प्रातर्गङ्गां च विष्णुं च पुनरभ्यर्च्य जैमिने । विप्राय दक्षिणां दद्याद्विभवस्यानुरूपतः
अर्चनं जागरं चैव यत्कृतं पुरतस्तव । अच्छिद्रमस्तु तत्सर्वं त्वत्प्रसादात्सरिद्वरे
इत्युक्त्वा तां नमस्कृत्य कृतनित्यक्रियो द्विजः । ततः सबंधुभिः सार्द्धं पारणं स्वयमाचरेत्
तीर्थोपवासमेवं यः कुरुते जाह्नवीतटे । तस्य पुण्यफलं वत्स वदतो मे निशामय
जन्मांतरार्जितैः पापैर्विमुक्तो विष्णुरूपधृक् । विष्णोः पुरं समासाद्य विष्णुना सह मोदते
कल्पकोटिसहस्राणि कल्पकोटिशतानि च । स्थित्वा विष्णुपुरं सर्वं सुखं भुंक्ते सुदुर्ल्लभम्
ततो नारायणादेशाद्ब्रह्मलोकं स गच्छति । ब्रह्मलोके सुखं भुंक्ते दुर्ल्लभं यत्सुरैरपि
तावत्कालं ब्रह्मलोके स्थित्वा ब्रह्मक्षयात्ततः । महादेवं ततो गच्छेद्रथमारुह्य शोभनम्
सुखं नानाविधं तत्र भुङ्क्तेऽत्यन्तसुदुर्ल्लभम् । गाणपत्यमवाप्नोति किमन्यैर्बहुभाषितैः
तावत्कालं शिवपुरे स्थित्वा वै पुण्यवान्नरः । इन्द्रलोकं ततो गच्छेद्द्वितीय इव वासवः
तेन पुण्यात्मना सार्द्धं वसेदेकासने ततः । तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि
सूर्यलोकं ततो गच्छेद्द्वितीय इव चन्द्रमाः । तत्रामृतानि भुक्त्वा वै चिरं चन्द्रस्य सन्निधौ
पुनरागत्य पृथिवीं चक्रवर्ती नृपो भवेत् । पालयित्वा चिरं पृथ्वीं जित्वा वै सकलान्रिपून्
आयुषोंऽते च गङ्गायां सुखं मृत्युमवाप्नुयात् । भूयः स एवमारुह्य विमानं सुमहायशाः
पुरं भगवतो याति दैवतैरपि दुर्ल्लभम् । तत्र भुक्त्वाखिलान्भोगान्मन्वंतरचतुष्टयम्
परमं ज्ञानमासाद्य दुर्ल्लभं मोक्षमाप्नुयात् । जाह्नवीतीरयात्रायां दैवाद्यस्य भवेत्पथि
पंचता सोऽपि परमं धाम गच्छेन्न संशयः । सत्यधर्मो नाम राजा धार्मिकश्च प्रियंवदः
त्रेताद्वापरसंधौ च बभूव क्षितिमण्डले । विजया नाम महिषी तस्य भूमिपतेरभूत्
सुंदरी शीलयुक्ता सा पतिसेवापरायणा । सप्तवर्षसहस्राणि भुक्त्वा वसुमतीमिमाम्
कदाचित्प्राप्तकालोऽसौ सदारः पंचतां गतः । ततो यमभटैर्बद्धौ दंपती तौ भयंकरौ
दुःखप्रदेन मार्गेण जग्मतुर्यममंदिरम् । तौ दृष्ट्वा धर्मराजोऽपि चित्रगुप्तमुवाच ह
एतयोः सर्वकर्माणि चित्रगुप्त विचारय । तेनाज्ञप्तश्चित्रगुप्तस्तयोः कर्माणि जैमिने
मूलाद्विचारयामास प्राह चेति कृताञ्जलि । चित्रगुप्त उवाच- एतयोः सकलं कर्म शृणु राजन्वदाम्यहम्
शुभं वाप्यशुभं कर्म यदेताभ्यां कृतं भुवि । किंचिदस्या नयोपायं वदामि तदहं शृणु
एकादा त्रासितो व्याघ्रैः कश्चिदेको मृगः प्रभो । वनाज्जीवनरक्षार्थमागतोऽस्य सभां प्रति
तमायांतं समालोक्य भूयोऽयं प्राप्तकौतुकः । जघने स्वयमुत्थाय खड्गेन तरसा मृगम्
जघान ह मृगं राजा शरणागतमप्यमुम् । तस्मात्सदारोभूपोऽयं दंडनीयस्त्वया प्रभो
यावंति तस्य रोमाणि संस्थितानि कलेवरे । मन्वंतरसहस्राणि मन्वंतरशतानि च
कोटिकोटिकुलैर्युक्ता नारकी स्यान्न संशयः । शरणागतरक्षां यः प्राणैरपि धनैरपि
कुरुते यो नरो ज्ञानी तस्य पुण्यं निशामय । सर्वपापैर्विनिर्मुक्तो ब्रह्महत्यामुखैरपि