तेन पुण्यात्मना सार्द्धं वसेदेकासने ततः । तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि
सूर्यलोकं ततो गच्छेद्द्वितीय इव चन्द्रमाः । तत्रामृतानि भुक्त्वा वै चिरं चन्द्रस्य सन्निधौ
पुनरागत्य पृथिवीं चक्रवर्ती नृपो भवेत् । पालयित्वा चिरं पृथ्वीं जित्वा वै सकलान्रिपून्
आयुषोंऽते च गङ्गायां सुखं मृत्युमवाप्नुयात् । भूयः स एवमारुह्य विमानं सुमहायशाः
पुरं भगवतो याति दैवतैरपि दुर्ल्लभम् । तत्र भुक्त्वाखिलान्भोगान्मन्वंतरचतुष्टयम्
परमं ज्ञानमासाद्य दुर्ल्लभं मोक्षमाप्नुयात् । जाह्नवीतीरयात्रायां दैवाद्यस्य भवेत्पथि
पंचता सोऽपि परमं धाम गच्छेन्न संशयः । सत्यधर्मो नाम राजा धार्मिकश्च प्रियंवदः
त्रेताद्वापरसंधौ च बभूव क्षितिमण्डले । विजया नाम महिषी तस्य भूमिपतेरभूत्
सुंदरी शीलयुक्ता सा पतिसेवापरायणा । सप्तवर्षसहस्राणि भुक्त्वा वसुमतीमिमाम्
कदाचित्प्राप्तकालोऽसौ सदारः पंचतां गतः । ततो यमभटैर्बद्धौ दंपती तौ भयंकरौ
दुःखप्रदेन मार्गेण जग्मतुर्यममंदिरम् । तौ दृष्ट्वा धर्मराजोऽपि चित्रगुप्तमुवाच ह
एतयोः सर्वकर्माणि चित्रगुप्त विचारय । तेनाज्ञप्तश्चित्रगुप्तस्तयोः कर्माणि जैमिने
मूलाद्विचारयामास प्राह चेति कृताञ्जलि । चित्रगुप्त उवाच- एतयोः सकलं कर्म शृणु राजन्वदाम्यहम्
शुभं वाप्यशुभं कर्म यदेताभ्यां कृतं भुवि । किंचिदस्या नयोपायं वदामि तदहं शृणु
एकादा त्रासितो व्याघ्रैः कश्चिदेको मृगः प्रभो । वनाज्जीवनरक्षार्थमागतोऽस्य सभां प्रति
तमायांतं समालोक्य भूयोऽयं प्राप्तकौतुकः । जघने स्वयमुत्थाय खड्गेन तरसा मृगम्
जघान ह मृगं राजा शरणागतमप्यमुम् । तस्मात्सदारोभूपोऽयं दंडनीयस्त्वया प्रभो
यावंति तस्य रोमाणि संस्थितानि कलेवरे । मन्वंतरसहस्राणि मन्वंतरशतानि च
कोटिकोटिकुलैर्युक्ता नारकी स्यान्न संशयः । शरणागतरक्षां यः प्राणैरपि धनैरपि
कुरुते यो नरो ज्ञानी तस्य पुण्यं निशामय । सर्वपापैर्विनिर्मुक्तो ब्रह्महत्यामुखैरपि
आयुषोऽन्ते व्रजेन्मोक्षं योगिनामपि दुर्ल्लभम् । यमाज्ञया ततो दूतैः सदारोऽसौ महीपतिः
असिपत्रवने घोरे स्थापितोऽत्यंतदुःखदे । असितुल्यानि पत्राणि यतस्तेषां च शाखिनाम्
असिपत्रवनं प्राहुरतस्तद्वै मनीषिणः । स्थित्वासिपत्रविपिने युगकोटिशतानि च
सदारो नरकं भेजे व्याघ्रभक्ष्याह्वयं ततः । निरयं तं प्रविशति सर्वोपद्रवसंयुतम्
भवेच्च भक्ष्यो व्याघ्रेण व्याघ्रभक्ष्यस्ततः स्मृतः । युगकोटिसहस्राणि स्थित्वा तत्र स भूपतिः
सदारोऽजनि पापांते भेकयोनिं गतः क्षितौ । जातिस्मरौ ततस्तौ तु भेकीभेकौ सुदुःखितौ
तीरे तस्थतुरेकस्मिन्सततं कीटभोजिनौ । अथैकदा तेन पथा पुण्याहं प्राप्य मानवाः
गच्छंति जाह्नवीतीरं तांस्तौ ददृशतुर्द्विज । भेक उवाच- वर्षाभ्वि मोहाद्यत्सर्वं पापं कर्म कृतं मया
अद्यापि कर्मणा तेन दुःखमावां न मुंचति । त्यक्त्वा शरीरं गंगायां मुक्ताः स्युः पापिनोऽपि च १०० 7.9.
तथाप्येवं विधं दुःखमनुभूयावहे कथम् । गंगायां त्यक्तुमिच्छामि संप्रत्येतत्कलेवरम्