श्रमैरिति वदेद्यस्तु संपूर्णं तत्फलं नहि । क्व पर्यंङ्कः क्व मे पत्नी क्व च मे च सुहृद्गृहम्
स्वपामि प्रांतरे भूमौ कथं वाहं समागतः । धनधान्यादिवस्तूनां का गतिर्वा गृहे मम
कियद्भिर्दिवसैर्भूयो गमिष्याम्यहमालयम् । इति चिंताकुला ये च पथि गच्छंति मानवाः
गंगास्नानफलं तेषां संपूर्णं न भवेद्द्विज । गङ्गे गंतुं प्रतीतीरे यात्रेयं विहिता तव
निर्विघ्नां सिद्धिमाप्नोमि त्वत्प्रसादात्सरिद्वरे । इमं मंत्रं समुच्चार्य यात्राकाले विशेषतः
हर्षितो निलयाद्गच्छेद्वैष्णवैः सह जैमिने । नातिवेगेन गंतव्यं न तथा च शनैः शनैः
गङ्गायात्रासु कर्त्तव्यं नान्यत्कर्म विचक्षणैः । गंगातीरे प्रयागे तु वाणिज्यप्रमुखानि च
कार्याणि कुरुते यस्तु तत्पुण्यार्द्धं विनश्यति । जन्मजन्मार्जितं पापं स्वल्पं वा यदि वा बहु
गंगादेवीप्रसादेन सर्वं मे यास्यति क्षयम् । इत्युक्त्वा परमप्रीतः प्राज्ञो गङ्गातटं व्रजेत्
दृष्ट्वा च मातरं गङ्गामिमं मंत्रमुदीरयेत् । अद्य मे सफलं जन्म जीवितं च सुजीवितम्
साक्षाद्ब्रह्मस्वरूपां त्वामपश्यमिति चक्षुषा । देवि त्वद्दर्शनादेव महापातकिनो मम
विनष्टमभवत्पापं जन्मकोटिसमुद्भवम् । इत्युक्त्वा सकलं देहं निपात्य पृथिवीतले
प्रणमेज्जाह्नवीं देवीं भक्तिभावसमन्वितः । ततः स्रोतःसमीपे च बद्धाञ्जलिरिमं पुनः
पठेन्मंत्रं भक्तिभावैः सुप्रीतो द्विजसत्तम । गंगे देवि जगद्धात्रि पादाभ्यां सलिलं तव
स्पृशामीत्यपराधं मे प्रसन्ना क्षंतुमर्हसि । स्वर्गारोहणसोपानं त्वदीयमुदकं शुभे
अतः स्पृशामि पादाभ्यां गंगे देवि नमो नमः । ततस्तु मस्तके धृत्वा गांगेयं वारि भक्तितः
स्नानार्थं प्रविशेत्स्रोतः प्राज्ञो गंगेति कीर्तयन् । त्वत्कर्दमैरतिस्निग्धैः सर्वपापप्रणाशनैः
मया संलिप्यते गात्रं मातर्मे हर पातकम् । गङ्गाकर्दमलिप्ताङ्गो गङ्गागङ्गेति कीर्तयन्
सर्वकल्मषनाशिन्यां गङ्गायां स्नानमाचरेत् । भूयः पूर्वोक्तमन्त्रेण गृहीत्वा मृत्तिकां ततः
वक्ष्यमाणेन मन्त्रेण गृहीत्वा मृत्तिकां पुनः । वक्ष्यमाणेन मंत्रेण भक्तितः स्नानमाचरेत्
ब्रह्मस्वरूपे हे गङ्गे स्नानमाचर्यते मया । त्वदीये निर्मले तोये यथोक्तफलदा भव
ततो निजेच्छया विप्र गङ्गायां लोकमातरि । स्नानं समाचरेत्प्राज्ञो गङ्गानारायणं स्मरन्
एवं स्नात्वा तु गङ्गायां गात्रं वस्त्रेण मार्जयेत् । परिधेयांबरांबूनि गङ्गास्रोतसि न त्यजेत्
न दंतधावनं कुर्याद्गङ्गागर्भे विचक्षणः । कुर्याच्चेन्मोहतः पुण्यं न गङ्गास्नानजं लभेत्
प्रभातेऽन्यत्र तां कृत्वा दंतकाष्ठादिकक्रियाम् । रात्रिवासं परित्यज्य गङ्गायां स्नानमाचरेत्
बाह्यभूमिमगत्वा यो गङ्गायां स्नानमाचरेत् । गङ्गास्नानफलं सोऽपि संपूर्णं च लभेन्नहि
स्नात्वा च गङ्गामृत्पुंड्रं स्थाने स्थाने नयेद्बुधः । ततः स्थिरमनाः कुर्याद्विधिना तर्पणादिकम्
गाङ्गेयैरुदकैर्यस्तु कुरुते पितृतर्पणम् । पितरस्तस्य तृप्यंति वर्षकोटिशतावधि
गङ्गायां कुरुते यस्तु पितृश्राद्धं द्विजोत्तम । पितरस्तस्य तिष्ठंति संतुष्टास्त्रिदशालयम् ५० 7.9.
समाप्य स्नानकर्माणि गङ्गायां समुपोषितः । दानं देवार्चनं चैव जयोऽन्याश्च क्रियास्तथा । कृतास्तु यास्तु गङ्गायां क्षयस्तासां न विद्यते