समादाय च तत्तैलं स्वगृहे पूज्य केशवम् । दीपं भक्त्या च परया बोधयेद्धरितुष्टये
एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः । मार्जारस्तीक्ष्णंदंष्ट्रस्तु मूषकान्भक्षयेत्सदा
तत्रागच्छति भक्ष्यार्थं मूषकानामहर्निशम् । कृत्वा ध्यानं स भक्ष्यार्थं नित्यं नारायणाग्रतः
भक्षिता बहवस्तेन मूषका द्विजवेश्मनि । ये ये तैलार्थमायांति वर्त्यपाहरणाय च
तांस्तांस्तु भक्षयत्येव मूषकान्ध्यानतत्परः । एवं प्रवर्तमानस्य कदाचित्कालपर्ययात्
एकादश्यां स कपिलो ब्राह्मणः स्वगृहे शुचिः । सोपवासः सपत्नीकः पूजयामास चाच्युतम्
ततो जागरणं चक्रे स्तुतिनृत्यपरायणः । अर्द्धरात्रे तु संप्राप्ते निद्रया मोहितो द्विजः
मार्जारश्चागतस्तत्र तीक्ष्णदंष्ट्रो लघुक्रमः । लक्षयामास नैवेद्यं गृहकोणे स्थितः सदा
अद्राक्षीन्मूषिकां क्षुद्रा तैलपानार्थमागताम् । मंदतेजसि दीपे तु वर्त्यपाहरणोचिताम्
समुत्पत्य पदाक्रम्य तदा सा बिलमाविशत् । तस्याः पादेन वै वर्त्या दीपः संबोधितो भृशम्
तैलपात्रं च नमितं सुप्रकाशोऽभवत्तदा । ब्राह्मणोऽपि जजागार त्यक्त्वा निद्रां विमोहिनीम्
मार्जारोऽपि च तां रात्रीमजाग्रच्चाखुभक्षकः । ततः प्रभाते विमले कृत्वा नित्यक्रियां द्विजः
ततश्च पारणं चक्रे विप्रो बंधुजनैः सह । एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः
बभूवुः पुत्रपौत्राश्च धनधान्यमनुत्तमम् । आरोग्यं परमामृद्धिमवाप महतीं श्रियम्
दीपव्रतप्रभावेन कपिलो मोक्षमागतः । संभेद्य मंडलं पुण्यं सवितुः शशिनस्तथा
दीपज्योतिःस्वरूपेण परमात्मा नियुक्तवान् । मूषिकापि च कालेन ममार बिलमध्यतः
विमानवरमारुह्य देवगंधर्वसेवितम् । अप्सरोभिः परिवृतो विद्याधरगणैर्युतः
स्तूयमानो महातेजा जयशब्दादि मंगलैः । स्तूयमानः स वै नागैर्विष्णुलोकं जगाम सः
कल्पकोटिसहस्राणि कल्पकोटिशतानि च । भुक्त्वा च विपुलान्भोगान्ततो राजाभवद्भुवि
सुधर्मा नाम धर्मात्मा देवब्राह्मणपूजकः । रूपवान्सुभगश्चैव महाबलपराक्रमः
तस्य प्रियतमा भार्या सर्वलक्षणसंयुता । भर्तृभक्ता तथा शीला नाम्ना सा रूपसुंदरी
सर्वासां चैव नारीणां मध्ये सा सुभगाभवत् । पुत्राश्च बहवो जातास्तथा दुहितरो घनाः
एवं विहरतोस्तद्वद्दंपत्योः प्रीतिपूर्वकम् । आगतः कार्त्तिको मासो हरिनेत्रावबोधकृत्
तस्मिन्दीपाः प्रबोध्यंते नारायणपरायणैः । कृच्छ्रचांद्रायणादीनि व्रतानि नियमास्तथा
क्रियंते विष्णुभक्तैश्च संसारभयभीरुभिः । अथ प्रबोधिनीं प्राप्य राजा राज्ञीमथाब्रवीत्
भद्रे प्रबोधिनी पुण्या विष्णोर्नाभिसरोरुहे । करिष्याम्यद्य पूजां च सोपवासो जितेंद्रियः
स्नात्वा च पुष्करे तीर्थे पुंडरीकाक्षमच्युतम् । पूजयिष्यामि देवेशं लक्ष्म्या सह जनार्दनम्
इति सा वांछितं श्रुत्वा भर्तुः प्रियहिते रता । उवाच वचनं गुह्यं भर्त्तारं चारुहासिनी
रूपसुंदर्युवाच- ममापि हृदये कामः समुत्पन्नो नराधिप । रूपसौंदर्यवांछा च हृदये मम वर्त्तते
पुष्करं प्रथमं तीर्थं गंतुमिच्छे त्वया सह । ततो राजा तया सार्द्धमागतः पुष्करं तदा