिरांसि
वाली बभाषे राममंजलिमस्तके निधाय नमस्ते राम शृणु वचनं मम
शंखचक्रगदापाणिः पीतवासा जगद्गुरुः । नारायणः स्वयं साक्षाद्भवानिति मया श्रुतम्
त्वां योगिनश्चिंतयंति त्वां यजंति च यज्विनः । हव्यकव्यभुगे कस्त्वं पितृदेवस्वरूपधृक्
मरणे चिंतयानस्य त्वां विमुक्तिरदूरतः । सत्वं मे दर्शनं प्राप्तो राम मे पापसंक्षयः
गृहाण बाणं काकुत्स्थ व्यथितो भृशमस्म्यहम्
अथ रामस्तथेति बाणमादाय वालिनमुवाच किमिष्टं दीयतां वद
कपिरुवाच- यदि प्रसन्नो भगवान्मम सद्गतिं देहि
अयं सुग्रीवस्तथा रक्षणीयोंऽगदोऽथ तारा च मया पापिनापराधः कृतस्तत्फलमनुभूतम्
अथ रामं पश्यन्नेव वाली ममार स्वर्गं च गतः
अथ सुग्रीवं राज्येऽभिषिच्य स्वयं वनं विवेश
अथ तेन सहायेन जलधिसमीपं गत्वा क्व लंका क्व सीता क्व चारातिरिति सुग्रीवमाह रामः
अथ हनुमानाह प्रविश्य लंकां विचित्य सीतां सर्वतत्त्वमवगत्य युद्धं संधिर्वा कर्तव्यः तदुदधिलंघनाय किंचित्समादिशतु भगवान्
अथ सुग्रीवमाह रामः । कथमेतद्घटत इति
कपिरुवाच- मम वानरा भल्लूप्रमुखाः कोटिशः संति
एकं नियुज्य सर्वमाकलय्य यथायुक्तं तथा करणीयम्
अथ जांबवानाह । हनूमानेको गच्छतु बुध्यतु लंकाम्
अथ हनूमानगमल्लंकापुरं विचित्य सीतामशोकवनिकायामासीनां तथा च संभाष्य विश्वासं कृत्वा वनं बभंज वनरक्षकांश्च