पश्चाज्जायेत नृपतिरेवं कृत्वा पुनस्तथा । राज्यं स्वर्गफलं भुक्त्वा शिवभक्तो भविष्यति
शंभुरुवाच-। दिलीपाय वसिष्ठोक्तं मुनीनामंगिरोब्रवीत् । ते तथा कृतवंतश्च तौर्य्यत्रिकमुमापतेः
श्रुत्वा पुराणं पाद्मं च समग्रं सुखिनो भवन् । त एते ब्राह्मणा राम विमानवरमास्थिताः
दृश्यंते खे च सुखिनः सदा मुदितमानसाः । एतत्ते सर्वमाख्यातं पुराणेषु विनिश्चितम्
इतः परं च किं भूयः श्रोतुमिच्छसि राघव
ति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे त्रयोदशोत्तरशततमोऽध्यायः
राम उवाच- क एष दृश्यते व्योम्नि सर्वाभरणभूषितः । विमानस्थो महादीप्त मध्याह्नार्क इवापरः
दुष्प्रेक्ष्यः सर्वमर्त्यानां तस्यांके चारुहासिनी । अपरा श्रीरिव ब्रह्मंस्तथा पंचसुयोषितः
गायंति मधुरां गीतिं सुभ्रूभंगनिरीक्षणैः । मंदस्मितैः करतलशब्दास्फोटिकया तथा
क्वचिद्गलकृतैर्गीतैरन्योन्य करताडनैः । अन्योन्य मुखमालोक्य प्रलोभैर्गीतपूर्वकैः
क्रीडन्नास्ते महायोगी पद्मकिंजल्कसन्निभः । एवं चरितपुण्येन केन वा तद्वदस्व मे
शंभुरुवाच- एष विप्रः पुरा राम सर्वसंपत्समन्वितः । नानाविधसुखोपेतो भार्य्यापोषणतत्परः
अपुत्रो दानहीनश्च देवतार्चनवर्जितः । पंचयज्ञविहीनश्च स्वाध्यायपरिवर्जितः
प्रातर्म्मध्याह्नसायाह्नभोजनप्रवणोऽशुचिः । कदाचिदगमद्गेहं गौतमस्य महात्मनः
त्र्यंबकस्य गिरौ पुण्ये नानामुनिगणाश्रिते । तत्रापि शोभितगृहं स्फटिकस्तंभकल्पितम्
अगुरुद्रवकस्तूरीचंद्र कुंकुमचर्चिता । भित्तिर्यस्य च संतानकुसुमामोदसौष्ठवम्
कस्तूरिका पुष्परस समुत्सेचितभूतलम् । सूक्ष्म सुश्वेतविविधवितानपरिशोभितम्
अंगणं शोभित महाकदलीपूगशोभितम् । समीपसरसीजात मंजुकूजन्मधुव्रतम्
पाटीरतरुसंभूत गंधपूरितदिङ्मुखम् । शिक्षागीतकृताल्हाद गीतपूरितदिङ्मुखम्
निदाघजनिताताप नाशयंत्रविनिर्मितम् । कदलीदलसंच्छादि पावकाकल्पितच्छदम्
पाटीरतरुसुस्निग्ध सांद्र द्वारकपाटकम् । सौगंधिकमहामोदि कल्पितांतर भित्तिकम्
ईशानभागसुभग रतिकल्पित वेदिकम् । हाटिकाकल्पितपदं विचित्रवेदिकायुतम्
सुस्निग्धनि बिडच्छायं वटमूलोपकल्पितम् । प्रसूनकदलीखंड सरोभिः प्रांतशोभितम्
महावटाग्रसंलग्न तुषारितपयोधरम् । नाकोपवनसंपन्न विचित्राराम शोभितम्
वापीकूपतडागाद्यमनेकवनशोभितम् । मंदं मंदं ववौ वायुर्यत्र गेहे सुखप्रदः
वादिन्यश्चारुसर्वांग्यो वाद्यानि स्मरसंपदः । वीणां वेणुं त्रिवेणुं च वादयंति वरांगनाः
तौर्य्यत्रिककृतो नार्य्यश्चतुर्दिक्षु तथोर्द्ध्वतः । सुवर्णादिकपात्रेषु वटका भस्मनः शुभाः
वासिताः सर्वगंधैश्च सुधूपैरपि धूपिताः । कुशग्रथितसंघाश्च अक्षमालाश्च कोटिशः
कृष्णाजिनसहस्राणि बहिः प्रांते स्थितानि च । एतादृशे गृहवरे देववंद्यो मुनीश्वरः
कर्पूरादींश्च संस्थाप्य चतुर्दिक्षु मुनीश्वरः । पाटीरपीठे कर्पूरसिंहासनमकल्पयत्