साक्षाद्ब्रह्मस्वरूपां त्वामपश्यमिति चक्षुषा । देवि त्वद्दर्शनादेव महापातकिनो मम
विनष्टमभवत्पापं जन्मकोटिसमुद्भवम् । इत्युक्त्वा सकलं देहं निपात्य पृथिवीतले
प्रणमेज्जाह्नवीं देवीं भक्तिभावसमन्वितः । ततः स्रोतःसमीपे च बद्धाञ्जलिरिमं पुनः
पठेन्मंत्रं भक्तिभावैः सुप्रीतो द्विजसत्तम । गंगे देवि जगद्धात्रि पादाभ्यां सलिलं तव
स्पृशामीत्यपराधं मे प्रसन्ना क्षंतुमर्हसि । स्वर्गारोहणसोपानं त्वदीयमुदकं शुभे
अतः स्पृशामि पादाभ्यां गंगे देवि नमो नमः । ततस्तु मस्तके धृत्वा गांगेयं वारि भक्तितः
स्नानार्थं प्रविशेत्स्रोतः प्राज्ञो गंगेति कीर्तयन् । त्वत्कर्दमैरतिस्निग्धैः सर्वपापप्रणाशनैः
मया संलिप्यते गात्रं मातर्मे हर पातकम् । गङ्गाकर्दमलिप्ताङ्गो गङ्गागङ्गेति कीर्तयन्
सर्वकल्मषनाशिन्यां गङ्गायां स्नानमाचरेत् । भूयः पूर्वोक्तमन्त्रेण गृहीत्वा मृत्तिकां ततः
वक्ष्यमाणेन मन्त्रेण गृहीत्वा मृत्तिकां पुनः । वक्ष्यमाणेन मंत्रेण भक्तितः स्नानमाचरेत्
ब्रह्मस्वरूपे हे गङ्गे स्नानमाचर्यते मया । त्वदीये निर्मले तोये यथोक्तफलदा भव
ततो निजेच्छया विप्र गङ्गायां लोकमातरि । स्नानं समाचरेत्प्राज्ञो गङ्गानारायणं स्मरन्
एवं स्नात्वा तु गङ्गायां गात्रं वस्त्रेण मार्जयेत् । परिधेयांबरांबूनि गङ्गास्रोतसि न त्यजेत्
न दंतधावनं कुर्याद्गङ्गागर्भे विचक्षणः । कुर्याच्चेन्मोहतः पुण्यं न गङ्गास्नानजं लभेत्
प्रभातेऽन्यत्र तां कृत्वा दंतकाष्ठादिकक्रियाम् । रात्रिवासं परित्यज्य गङ्गायां स्नानमाचरेत्
बाह्यभूमिमगत्वा यो गङ्गायां स्नानमाचरेत् । गङ्गास्नानफलं सोऽपि संपूर्णं च लभेन्नहि
स्नात्वा च गङ्गामृत्पुंड्रं स्थाने स्थाने नयेद्बुधः । ततः स्थिरमनाः कुर्याद्विधिना तर्पणादिकम्
गाङ्गेयैरुदकैर्यस्तु कुरुते पितृतर्पणम् । पितरस्तस्य तृप्यंति वर्षकोटिशतावधि
गङ्गायां कुरुते यस्तु पितृश्राद्धं द्विजोत्तम । पितरस्तस्य तिष्ठंति संतुष्टास्त्रिदशालयम् ५० 7.9.
समाप्य स्नानकर्माणि गङ्गायां समुपोषितः । दानं देवार्चनं चैव जयोऽन्याश्च क्रियास्तथा । कृतास्तु यास्तु गङ्गायां क्षयस्तासां न विद्यते
समाप्य स्नानकर्माणि गंगायां समुपोषितः । कृतपंचमहायज्ञो गंगापूजां समाचरेत्
गंगायाः प्रतिमां देव्याः श्रीविष्णोः प्रतिमां तथा । नालिकेरोदकैर्दिव्यैः स्नापयेद्भक्तितो बुधः
जाह्नवीप्रतिमाभावान्नालिकेरोदकानि वै । निक्षिपेज्जाह्नवीतोये जाह्नवीं हृदि संस्मरन्
दिव्यैर्गंधैश्च दीपैश्च घृतपूर्णसमुज्ज्वलैः । धूपैः सुवासितैश्चैव नानापुष्पमनोहरैः
नानाफलैः सुपक्वैश्च नैवेद्यैरुत्तमास्तथा । पाद्यार्घाचमनीयैश्च तांबूलैः खादिरान्वितैः
अन्यैरप्युपहारैश्च विशिष्टैर्निजभक्तितः । स्तवैर्नाना च नैवेद्यैर्गङ्गां विष्णुं च पूजयेत्
ततः संपूजितां देवीं विष्णुं च परमेश्वरम् । अंगप्रदक्षिणां कुर्याद्भक्त्या वारत्रयं बुधः
अथ स्थित्वा निराहारोऽपरेहनि सरिद्वरे । भोक्ष्यामि जह्नुतनये शरणं मे भवानघे
एवं संकल्प्य मतिमान्कर्मणा मनसा गिरा । रात्रौ जागरणं कुर्याज्जितनिद्रो ऽतिहर्षितः
अशक्त्या च द्विजश्रेष्ठ फलाहारो भवेदधः । अन्नमात्रं न भुंजीत न च कुर्याद्धि भोजनम्