श्रोतुश्च तूष्णीं मननं तूष्णीं श्रवणमेव वा । अन्यथा भारती क्रुद्ध्येत् तत्क्रोधान्मूकता भवेत्
तस्मात्पुराणश्रोता च तांबूलादिसमर्पणम् । वक्तुश्च जीविकाकार्या स्वसामर्थ्यानुसारतः
पुराणप्रक्रमे देयं सचेलोद्गमनीयकम् । सूक्ष्मांबरमथो वापि वस्त्रद्वितयमर्पयेत्
आसनं तु महच्चित्रं रम्यमूर्जस्वलं मृदु । सुवर्णं वा तथा दद्याद्गो भू गेहादिकं तथा
एतत्समस्तं विप्रेंद्रा दक्षिणामूर्तिना पुरा । शंकरेण मुनीनां हि भाषितं च दिवौकसाम्
अथ ते मुनयः सर्वे तं प्रणम्यासनस्थितम् । पृथक्पृथक्च तांबूलं दत्वा शुश्रूषवः स्थिताः
तेनापि कथितं सर्वं पुराणं सर्वसंप्रदम् । उपांताध्यायपर्य्यंतं श्रुतवंतो द्विजोत्तमाः
दिलीप उवाच- कामगेन विमानेन सर्वसंपत्समृद्धिना । सर्वतः सुखयुक्तेन पुण्यस्थानमुपस्थितम्
वसिष्ठ उवाच- नालं पृष्टं त्वया राजन्नितोप्यतिशयांतरैः । क्रीडमाना भविष्यंति येन तत्पुण्यमुच्यते
सुधाधवलितं कृत्वा शिववेश्मसमं ततः । स्त्रियो रूपविलासाढ्याः सर्वालंकारभूषिताः
नानासुगीतकुशला नानानृत्यविशारदाः । चतस्रोऽष्टौ षडथवा मर्द्दलध्वनिकाः स्त्रियः
वशिन्यौ द्वे आवजिक्यौ कोणिकाधमने उभे । लासिक्यस्तु चतस्रः स्युः संतुष्टैकाथ गायिका
एका द्वे वा सुगीतज्ञेऽमुखरे हि प्रकीर्तिते । कोणवाद्यकृते द्वे तु तूष्णींभूताः षडष्ट वा
सर्वा रूपविलासिन्यः सर्वाश्चापतितस्तनाः । रतितंत्राधिकुशलास्तत एवाविशंकिताः
सुसूक्ष्मा वस्त्रवेषाश्च विद्युच्चंचलदृष्टयः । एतादृशीभिर्योषाभिर्येन नृत्यं हि कारितम्
एकस्मिन्दिवसे राजन्वत्सरान्सविमानगः । शतस्त्रीवीक्षितमुखो युवा बहुभिरर्चितः
आनंदपोषसंपूर्णः क्रोधेर्ष्यादिविवर्जितः । पंचगंधविलिप्तांगः सचंद्रा हिदलाननः
सूर्योपमस्तु योषाश्च सर्वास्ता दशनान्विताः । सद्योविकसितामोदि पारिजातकृतस्रजः
सर्वा विकसितारोहि रक्तसंधिकृतस्रजः । धम्मिल्ले वक्षसि तथा बिभ्रत्यः सुस्मिताधराः
चरत्येतादृशीभिस्तु नृत्यगीतानुमोदितः । एवं विमानगो भूत्वा उषित्वा कालमक्षयम्
पश्चाज्जायेत नृपतिरेवं कृत्वा पुनस्तथा । राज्यं स्वर्गफलं भुक्त्वा शिवभक्तो भविष्यति
शंभुरुवाच-। दिलीपाय वसिष्ठोक्तं मुनीनामंगिरोब्रवीत् । ते तथा कृतवंतश्च तौर्य्यत्रिकमुमापतेः
श्रुत्वा पुराणं पाद्मं च समग्रं सुखिनो भवन् । त एते ब्राह्मणा राम विमानवरमास्थिताः
दृश्यंते खे च सुखिनः सदा मुदितमानसाः । एतत्ते सर्वमाख्यातं पुराणेषु विनिश्चितम्
इतः परं च किं भूयः श्रोतुमिच्छसि राघव
ति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे त्रयोदशोत्तरशततमोऽध्यायः
राम उवाच- क एष दृश्यते व्योम्नि सर्वाभरणभूषितः । विमानस्थो महादीप्त मध्याह्नार्क इवापरः
दुष्प्रेक्ष्यः सर्वमर्त्यानां तस्यांके चारुहासिनी । अपरा श्रीरिव ब्रह्मंस्तथा पंचसुयोषितः
गायंति मधुरां गीतिं सुभ्रूभंगनिरीक्षणैः । मंदस्मितैः करतलशब्दास्फोटिकया तथा
क्वचिद्गलकृतैर्गीतैरन्योन्य करताडनैः । अन्योन्य मुखमालोक्य प्रलोभैर्गीतपूर्वकैः